अनुवाकः 16 TS 7.3.16

(A16)

(पा॒र्श्वाभ्याꣳ॒॒ स्वाहा॑ - म॒ज्जभ्यः॒ स्वाहा॒ - षट् च॑)

अनुवाकः 16 - Complete Audio

TS 7.3.16 - स्वरानुगामी

0:00 0:00
PS1.1 द॒द्भ्यः स्वाहा॒ हनू᳚भ्याꣳ॒॒ स्वाहोष्ठा᳚भ्याꣳ॒॒
PS1.2 स्वाहा॒ मुखा॑य॒ स्वाहा॒ नासि॑काभ्याꣳ॒॒
PS1.3 स्वाहा॒ ऽक्षीभ्याꣳ॒॒ स्वाहा॒ कर्णा᳚भ्याꣳ॒॒
PS1.4 स्वाहा॑ पा॒र इ॒क्षवो॑ऽवा॒र्ये᳚भ्यः॒ पक्ष्म॑भ्यः॒
PS1.5 स्वाहा॑ ऽवा॒र इ॒क्षवः॑ पा॒र्ये᳚भ्यः॒
PS1.6 पक्ष्म॑भ्यः॒ स्वाहा॑ शी॒र्ष्णे स्वाहा᳚
PS1.7 भ्रू॒भ्याꣳ स्वाहा॑ ल॒लाटा॑य॒ स्वाहा॑
PS1.8 मू॒र्द्ध्ने स्वाहा॑ म॒स्तिष्का॑य॒ स्वाहा॒
PS1.9 केशे᳚भ्यः॒ स्वाहा॒ वहा॑य॒ स्वाहा᳚
PS1.10 ग्री॒वाभ्यः॒ स्वाहा᳚ स्क॒न्धेभ्यः॒ स्वाहा॒
PS1.11 कीक॑साभ्यः॒ स्वाहा॑ पृ॒ष्टीभ्यः॒ स्वाहा॑
PS1.12 पाज॒स्या॑य॒ स्वाहा॑ पा॒र्श्वाभ्याꣳ॒॒ स्वाहा-
PS1.13 [ ]
PS2.1 ऽꣳसा᳚भ्याꣳ॒॒ स्वाहा॑ दो॒षभ्याꣳ॒॒ स्वाहा॑
PS2.2 बा॒हुभ्याꣳ॒॒ स्वाहा॒ जङ्घा᳚भ्याꣳ॒॒ स्वाहा॒
PS2.3 श्रोणी᳚भ्याꣳ॒॒ स्वाहो॒रुभ्याꣳ॒॒ स्वाहा᳚ ऽष्ठी॒वद्भ्याꣳ॒॒
PS2.4 स्वाहा॒ जङ्घा᳚भ्याꣳ॒॒ स्वाहा॑ भ॒सदे॒
PS2.5 स्वाहा॑ शिख॒ण्डेभ्यः॒ स्वाहा॑ वाल॒धाना॑य॒
PS2.6 स्वाहा॒ ऽऽण्डाभ्याꣳ॒॒ स्वाहा॒ शेपा॑य॒
PS2.7 स्वाहा॒ रेत॑से॒ स्वाहा᳚ प्र॒जाभ्यः॒
PS2.8 स्वाहा᳚ प्र॒जन॑नाय॒ स्वाहा॑ प॒द्भ्यः
PS2.9 स्वाहा॑ श॒फेभ्यः॒ स्वाहा॒ लोम॑भ्यः॒
PS2.10 स्वाहा᳚ त्व॒चे स्वाहा॒ लोहि॑ताय॒
PS2.11 स्वाहा॑ माꣳ॒॒साय॒ स्वाहा॒ स्नाव॑भ्यः॒
PS2.12 स्वाहा॒ ऽस्थभ्यः॒ स्वाहा॑ म॒ज्जभ्यः॒
PS2.13 स्वाहा ( ) ऽङ्गे᳚भ्यः॒
PS2.14 स्वाहा॒ ऽऽत्मने॒ स्वाहा॒ सर्व॑स्मै॒
PS2.15 स्वाहा᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.3.16.1 TS 7.3.16.1
द॒द्भ्यः स्वाहा॒ हनू᳚भ्याꣳ॒॒ स्वाहोष्ठा᳚भ्याꣳ॒॒ स्वाहा॒ मुखा॑य॒ स्वाहा॒ नासि॑काभ्याꣳ॒॒ स्वाहा॒ ऽक्षीभ्याꣳ॒॒ स्वाहा॒ कर्णा᳚भ्याꣳ॒॒ स्वाहा॑ पा॒र इ॒क्षवो॑ऽवा॒र्ये᳚भ्यः॒ पक्ष्म॑भ्यः॒ स्वाहा॑ ऽवा॒र इ॒क्षवः॑ पा॒र्ये᳚भ्यः॒ पक्ष्म॑भ्यः॒ स्वाहा॑ शी॒र्ष्णे स्वाहा᳚ भ्रू॒भ्याꣳ स्वाहा॑ ल॒लाटा॑य॒ स्वाहा॑ मू॒र्द्ध्ने स्वाहा॑ म॒स्तिष्का॑य॒ स्वाहा॒ केशे᳚भ्यः॒ स्वाहा॒ वहा॑य॒ स्वाहा᳚ ग्री॒वाभ्यः॒ स्वाहा᳚ स्क॒न्धेभ्यः॒ स्वाहा॒ कीक॑साभ्यः॒ स्वाहा॑ पृ॒ष्टीभ्यः॒ स्वाहा॑ पाज॒स्या॑य॒ स्वाहा॑ पा॒र्श्वाभ्याꣳ॒॒ स्वाहा- [ ]
पदपाठः (Word-by-word)
द॒द्भ्य इति॑ दत् - भ्यः । स्वाहा᳚ । हनू᳚भ्या॒मिति॒ हनु॑ - भ्या॒म् । स्वाहा᳚ । ओष्ठा᳚भ्याम् । स्वाहा᳚ । मुखा॑य । स्वाहा᳚ । नासि॑काभ्याम् । स्वाहा᳚ । अ॒क्षीभ्या᳚म् । स्वाहा᳚ । कर्णा᳚भ्याम् । स्वाहा᳚ । पा॒रे । इ॒क्षवः॑ । अ॒वा॒र्ये᳚भ्यः । पक्ष्म॑भ्य॒ इति॒ पक्ष्म॑ - भ्यः॒ । स्वाहा᳚ । अ॒वा॒रे । इ॒क्षवः॑ । पा॒र्ये᳚भ्यः । पक्ष्म॑भ्य॒ इति॒ पक्ष्म॑ - भ्यः॒ । स्वाहा᳚ । शी॒र्ष्णे । स्वाहा᳚ । भ्रू॒भ्याम् । स्वाहा᳚ । ल॒लाटा॑य । स्वाहा᳚ । मू॒द्‌र्ध्ने । स्वाहा᳚ । म॒स्तिष्का॑य । स्वाहा᳚ । केशे᳚भ्यः । स्वाहा᳚ । वहा॑य । स्वाहा᳚ । ग्री॒वाभ्यः॑ । स्वाहा᳚ । स्क॒न्धेभ्यः॑ । स्वाहा᳚ । कीक॑साभ्यः । स्वाहा᳚ । पृ॒ष्टीभ्य॒ इति॑ पृ॒ष्टि - भ्यः॒ । स्वाहा᳚ । पा॒ज॒स्या॑य । स्वाहा᳚ । पा॒र्श्वाभ्या᳚म् । स्वाहा᳚ ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथाश्वस्याङ्गानि जुहोति - दद्भ्यः स्वाहेत्यादि ॥ 'पद्दन्' इत्यादिना दद्भावः, 'ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । हनूभ्यां, स्वाङ्गदीर्घत्वम् । अक्षीभ्याम् । 'ईध द्विवचने' इतीकारः स चोदात्तः । पार इक्षव इत्यादि । इक्षवः अक्षिरोमाणि पारे अक्ष्युपरिपुटे ये इक्षवः ते अवार्येऽभ्यः अधराक्षिपुटस्थेभ्यः पक्ष्मरोमभ्यः प्रवर्तन्ते तदर्थं तानि वा अपेक्ष्येत्यर्थ्यः । तेभ्यः स्वाहेति । एवं अधरे अधरपुटे ये इक्षवः ते पार्येभ्यः उत्तराक्षिपुटस्थेभ्यः पक्ष्मरोमभ्यः प्रवर्तन्ते तदर्थं तानि वा अपेक्ष्य तेभ्यः स्वाहेति । एवं परस्परोपकारित्वमुभयेषां पक्ष्मणामुक्तम्, पक्ष्मनिमित्तत्वादक्ष्णोरीक्षणसामर्थ्यस्य । उभयत्रापि दिगादित्वाद्यत् । द्वितीये व्यत्ययेन 'यतोऽनावः' इत्याद्युदात्तत्वाभावः । शीर्ष्णे उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । भ्रूभ्याम् । उक्तं विभक्त्युदात्तत्वं 'सावेकाचः' इति । मूर्ध्ने । पूर्ववदुदात्तनिवृत्तिस्वरत्वम् । मस्तिष्काय शिरोमांसाय । वहाय वहनदेशाय । ग्रीवाभ्यः धमनीभ्यः । कीकसाभ्यः ग्रीवाया आरम्य पृष्ठवंशास्थिगुळिकाभ्यः । पृष्टीभ्यः हस्तयोरुपरि पृष्ठवंशस्योभयतः स्थितानि अस्थीनि पृष्टयः । सांहितिकं दीर्घत्वं छान्दसम् । पाजस्याय पाजो बलं तत्र भवाय हृदयाय । दोषाभ्याम् । 'पद्दन्' इत्यादिना दोषन्भावः । जङ्घाभ्यां श्रोणीभ्यां छान्दसं संहितायां दीर्घत्वम् । जङ्घाभ्यामपराभ्याम् । भसदे अपानप्रदेशाय । शिखण्डेम्यः चूडेभ्यः । वालधानाय पुच्छाय । अण्डाभ्याम् । प्रजननाय शफस्यैवैकदेशाय । पद्भ्यः पूर्ववत् पद्भावस्स्वरश्च ॥
इति सप्तमे तृतीये षोडशोनुवाकः ॥
पञ्चशत् 2 #
TS 7.3.16.2 TS 7.3.16.2
ऽꣳसा᳚भ्याꣳ॒॒ स्वाहा॑ दो॒षभ्याꣳ॒॒ स्वाहा॑ बा॒हुभ्याꣳ॒॒ स्वाहा॒ जङ्घा᳚भ्याꣳ॒॒ स्वाहा॒ श्रोणी᳚भ्याꣳ॒॒ स्वाहो॒रुभ्याꣳ॒॒ स्वाहा᳚ ऽष्ठी॒वद्भ्याꣳ॒॒ स्वाहा॒ जङ्घा᳚भ्याꣳ॒॒ स्वाहा॑ भ॒सदे॒ स्वाहा॑ शिख॒ण्डेभ्यः॒ स्वाहा॑ वाल॒धाना॑य॒ स्वाहा॒ ऽऽण्डाभ्याꣳ॒॒ स्वाहा॒ शेपा॑य॒ स्वाहा॒ रेत॑से॒ स्वाहा᳚ प्र॒जाभ्यः॒ स्वाहा᳚ प्र॒जन॑नाय॒ स्वाहा॑ प॒द्भ्यः स्वाहा॑ श॒फेभ्यः॒ स्वाहा॒ लोम॑भ्यः॒ स्वाहा᳚ त्व॒चे स्वाहा॒ लोहि॑ताय॒ स्वाहा॑ माꣳ॒॒साय॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा॒ ऽस्थभ्यः॒ स्वाहा॑ म॒ज्जभ्यः॒ स्वाहा ( ) ऽङ्गे᳚भ्यः॒ स्वाहा॒ ऽऽत्मने॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
अꣳसा᳚भ्याम् । स्वाहा᳚ । दो॒षभ्या॒मिति॑ दो॒ष - भ्या॒म् । स्वाहा᳚ । बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् । स्वाहा᳚ । जङ्घा᳚भ्याम् । स्वाहा᳚ । श्रोणी᳚भ्या॒मिति॒ श्राणि॑ - भ्या॒म् । स्वाहा᳚ । ऊ॒रुभ्या॒मित्यू॒रु - भ्या॒म् । स्वाहा᳚ । अ॒ष्ठी॒वद्भ्या॒मित्य॑ष्ठी॒वत् - भ्या॒म् । स्वाहा᳚ । जङ्घा᳚भ्याम् । स्वाहा᳚ । भ॒सदे᳚ । स्वाहा᳚ । शि॒ख॒ण्डेभ्यः॑ । स्वाहा᳚ । वा॒ल॒धाना॒येति॑ वाल - धाना॑य । स्वाहा᳚ । अ॒ण्डाभ्या᳚म् । स्वाहा᳚ । शेपा॑य । स्वाहा᳚ । रेत॑से । स्वाहा᳚ । प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ । स्वाहा᳚ । प्र॒जन॑ना॒येति॑ प्र - जन॑नाय । स्वाहा᳚ । प॒द्भ्य इति॑ पत् - भ्यः । स्वाहा᳚ । श॒फेभ्यः॑ । स्वाहा᳚ । लोम॑भ्य॒ इति॒ लोम॑ - भ्यः॒ । स्वाहा᳚ । त्व॒चे । स्वाहा᳚ । लोहि॑ताय । स्वाहा᳚ । माꣳ॒॒साय॑ । स्वाहा᳚ । स्नाव॑भ्य॒ इति॒ स्नाव॑ - भ्यः॒ । स्वाहा᳚ । अ॒स्थभ्य॒ इत्य॒स्थ - भ्यः॒ । स्वाहा᳚ । म॒ज्जभ्य॒ इति॑ म॒ज्ज - भ्यः॒ । स्वाहा᳚ ( ) । अङ्गे᳚भ्यः । स्वाहा᳚ । आ॒त्मने᳚ । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
पदसंख्या: 56