पञ्चशत् 1 #
इन्द्रो॒ वै स॒दृङ् दे॒वता॑भिरासी॒थ् स न व्या॒वृत॑मगच्छ॒थ् स प्र॒जाप॑ति॒मुपा॑धाव॒त् तस्मा॑ ए॒तं प॑ञ्चदशरा॒त्रं प्राय॑च्छ॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒ वै सो᳚ऽन्याभि॑-र्दे॒वता॑भि-र्व्या॒वृत॑मगच्छ॒द्य ए॒वं ॅवि॒द्वाꣳसः॑ पञ्चदशरा॒त्रमास॑ते व्या॒वृत॑मे॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छन्ति॒ ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हो भ॑वती॒यं ॅवाव ज्योति॑र॒न्तरि॑क्षं॒ - [ ]
पदपाठः (Word-by-word)
इन्द्रः॑ । वै । स॒दृङ्ङिति॑ स - दृङ् । दे॒वता॑भिः । आ॒सी॒त् । सः । न । व्या॒वृत॒मिति॑ वि - आ॒वृत᳚म् । अ॒ग॒च्छ॒त् । सः । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । उपेति॑ । अ॒धा॒व॒त् । तस्मै᳚ । ए॒तम् । प॒ञ्च॒द॒श॒रा॒त्रमिति॑ पञ्चदश-रा॒त्रम् । प्रेति॑ । अ॒य॒च्छ॒त् । तम् । एति॑ । अ॒ह॒र॒त् । तेन॑ । अ॒य॒ज॒त॒ । ततः॑ । वै । सः । अ॒न्याभिः॑ । दे॒वता॑भिः । व्या॒वृत॒मिति॑ वि - आ॒वृत᳚म् । अ॒ग॒च्छ॒त् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । प॒ञ्च॒द॒श॒रा॒त्रमिति॑ पञ्चदश - रा॒त्रम् । आस॑ते । व्या॒वृत॒मिति॑ वि - आ॒वृत᳚म् । ए॒व । पा॒प्मना᳚ । भ्रातृ॑व्येण । ग॒च्छ॒न्ति॒ । ज्योतिः॑ । गौः । आयुः॑ । इति॑ । त्र्य॒ह इति॑ त्रि - अ॒हः । भ॒व॒ति॒ । इ॒यम् । वाव । ज्योतिः॑ । अ॒न्तरि॑क्षम् ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ चत्वारः पञ्चदशरात्रा भवन्ति । तत्र द्वौ छन्दोमवन्तौ; तत्र छन्दोमवतोरप्येकः सत्राहीनात्मा पुनरतिरात्रादिः, यथा त्रिवृदग्निष्टोमो ज्योतिर्गौरायुस्त्रयो द्वादशाहस्य दशाहान्यतिरात्र इति । इतरः सत्रमेवोभयतोतिरात्रः; यथाऽतिरात्रो ज्योतिर्गौरायुस्त्रयो द्वादशाहस्य दशाहान्यतिरात्र इति । एतदिदानीं विदधाति - इन्द्रो वा इत्यादि ॥ इन्द्रोऽन्याभिः देवताभिः सदृङ् सम आसीत् । 'दृक्सवस्स्वतवसाम्' इति नुमि 'क्विन्प्रत्ययस्य कुः' इति कुत्वम् । स व्यावृतं व्यावृत्तिं वैलक्षण्यं नागच्छत् । वृतेस्सम्पददिलक्षणः क्विप् । स प्रजापतिमित्यादि । गतम् । ज्योतिरित्यादि । व्याख्यातम् ॥
2 असत्रमित्यादि । । नेदमछन्दोमस्य सत्रस्य प्रतिषेधार्थं, अपि तु छन्दोमवतः प्रशंसार्थं, छन्दोमवतस्सकाशे अछन्दोमं सत्रव्यपदेशं नार्हतीति । ओजसि वीर्ये पशुषु प्रतितिष्ठन्ति प्रतिष्ठां गच्छन्ति । पञ्चदशरात्र इति । छन्दोमविधिः । पञ्चदशो वज्र इति । वीर्यवत्त्वात् । अतिरात्रावित्यादि । गतम् । इन्द्रियपरिग्रहो विशेषः ॥
इति सप्तमे तृतीये षष्ठोनुवाकः ॥