अनुवाकः 8 TS 7.3.8

(A8)

(ए॒तथ् - स॒प्तत्रिꣳ॑शच्च)

अनुवाकः 8 - Complete Audio

TS 7.3.8 - स्वरानुगामी

0:00 0:00
PS1.1 प्र॒जाप॑ति-रकामयतान्ना॒दः स्या॒मिति॒ स ए॒तꣳ
PS1.2 स॑प्तदशरा॒त्र-म॑पश्य॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒
PS1.3 वै सो᳚ऽन्ना॒दो॑ऽभव॒द्य ए॒वं ॅवि॒द्वाꣳसः॑
PS1.4 सप्तदश-रा॒त्रमास॑ते ऽन्ना॒दा ए॒व भ॑वन्ति
PS1.5 पञ्चा॒हो भ॑वति॒ पञ्च॒ वा
PS1.6 ऋ॒तवः॑ संॅवथ्स॒र ऋ॒तुष्वे॒व सं॑ॅवथ्स॒रे
PS1.7 प्रति॑ तिष्ठ॒न्त्यथो॒ पञ्चा᳚क्षरा प॒ङ्क्तिः
PS1.8 पाङ्क्तो॑ य॒ज्ञो य॒ज्ञ्मे॒वाऽव॑ रुन्ध॒ते
PS1.9 ऽस॑त्रं॒ ॅवा ए॒त- [
PS1.10 ]
PS2.1 -द्यद॑छन्दो॒मं ॅयच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑
PS2.2 स॒त्रं दे॒वता॑ ए॒व पृ॒ष्ठैरव॑
PS2.3 रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्यं॑
PS2.4 पृ॒ष्ठानि॑ प॒शवः॑ छन्दो॒मा ओज॑स्ये॒व
PS2.5 वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति
PS2.6 सप्तदशरा॒त्रो भ॑वति सप्तद॒शः प्र॒जाप॑तिः
PS2.7 प्र॒जाप॑ते॒राप्त्या॑ अतिरा॒त्राव॒भितो॑ भवतो॒ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.3.8.1 TS 7.3.8.1
प्र॒जाप॑ति-रकामयतान्ना॒दः स्या॒मिति॒ स ए॒तꣳ स॑प्तदशरा॒त्र-म॑पश्य॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒ वै सो᳚ऽन्ना॒दो॑ऽभव॒द्य ए॒वं ॅवि॒द्वाꣳसः॑ सप्तदश-रा॒त्रमास॑ते ऽन्ना॒दा ए॒व भ॑वन्ति पञ्चा॒हो भ॑वति॒ पञ्च॒ वा ऋ॒तवः॑ संॅवथ्स॒र ऋ॒तुष्वे॒व सं॑ॅवथ्स॒रे प्रति॑ तिष्ठ॒न्त्यथो॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञ्मे॒वाऽव॑ रुन्ध॒ते ऽस॑त्रं॒ ॅवा ए॒त- [ ]
पदपाठः (Word-by-word)
प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । अ॒का॒म॒य॒त॒ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । स्या॒म् । इति॑ । सः । ए॒तम् । स॒प्त॒द॒श॒रा॒त्रमिति॑ सप्तदश - रा॒त्रम् । अ॒प॒श्य॒त् । तम् । एति॑ । अ॒ह॒र॒त् । तेन॑ । अ॒य॒ज॒त॒ । ततः॑ । वै । सः । अ॒न्ना॒द इत्य॑न्न - अ॒दः । अ॒भ॒व॒त् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । स॒प्त॒द॒श॒रा॒त्रमिति॑ सप्तदश-रा॒त्रम् । आस॑ते । अ॒न्ना॒दा इत्य॑न्न-अ॒दाः । ए॒व । भ॒व॒न्ति॒ । प॒ञ्चा॒ह इति॑ पञ्च - अ॒हः । भ॒व॒ति॒ । पञ्च॑ । वै । ऋ॒तवः॑ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । ऋ॒तुषु॑ । ए॒व । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अथा॒ इति॑ । पञ्चा᳚क्ष॒रेति॒ पञ्च॑ - अ॒क्ष॒रा॒ । प॒ङ्क्तिः । पाङ्क्तः॑ । य॒ज्ञ्ः । य॒ज्ञ्म् । ए॒व । अवेति॑ । रु॒न्ध॒ते॒ । अस॑त्रम् । वै । ए॒तत् ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अय सप्तदशरात्त्रो विधीयते - प्रजापतिरकामयतेत्यादि ॥ गतम् । तस्य चैतान्यहानि - अतिरात्रो ज्योतिर्गौरायुः पञ्चाहो द्वादशाहस्य दशाहान्यतिरात्र इति । पञ्चाह इति । कानि पुनरिमान्यहानि - 'आभिप्लाविकानामयमविच्छेदः' इत्याचार्यः । तत्र वचनसामर्थ्यात्प्राकृतान्यपि पृष्ठ्यहानि गृह्यन्ते । अभिप्लवषडहस्याद्यानि पञ्च गृह्यन्ते । कानि पुनस्तानि - ज्योतिरग्निष्टोमो रथन्तरसामा प्रथमः, गौरुक्थ्यो बृहत्सामा द्वितीयः, आयुरुक्थ्यो रथन्तरसामा तृतीयः, गौरुक्थ्यो बृहत्सामा चतुर्थः, आयुरुक्थ्यो रथन्तरसामा पञ्चमः इति । ज्योतिरग्निष्टोमो बृहत्सामा षष्ठः, स तु त्यज्यते । पञ्च वा इत्यादि । गतम् । हेमन्तशिशिशिरयोरेकत्वात् पञ्चत्वम् । अथो अपि च पञ्चत्वान्वयेन पाङ्क्तयज्ञावरोधः । पङ्क्तिप्रभवत्वाद्वा धानादिपञ्चकसाधनत्वाद्वा पाङ्क्तत्वं यज्ञस्य । पङ्क्तिशब्द उत्सादिरित्युक्तम् ॥
2 असत्त्रं वा इत्यादि व्याख्यातम् । तेन पञ्चाहादुपरि द्वादशाहीयो दशरात्रो गृह्यते ॥
3 सप्तदशरात्र इत्यादि ॥ सप्तदशस्य प्रजासाधनत्वात् सप्तदशः प्रजापतिः । अतिरात्राभ्यां अन्नाद्यस्य परिग्रहः, अन्नाद्यकामो हि प्रजापतिः अन्नाङ्गतेति? ॥
इति सप्तमे तृतीये अष्टमोनुवाकः ॥
पञ्चशत् 2 #
TS 7.3.8.2 TS 7.3.8.2
-द्यद॑छन्दो॒मं ॅयच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्रं दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्यं॑ पृ॒ष्ठानि॑ प॒शवः॑ छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति सप्तदशरा॒त्रो भ॑वति सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॑ अतिरा॒त्राव॒भितो॑ भवतो॒ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥
पदपाठः (Word-by-word)
यत् । अ॒छ॒न्दो॒ममित्य॑छन्दः-मम् । यत् । छ॒न्दो॒मा इति॑ छन्दः - माः । भव॑न्ति । तेन॑ । स॒त्रम् । दे॒वताः᳚ । ए॒व । पृ॒ष्ठैः । अवेति॑ । रु॒न्ध॒ते॒ । प॒शून् । छ॒न्दो॒मैरिति॑ छन्दः - मैः । ओजः॑ । वै । वी॒र्य᳚म् । पृ॒ष्ठानि॑ । प॒शवः॑ । छ॒न्दो॒मा इति॑ छन्दः - माः । ओज॑सि । ए॒व । वी॒र्ये᳚ । प॒शुषु॑ । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । स॒प्त॒द॒श॒रा॒त्र इति॑ सप्तदश - रा॒त्रः । भ॒व॒ति॒ । स॒प्त॒द॒श इति॑ सप्त - द॒शः । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । आप्त्यै᳚ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥
पदसंख्या: 37