पञ्चशत् 1 #
अ॒ञ्ज्ये॒ताय॒ स्वाहा᳚ ऽञ्जिस॒क्थाय॒ स्वाहा॑ शिति॒पदे॒ स्वाहा॒ शिति॑ककुदे॒ स्वाहा॑ शिति॒रन्ध्रा॑य॒ स्वाहा॑ शितिपृ॒ष्ठाय॒ स्वाहा॑ शि॒त्यꣳसा॑य॒ स्वाहा॑ पुष्प॒कर्णा॑य॒ स्वाहा॑ शि॒त्योष्ठा॑य॒ स्वाहा॑ शिति॒भ्रवे॒ स्वाहा॒ शिति॑भसदे॒ स्वाहा᳚ श्वे॒तानू॑काशाय॒ स्वाहा॒ ऽञ्जये॒ स्वाहा॑ ल॒लामा॑य॒ स्वाहा ऽसि॑तज्ञ्वे॒ स्वाहा॑ कृष्णै॒ताय॒ स्वाहा॑ रोहितै॒ताय॒ स्वाहा॑ ऽरुणै॒ताय॒ स्वाहे॒दृशा॑य॒ स्वाहा॑ की॒दृशा॑य॒ स्वाहा॑ ता॒दृशा॑य॒ स्वाहा॑ स॒दृशा॑य॒ स्वाहा॒ विस॑दृशाय॒ स्वाहा॒ सुस॑दृशाय॒ स्वाहा॑ रू॒पाय॒ स्वाहा॒ ( ) सर्व॑स्मै॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
अ॒ञ्ज्ये॒तायेत्य॑ञ्जि - ए॒ताय॑ । स्वाहा᳚ । अ॒ञ्जि॒स॒क्थायेत्य॑ञ्जि-स॒क्थाय॑ । स्वाहा᳚ । शि॒ति॒पद॒ इति॑ शिति - पदे᳚ । स्वाहा᳚ । शिति॑ककुद॒ इति॒ शिति॑ - क॒कु॒दे॒ । स्वाहा᳚ । शि॒ति॒रन्ध्रा॒येति॑ शिति - रन्ध्रा॑य । स्वाहा᳚ । शि॒ति॒पृ॒ष्ठायेति॑ शिति - पृ॒ष्ठाय॑ । स्वाहा᳚ । शि॒त्यꣳसा॒येति॑ शिति - अꣳसा॑य । स्वाहा᳚ । पु॒ष्प॒कर्णा॒येति॑ पुष्प - कर्णा॑य । स्वाहा᳚ । शि॒त्योष्ठा॒येति॑ शिति - ओष्ठा॑य । स्वाहा᳚ । शि॒ति॒भ्रव॒ इति॑ शिति - भ्रवे᳚ । स्वाहा᳚ । शिति॑भसद॒ इति॒ शिति॑ - भ॒स॒दे॒ । स्वाहा᳚ । श्वे॒तानू॑काशा॒येति॑ श्वे॒त - अ॒नू॒का॒शा॒य॒ । स्वाहा᳚ । अ॒ञ्जये᳚ । स्वाहा᳚ । ल॒लामा॑य । स्वाहा᳚ । असि॑तज्ञ्व॒ इत्यसि॑त - ज्ञ्॒वे॒ । स्वाहा᳚ । कृ॒ष्णै॒तायेति॑ कृष्ण - ए॒ताय॑ । स्वाहा᳚ । रो॒हि॒तै॒तायेति॑ रोहित - ए॒ताय॑ । स्वाहा᳚ । अ॒रु॒णै॒तायेत्य॑रुण - ए॒ताय॑ । स्वाहा᳚ । ई॒दृशा॑य । स्वाहा᳚ । की॒दृशा॑य । स्वाहा᳚ । ता॒दृशा॑य । स्वाहा᳚ । स॒दृशा॑य । स्वाहा᳚ । विस॑दृशा॒येति॒ वि-स॒दृ॒शा॒य॒ । स्वाहा᳚ । सुस॑दृशा॒येति॒ सु - स॒दृ॒शा॒य॒ । स्वाहा᳚ । रू॒पाय॑ । स्वाहा᳚ ( ) । सर्व॑स्मै । स्वाहा᳚ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथाश्वरूपाणि जुहोति - अञ्ज्येतायेत्यादि ॥ अञ्ज्येताय केचिदाहुः - अञ्जिः शुक्लः एतः सन्ध्यावर्णं इति । अन्ये आहुः - अञ्जिः कृष्णः एतः शुक्लः इति । अञ्जिश्चासौ एतश्च अञ्ज्येतः । 'वर्णो वर्णेन' इति समासः, 'वर्णो वर्णेषु' इति पूर्वपदप्रकृतिस्वरत्वस्य 'अनेतः' इति पर्युदासात् । समासान्तोदात्तत्वमेव भवति । अञ्जिसक्थाय शुक्लसक्थाय । ऊरुमूलस्थानि अस्थीनि सक्थीनि । 'बहुव्रीहौ सक्थ्यक्ष्णोः' इति षच्, 'सक्थं चाक्रान्तात्' इत्युत्तरपदान्तोदात्तत्वम् । शितिपदे शुक्लपादाय 'पादस्य लोपः' इति लोपः समासान्त, 'पादः पत्' इति पद्भावः, 'शितेर्नित्या बह्वच्' इत्युतरपदप्रकृतिस्वरत्वम् । शितिककुदि शुक्लककुदाय । ककुदस्यावस्थायां लोपः । कदाचिच् बह्वच्त्वात् शितिस्वराभावात् । शितिरन्ध्रादिषु स एव च स्वरः प्रवर्तते । पुष्पकर्णाय पुष्पाकारलक्षणं कर्णयोर्यस्य । 'कर्णो वर्णलक्षणात्' इत्युत्तरपदाद्युदात्तत्वम् । शितिभसदे । भसत् अपानप्रदेशः, 'अभसत्' इति पर्युदासात् शितिस्वराभावः । श्वेतानूकाय श्वेताक्षायेति केचित् । श्वेतशरीरप्रकाशायेत्यन्ये । अञ्जये सर्वशुक्लाय । ललामाय ललामवते । असितज्ञवे, छान्दसो ज्ञुभावो जानुनः । कृष्णैताय कृष्णश्चासावेतश्च, स्वरसमासौ पूर्वावेव । एवमुत्तरयोरपि लोहितः शुक्लाधिको रक्तः । ईदृशाय इदमिव पश्यत्यात्मानमिति 'त्यदादिषु दृशः' इति कन्प्रत्ययः, 'इदंकिमोरीश्की' । एवं कीदृशाय । सदृशाय 'समानान्ययोश्च' इति कन् । योगविभागात् अन्यत्रापीष्यते इति समानस्य सभावः । रूपाय रूपमात्राय । सर्वस्मै अनुक्तायापि ॥
इति सप्तमे तृतीये सप्तदशोनुवाकः ॥