अनुवाकः 20 TS 7.3.20

(A20)

(वन॒स्पति॑भ्यः॒ - षट् च॑त्वारिꣳशत्)

अनुवाकः 20 - Complete Audio

TS 7.3.20 - स्वरानुगामी

0:00 0:00
PS1.1 वन॒स्पति॑भ्यः॒ स्वाहा॒ मूले᳚भ्यः॒ स्वाहा॒
PS1.2 तूले᳚भ्यः॒ स्वाहा॒ स्कन्धो᳚भ्यः॒ स्वाहा॒
PS1.3 शाखा᳚भ्यः॒ स्वाहा॑ प॒र्णेभ्यः॒ स्वाहा॒
PS1.4 पुष्पे᳚भ्यः॒ स्वाहा॒ फले᳚भ्यः॒ स्वाहा॑
PS1.5 गृही॒तेभ्यः॒ स्वाहा ऽगृ॑हीतेभ्यः॒ स्वाहा
PS1.6 ऽव॑पन्नेभ्यः॒ स्वाहा॒ शया॑नेभ्यः॒ स्वाहा॑
PS1.7 शि॒ष्टाय॒ स्वाहा ऽति॑शिष्टाय॒ स्वाहा॒
PS1.8 परि॑शिष्टाय॒ स्वाहा॒ सꣳशि॑ष्टाय॒ स्वाहो-च्छि॑ष्टाय॒
PS1.9 स्वाहा॑ रि॒क्ताय॒ स्वाहा ऽरि॑क्ताय॒
PS1.10 स्वाहा॒ प्ररि॑क्ताय॒ स्वाहा॒ सꣳरि॑क्ताय॒
PS1.11 स्वाहो -द्रि॑क्ताय॒ स्वाहा॒ सर्व॑स्मै॒
PS1.12 स्वाहा᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.3.20.1 TS 7.3.20.1
वन॒स्पति॑भ्यः॒ स्वाहा॒ मूले᳚भ्यः॒ स्वाहा॒ तूले᳚भ्यः॒ स्वाहा॒ स्कन्धो᳚भ्यः॒ स्वाहा॒ शाखा᳚भ्यः॒ स्वाहा॑ प॒र्णेभ्यः॒ स्वाहा॒ पुष्पे᳚भ्यः॒ स्वाहा॒ फले᳚भ्यः॒ स्वाहा॑ गृही॒तेभ्यः॒ स्वाहा ऽगृ॑हीतेभ्यः॒ स्वाहा ऽव॑पन्नेभ्यः॒ स्वाहा॒ शया॑नेभ्यः॒ स्वाहा॑ शि॒ष्टाय॒ स्वाहा ऽति॑शिष्टाय॒ स्वाहा॒ परि॑शिष्टाय॒ स्वाहा॒ सꣳशि॑ष्टाय॒ स्वाहो-च्छि॑ष्टाय॒ स्वाहा॑ रि॒क्ताय॒ स्वाहा ऽरि॑क्ताय॒ स्वाहा॒ प्ररि॑क्ताय॒ स्वाहा॒ सꣳरि॑क्ताय॒ स्वाहो -द्रि॑क्ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
वन॒स्पति॑भ्य॒ इति॒ वन॒स्पति॑ - भ्यः॒ । स्वाहा᳚ । मूले᳚भ्यः । स्वाहा᳚ । तूले᳚भ्यः । स्वाहा᳚ । स्कन्धो᳚भ्य॒ इति॒ स्कन्धः॑ - भ्यः॒ । स्वाहा᳚ । शाखा᳚भ्यः । स्वाहा᳚ । प॒र्णेभ्यः॑ । स्वाहा᳚ । पुष्पे᳚भ्यः । स्वाहा᳚ । फले᳚भ्यः । स्वाहा᳚ । गृ॒ही॒तेभ्यः॑ । स्वाहा᳚ । अगृ॑हीतेभ्यः । स्वाहा᳚ । अव॑पन्नेभ्य॒ इत्यव॑ - प॒न्ने॒भ्यः॒ । स्वाहा᳚ । शया॑नेभ्यः । स्वाहा᳚ । शि॒ष्टाय॑ । स्वाहा᳚ । अति॑शिष्टा॒येत्यति॑ - शि॒ष्टा॒य॒ । स्वाहा᳚ । परि॑शिष्टा॒येति॒ परि॑-शि॒ष्टा॒य॒ । स्वाहा᳚ । सꣳशि॑ष्टा॒येति॒ सं - शि॒ष्टा॒य॒ । स्वाहा᳚ । उच्छि॑ष्टा॒येत्युत् - शि॒ष्टा॒य॒ । स्वाहा᳚ । रि॒क्ताय॑ । स्वाहा᳚ । अरि॑क्ताय । स्वाहा᳚ । प्ररि॑क्ता॒येति॒ प्र - रि॒क्ता॒य॒ । स्वाहा᳚ । सꣳरि॑क्ता॒येति॒ सं - रि॒क्ता॒य॒ । स्वाहा᳚ । उद्रि॑क्ता॒येत्युत् - रि॒क्ता॒य॒ । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
पदसंख्या: 46
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ वनस्पतिहोमाः - वनस्पतिभ्य इत्याद्याः ॥ वनस्पतयः फलिनः। उपलक्षणत्वात् सर्वेऽपि शाखिनो गृह्यन्ते, पारस्करादित्वात्सुट्, 'उभे वनस्पत्यादिषु युगपत्' इति पूर्वोत्तरयोर्युगपत्प्रकृतिस्वरत्वम्, । स्कन्धोभ्यः । वर्णव्यत्ययः, सकारन्त एव वा ।. गृहीतादीनि व्याख्यातानि । शिष्टाय क्रियासूपयुक्ताय । 'अतिशिष्टाय उपयुज्य स्थापितैकदेशाय । 'परिशिष्टाय उपयोगातिरिक्ताय । संशिष्टाय संपूर्णमुपयुज्य त्यक्ताय । रिक्ताय पुष्पफलैर्वर्जिताय । अतिरिक्ताय अन्यतर युक्ताय । प्ररिक्ताय पुष्पफलैः सर्वथा वर्जिताय । संरिक्ताय पर्णैश्च वर्जिताय । उद्रिक्ताय सर्वैस्समृद्धाय । अत्र प्रादिसमासे व्यत्ययेन अव्ययपूर्वपदप्रकृतिस्वरत्वम् । गतिसमासे 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥
इति भट्टभास्करमिश्रविरचिते ज्ञानयज्ञाख्ये यजुर्वेदभाष्ये सप्तमे काण्डे तृतीयप्रश्ने विंशोनुवाकः ॥

समाप्तश्च प्रपाठकः ॥

……………………………………………………………………………………………………………

प्रश्नः-4