पञ्चशत् 1 #
आ मे॑ गृ॒हा भ॑व॒न्त्वा प्र॒जा म॒ आ मा॑ य॒ज्ञो वि॑शतु वी॒र्या॑वान् । आपो॑ दे॒वीर्य॒ज्ञिया॒ माऽऽवि॑शन्तु स॒हस्र॑स्य मा भू॒मा मा प्र हा॑सीत् ॥ आ मे॒ ग्रहो॑ भव॒त्वा पु॑रो॒रुख् स्तु॑तश॒स्त्रे मा ऽऽ वि॑शताꣳ स॒मीची᳚ । आ॒दि॒त्या रु॒द्रा वस॑वो मे सद॒स्याः᳚ स॒हस्र॑स्य मा भू॒मा मा प्र हा॑सीत् ॥आ मा᳚ऽग्निष्टो॒मो वि॑शतू॒ ( ) क्थ्य॑श्चातिरा॒त्रो माऽऽ वि॑शत्वापिशर्व॒रः ।ति॒रोअ॑ह्निया मा॒ सुहु॑ता॒ आ वि॑शन्तु स॒हस्र॑स्य मा भू॒मा मा प्र हा॑सीत् ॥
पदपाठः (Word-by-word)
एति॑ । मे॒ । गृ॒हाः । भ॒व॒न्तु॒ । एति॑ । प्र॒जेति॑ प्र - जा । मे॒ । एति॑ । मा॒ । य॒ज्ञ्ः । वि॒श॒तु॒ । वी॒र्या॑वा॒निति॑ वी॒र्य॑ - वा॒न् ॥ आपः॑ । दे॒वीः । य॒ज्ञियाः᳚ । मा॒ । एति॑ । वि॒श॒न्तु॒ । स॒हस्र॑स्य । मा॒ । भू॒मा । मा । प्रेति॑ । हा॒सी॒त् ॥ एति॑ । मे॒ । ग्रहः॑ । भ॒व॒तु॒ । एति॑ । पु॒रो॒रुगिति॑ पुरः - रुक् । स्तु॒त॒श॒स्त्रे इति॑ स्तुत - श॒स्त्रे । मा॒ । एति॑ । वि॒श॒ता॒म् । स॒मीची॒ इति॑ ॥ आ॒दि॒त्याः । रु॒द्राः । वस॑वः । मे॒ । स॒द॒स्याः᳚ । स॒हस्र॑स्य । मा॒ । भू॒मा । मा । प्रेति॑ । हा॒सी॒त् ॥ एति॑ । मा॒ । अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः । वि॒श॒तु॒ ( ) । उ॒क्थ्यः॑ । च॒ । अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । मा॒ । एति॑ । वि॒श॒तु॒ । आ॒पि॒श॒र्व॒र इत्या॑पि - श॒र्व॒रः ॥ ति॒रोअ॑ह्निया॒ इति॑ ति॒रः - अ॒ह्नि॒याः॒ । मा॒ । सुहु॑ता॒ इति॒ सु - हु॒ताः॒ । एति॑ । वि॒श॒न्तु॒ । स॒हस्र॑स्य । मा॒ । भू॒मा । मा । प्रेति॑ । हा॒सी॒त् ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ आभूतीर्जुहोति - आ मे गृहा इत्यादि ॥ तिस्त्रस्त्रिष्टुभः जगती प्रथमा । मे मम गृहाः आभवन्तु आभिमुख्येन मम भवन्तु मां प्राप्नुवन्तु । प्रजा च मे आभवतु आभिमुख्येन जायताम् । यज्ञो मां आविशतु वीर्यवान् फलदानसमर्थशक्तिमान् । 'अन्येषाम्' इति दीर्घत्वम् । आपश्च देव्यः यज्ञिया यज्ञसंपादनार्थाः मां विशन्तु । 'यज्ञर्त्विग्भ्यां' इति घः । किं च - सहस्रस्य भूमा सहस्रसंबन्धि यद्बहुतरं सहस्रगृहात् अन्यूनपदपादादेः । स मा कदाचिदपि मा प्रहासीत् मा त्याक्षीत् सहस्रादूनविभूतिः मा कदाचित् भूवम् । 'बहोर्लोपो भूच बहोः' ॥
2 अथ द्वितीया - आ मे ग्रह इति । । ग्रहः ऐन्द्रवायवादिः मम आभवतु । स एवार्थः । पुरोरुक् ग्रहणमन्त्रश्च मामाविशतु । स्तुतशस्त्रे च मामाविशताम् । समीची सम्यङ्निर्वृत्ते । सम्यादेशस्य 'चौ' इति दीर्घत्वम्, 'नपुंसकाच्च' इति शिः । आदित्यादयश्च मे मम सदस्या भवन्तु नित्यं यष्टा भूयासमित्यर्थः । यद्वा - आदित्यादयस्सर्वेऽपि मामाविशन्तु । सहस्रस्येत्यादि । गतम् ॥
3 तृतीया - अग्निष्टोमो मामाविशतु । उक्थ्यश्च अतिरात्रश्च मामाविशत्वेव । अतिरात्रो विशेष्यते - आपिशर्वरः । अपिशर्वरी रात्रिपर्यायः, समुच्चितरात्रिपर्यायो वा । स्वार्थिकोण् । तिरोअह्निया रात्रिः सा मामाविशतु । सुहुताः सुष्ठु हुताः । अह्नः तिरोहिताः तिरोअह्नियाः । 'अह्नोह्नः एतेम्यः' इत्यह्नादेशः, स्वार्थिको यत् । सहस्रस्येत्यादि । गतम् ॥
इति सप्तमे तृतीये त्रयोदशोनुवाकः ॥