अनुवाकः 10 TS 7.3.10

(A10)

(गृ॒ह्ण॒न्ति॒ दि॒वा॒की॒र्त्ये॑नै॒ - वोभ॒यतो॒ - ना - प्र॑तिष्ठिता॒ - आस॑त॒ - एक॑विꣳशतिश्च)

अनुवाकः 10 - Complete Audio

TS 7.3.10 - स्वरानुगामी

0:00 0:00
PS1.1 अ॒सावा॑दि॒त्यो᳚ऽस्मिन् ॅलो॒क आ॑सी॒त् तं
PS1.2 दे॒वाः पृ॒ष्ठैः प॑रि॒गृह्य॑ सुव॒र्गं
PS1.3 ॅलो॒कम॑गमय॒न् परै॑र॒वस्ता॒त् पर्य॑गृह्णन् दिवाकी॒र्त्ये॑न
PS1.4 सुव॒र्गे लो॒के प्रत्य॑स्थापय॒न् परैः᳚
PS1.5 प॒रस्ता॒त् पर्य॑गृह्णन् पृ॒ष्ठैरु॒पावा॑रोह॒न्थ्स वा
PS1.6 अ॒सावा॑दि॒त्यो॑ऽमुष्मि॑न् ॅलो॒के परै॑रुभ॒यतः॒ परि॑गृहीतो॒
PS1.7 यत् पृ॒ष्ठानि॒ भव॑न्ति सुव॒र्गमे॒व
PS1.8 तैर्लो॒कं ॅयज॑माना यन्ति॒ परै॑र॒वस्ता॒त्
PS1.9 परि॑ गृह्णन्ति दिवाकी॒र्त्ये॑न -
PS1.10 [ ]
PS2.1 सुव॒र्गे लो॒के प्रति॑ तिष्ठन्ति॒
PS2.2 परैः᳚ प॒रस्ता॒त् परि॑ गृह्णन्ति
PS2.3 पृ॒ष्ठैरु॒पाव॑रोहन्ति॒ यत् परे॑ प॒रस्ता॒न्न
PS2.4 स्युः परा᳚ञ्चः सुव॒र्गा-ल्लो॒कान्निष्प॑द्येर॒न्॒. यद॒वस्ता॒न्न
PS2.5 स्युः प्र॒जा निर्द॑हेयुर॒भितो॑ दिवाकी॒र्त्यं॑
PS2.6 पर॑स्सामानो भवन्ति सुव॒र्ग ए॒वैनां᳚
PS2.7 ॅलो॒क उ॑भ॒यतः॒ परि॑ गृह्णन्ति॒
PS2.8 यज॑माना॒ वै दि॑वाकी॒र्त्यꣳ॑ संॅवथ्स॒रः
PS2.9 पर॑स्सामानो॒ऽभितो॑ दिवाकी॒र्त्यं॑ पर॑स्सामानो भवन्ति
PS2.10 संॅवथ्स॒र ए॒वोभ॒यतः॒ - [
PS2.11 ]
PS3.1 प्रति॑ तिष्ठन्ति पृ॒ष्ठं ॅवै
PS3.2 दि॑वाकी॒र्त्यं॑ पा॒र्श्वे पर॑स्सामानो॒ ऽभितो॑
PS3.3 दिवाकी॒र्त्यं॑ पर॑स्सामानो भवन्ति॒ तस्मा॑द॒भितः॑
PS3.4 पृ॒ष्ठं पा॒र्श्वे भूयि॑ष्ठा॒ ग्रहा॑
PS3.5 गृह्यन्ते॒ भूयि॑ष्ठꣳ शस्यते य॒ज्ञ्स्यै॒व
PS3.6 तन्म॑द्ध्य॒तो ग्र॒न्थिं ग्र॑थ्न॒न्त्यवि॑स्रꣳसाय स॒प्त
PS3.7 गृ॑ह्यन्ते स॒प्त वै शी॑र्.ष॒ण्याः᳚
PS3.8 प्रा॒णाः प्रा॒णाने॒व यज॑मानेषु दधति॒
PS3.9 यत् प॑रा॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्त्य॒मुमे॒व
PS3.10 तै-र्लो॒कम॒भ्यारो॑हन्ति॒ यदि॒मं ॅलो॒कं न
PS3.11 - [ ]
PS4.1 प्र॑त्यव॒-रोहे॑यु॒रुद्वा॒ माद्ये॑यु॒र्यज॑मानाः॒ प्र वा॑
PS4.2 मीयेर॒न्॒. यत् प्र॑ती॒चीना॑नि पृ॒ष्ठानि॒
PS4.3 भव॑न्ती॒ममे॒व तैर्लो॒कं प्र॒त्यव॑रोह॒न्त्यथो॑ अ॒स्मिन्ने॒व
PS4.4 लो॒के प्रति॑ तिष्ठ॒न्त्यनु॑न्मादा॒येन्द्रो॒ वा
PS4.5 अप्र॑तिष्ठित आसी॒थ् स प्र॒जाप॑ति॒-मुपा॑धाव॒त्
PS4.6 तस्मा॑ ए॒तमे॑कविꣳशतिरा॒त्रं प्राय॑च्छ॒त् तमाऽह॑र॒त्
PS4.7 तेना॑यजत॒ ततो॒ वै स
PS4.8 प्रत्य॑तिष्ठ॒द्ये ब॑हुया॒जिनो ऽप्र॑तिष्ठिताः॒ -
PS4.9 [ ]
PS5.1 स्युस्त ए॑कविꣳशति-रा॒त्रमा॑सीर॒न् द्वाद॑श॒ मासाः॒
PS5.2 पञ्च॒र्तव॒स्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य
PS5.3 ए॑कविꣳ॒॒श ए॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेष्वे॒व
PS5.4 य॑था पू॒र्वं प्रति॑ तिष्ठन्त्य॒सावा॑दि॒त्यो
PS5.5 न व्य॑रोचत॒ स प्र॒जाप॑ति॒मुपा॑धाव॒त्
PS5.6 तस्मा॑ ए॒तमे॑कविꣳशतिरा॒त्रं प्राय॑च्छ॒त् तमाऽह॑र॒त्
PS5.7 तेना॑यजत॒ ततो॒ वै सो॑
PS5.8 ऽरोचत॒ य ए॒वं वि॒द्वाꣳस॑
PS5.9 एकविꣳशतिरा॒त्रमास॑ते॒ ( ) रोच॑न्त
PS5.10 ए॒वैक॑विꣳशतिरा॒त्रो भ॑वति॒ रुग्वा ए॑कविꣳ॒॒शो
PS5.11 रुच॑मे॒व ग॑च्छ॒न्त्यथो᳚ प्रति॒ष्ठामे॒व प्र॑ति॒ष्ठा
PS5.12 ह्ये॑कविꣳ॒॒शो॑ ऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒
PS5.13 परि॑गृहीत्यै

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.3.10.1 TS 7.3.10.1
अ॒सावा॑दि॒त्यो᳚ऽस्मिन् ॅलो॒क आ॑सी॒त् तं दे॒वाः पृ॒ष्ठैः प॑रि॒गृह्य॑ सुव॒र्गं ॅलो॒कम॑गमय॒न् परै॑र॒वस्ता॒त् पर्य॑गृह्णन् दिवाकी॒र्त्ये॑न सुव॒र्गे लो॒के प्रत्य॑स्थापय॒न् परैः᳚ प॒रस्ता॒त् पर्य॑गृह्णन् पृ॒ष्ठैरु॒पावा॑रोह॒न्थ्स वा अ॒सावा॑दि॒त्यो॑ऽमुष्मि॑न् ॅलो॒के परै॑रुभ॒यतः॒ परि॑गृहीतो॒ यत् पृ॒ष्ठानि॒ भव॑न्ति सुव॒र्गमे॒व तैर्लो॒कं ॅयज॑माना यन्ति॒ परै॑र॒वस्ता॒त् परि॑ गृह्णन्ति दिवाकी॒र्त्ये॑न - [ ]
पदपाठः (Word-by-word)
अ॒सौ । आ॒दि॒त्यः । अ॒स्मिन्न् । लो॒के । आ॒सी॒त् । तम् । दे॒वाः । पृ॒ष्ठैः । प॒रि॒गृह्येति॑ परि - गृह्य॑ । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । अ॒ग॒म॒य॒न्न् । परैः᳚ । अ॒वस्ता᳚त् । परीति॑ । अ॒गृ॒ह्ण॒न्न् । दि॒वा॒की॒र्त्ये॑नेति॑ दिवा - की॒र्त्ये॑न । सु॒व॒र्ग इति॑ सुवः - गे । लो॒के । प्रतीति॑ । अ॒स्था॒प॒य॒न्न् । परैः᳚ । प॒रस्ता᳚त् । परीति॑ । अ॒गृ॒ह्ण॒न्न् । पृ॒ष्ठैः । उ॒पावा॑रोह॒न्नित्यु॑प - अवा॑रोहन्न् । सः । वै । अ॒सौ । आ॒दि॒त्यः । अ॒मुष्मिन्न्॑ । लो॒के । परैः᳚ । उ॒भ॒यतः॑ । परि॑गृहीत॒ इति॒ परि॑-गृ॒ही॒तः॒ । यत् । पृ॒ष्ठानि॑ । भव॑न्ति । सु॒व॒र्गमिति॑ सुवः - गम् । ए॒व । तैः । लो॒कम् । यज॑मानाः । य॒न्ति॒ । परैः᳚ । अ॒वस्ता᳚त् । परीति॑ । गृ॒ह्ण॒न्ति॒ । दि॒वा॒की॒र्त्ये॑नेति॑ दिवा - की॒र्त्ये॑न ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथैकविंशतिरात्रः प्रस्तयूते - असावित्यादि ॥ असौ इदानीमुपरि वर्तमानः असौ आदित्यः पूर्वस्मिन् मनुष्यलोके आसीत् । अथ देवाः तं पृष्ठैः पृष्ठस्थानीयैष्षड्भिरहोभिः परिगृह्य अस्माल्लोकात् स्वर्गं लोकमगमयन् दिवाकीर्त्येन प्रत्यस्थापयन् प्रतिष्ठापितवन्तः । दिवाकीर्त्यं नाम सामविशेषः । तत्सामकमहरपि दिवाकीर्त्यम् । यत्रोदित आदित्ये प्रातरनुवाकमुपाकरोति । अथ पुनरपि परैः परस्सामभिः त्रिभिरहोभिः तं परस्तादुपरि पर्यगृह्णन् । अथ पृष्ठेरुपरि तेष्षड्भिरहोभिः आवृतैरुपावारोहन् स्वर्गलोकात्पृथिवीमुपावारोहन् तस्मात्सोऽयमसावादित्यो अमुष्मिन् लोके परैः परस्सामभिरुभयतः परस्तादवस्ताच्च परिगृहीतः ॥
2 यत्पृष्ठानीत्यादि ॥ गतम् । यत्पर इत्यादि । यदि परस्सामानः परस्तादुपरिष्टान्न स्युः । सज्ञायां व्यत्ययेन सर्वनामत्वम् । पराञ्चः परागताः स्वर्गान्निष्पद्येरन् निर्गच्छेरन् स्वर्गमतीत्योपरि गच्छेयुः । अथ यद्यवस्तादधस्तात् परस्सामानो न स्युः प्रजाः पृथिवीस्थानं निर्दहेयुः आदित्यनामानो यजमानाः तस्मादभितो दिवाकीर्त्यं विषुवन्तं उभयतः परस्सामानः स्वर्गस्थितान् यजमानान् उभयतः परिगृह्णन्ति ऊर्ध्वाधः पातभीतान् धारयन्ति । 'अभितः परितः' हति द्वितीया ॥
3 यजमाना इत्यादि ॥ गतम् । पृष्ठं वा इत्यादि । पृष्ठं पार्श्वस्थानीयत्वात् तस्मात्पृष्ठमभितः पार्श्वे कॢप्ते प्रजानाम् । भूयिष्ठा इत्यादि । बहुतमा अतिग्राह्यमध्यमेषु सप्तस्वहस्सु गह्यन्ते । भूयांसोस्य यज्ञस्य मध्ये ग्रन्थिं ग्रथ्नन्ति कुर्वन्ति यज्ञस्याविस्रंसाय अनधःपतनाय ॥
4 सप्त गृह्यन्त इति ॥ त्रिषु परस्सामसु त्रीनतिग्राह्यान् गृह्णाति 'उपयामगृहीतोस्यद्भ्यस्त्वौषधीम्यः' इत्यादिभिः त्रिभिः एतानेवावृत्तानर्वाक् सामसु तानूर्ध्वानावृत्तांश्च विषुवाति । तेषां मध्ये सूर्यमुदुत्यं जातवेदसमिति । शीर्षण्याः शिरसि भवाः । 'शरीरावयवाच्च' इति यत्, 'ये च तद्धिते' इति शीर्षन्भावः ॥
5 यत्पराचीनानीत्यादि ॥ पराचीनानि ऊर्ध्वान्येव यद्युभयतोपि पृष्ठानि भवन्ति अमुमेव लोकं अभ्यारोहन्ति तैः तथाविधैः । ततश्च यदिमं लोकं न प्रत्यवरोहेयुः उन्माद्येयुर्वा प्रमीयेरन्वा यजमानाः तस्माद्यत्प्रतीचीनानि आवृत्तानि पृष्ठानि भवन्ति तेनेमं लोकं यजमानाः प्रत्यवरोहन्ति । अपि च अमुष्मात् प्रत्यवरुह्य अस्मिन् लोके प्रतितिष्ठन्ति । तच्चानुन्मादाय भवति । 'विभाषाञ्चेः' इति खः । 'गतिर्गतौ' इति पूर्वस्य गतेर्निघातः, 'तिङि चोदात्तवति' इति परस्य तिङ उदात्तत्वम् ॥
6 इन्द्रो वा इत्यादि । गतम् ॥
7 ये बहुयाजिन इत्यादि ॥ ये बहुभिः यज्ञैः इष्टवन्तोपि अप्रतिष्ठिता एव स्युः । त इत्यादि । मासर्तुलोकादयः आत्मनो योगस्थानानि एतावन्तो देवलोकाः तेषु सर्वेषु यथा पूर्वमनुक्रमेण प्रतिष्ठां गच्छन्ति ॥
8 असौ इत्यादि ॥ गतम् ॥
9 रुगित्यादि ॥ रोचनशीलत्वात् तस्माद्रुचं दीप्तिं प्राप्नुवन्ति । अपि च एकविंशस्य प्रतिष्ठात्वात् प्रतिष्ठामपि गच्छन्त्येव । अतिरात्रावित्यादि । गतम् । ब्रह्मवर्चसपरिग्रहो विशेषः । यथा त्रिरात्रः पृष्ठ्यष्षडहः परस्सामानस्त्रयः विषूवान् आवृत्ताः परस्सामानः प्रतीचीनाः पृष्ठ्यष्षडहोतिरात्रः इति ॥

सप्तमे तृतीये दशमोनुवाकः ॥

पञ्चशत् 2 #
TS 7.3.10.2 TS 7.3.10.2
सुव॒र्गे लो॒के प्रति॑ तिष्ठन्ति॒ परैः᳚ प॒रस्ता॒त् परि॑ गृह्णन्ति पृ॒ष्ठैरु॒पाव॑रोहन्ति॒ यत् परे॑ प॒रस्ता॒न्न स्युः परा᳚ञ्चः सुव॒र्गा-ल्लो॒कान्निष्प॑द्येर॒न्॒. यद॒वस्ता॒न्न स्युः प्र॒जा निर्द॑हेयुर॒भितो॑ दिवाकी॒र्त्यं॑ पर॑स्सामानो भवन्ति सुव॒र्ग ए॒वैनां᳚ ॅलो॒क उ॑भ॒यतः॒ परि॑ गृह्णन्ति॒ यज॑माना॒ वै दि॑वाकी॒र्त्यꣳ॑ संॅवथ्स॒रः पर॑स्सामानो॒ऽभितो॑ दिवाकी॒र्त्यं॑ पर॑स्सामानो भवन्ति संॅवथ्स॒र ए॒वोभ॒यतः॒ - [ ]
पदपाठः (Word-by-word)
सु॒व॒र्ग इति॑ सुवः-गे । लो॒के । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । परैः᳚ । प॒रस्ता᳚त् । परीति॑ । गृ॒ह्ण॒न्ति॒ । पृ॒ष्ठैः । उ॒पाव॑रोह॒न्तीत्यु॑प - अव॑रोहन्ति । यत् । परे᳚ । प॒रस्ता᳚त् । न । स्युः । परा᳚ञ्चः । सु॒व॒र्गादिति॑ सुवः - गात् । लो॒कात् । निरिति॑ । प॒द्ये॒र॒न्न् । यत् । अ॒वस्ता᳚त् । न । स्युः । प्र॒जा इति॑ प्र - जाः । निरिति॑ । द॒हे॒युः॒ । अ॒भितः॑ । दि॒वा॒की॒र्त्य॑मिति॑ दिवा - की॒र्त्य᳚म् । पर॑स्सामान॒ इति॒ परः॑ - सा॒मा॒नः॒ । भ॒व॒न्ति॒ । सु॒व॒र्ग इति॑ सुवः - गे । ए॒व । ए॒ना॒न्न् । लो॒के । उ॒भ॒यतः॑ । परीति॑ । गृ॒ह्ण॒न्ति॒ । यज॑मानाः । वै । दि॒वा॒की᳚र्त्यमिति॑ दिवा - की॒र्त्य᳚म् । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । पर॑स्सामान॒ इति॒ परः॑ - सा॒मा॒नः॒ । अ॒भितः॑ । दि॒वा॒की॒र्त्य॑मिति॑ दिवा - की॒र्त्य᳚म् । पर॑स्सामान॒ इति॒ परः॑ - सा॒मा॒नः॒ । भ॒व॒न्ति॒ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । ए॒व । उ॒भ॒यतः॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 7.3.10.3 TS 7.3.10.3
प्रति॑ तिष्ठन्ति पृ॒ष्ठं ॅवै दि॑वाकी॒र्त्यं॑ पा॒र्श्वे पर॑स्सामानो॒ ऽभितो॑ दिवाकी॒र्त्यं॑ पर॑स्सामानो भवन्ति॒ तस्मा॑द॒भितः॑ पृ॒ष्ठं पा॒र्श्वे भूयि॑ष्ठा॒ ग्रहा॑ गृह्यन्ते॒ भूयि॑ष्ठꣳ शस्यते य॒ज्ञ्स्यै॒व तन्म॑द्ध्य॒तो ग्र॒न्थिं ग्र॑थ्न॒न्त्यवि॑स्रꣳसाय स॒प्त गृ॑ह्यन्ते स॒प्त वै शी॑र्.ष॒ण्याः᳚ प्रा॒णाः प्रा॒णाने॒व यज॑मानेषु दधति॒ यत् प॑रा॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्त्य॒मुमे॒व तै-र्लो॒कम॒भ्यारो॑हन्ति॒ यदि॒मं ॅलो॒कं न - [ ]
पदपाठः (Word-by-word)
प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । पृ॒ष्ठम् । वै । दि॒वा॒की॒र्त्य॑मिति॑ दिवा - की॒र्त्य᳚म् । पा॒र्श्वे इति॑ । पर॑स्सामान॒ इति॒ परः॑ - सा॒मा॒नः॒ । अ॒भितः॑ । दि॒वा॒की॒र्त्य॑मिति॑ दिवा - की॒र्त्य᳚म् । पर॑स्सामान॒ इति॒ परः॑-सा॒मा॒नः॒ । भ॒व॒न्ति॒ । तस्मा᳚त् । अ॒भितः॑ । पृ॒ष्ठम् । पा॒र्श्वे इति॑ । भूयि॑ष्ठाः । ग्रहाः᳚ । गृ॒ह्य॒न्ते॒ । भूयि॑ष्ठम् । श॒स्य॒ते॒ । य॒ज्ञ्स्य॑ । ए॒व । तत् । म॒द्ध्य॒तः । ग्र॒न्थिम् । ग्र॒थ्न॒न्ति॒ । अवि॑स्रꣳसा॒येत्यवि॑ - स्रꣳ॒॒सा॒य॒ । स॒प्त । गृ॒ह्य॒न्ते॒ । स॒प्त । वै । शी॒र्.॒ष॒ण्याः᳚ । प्रा॒णा इति॑ प्र - अ॒नाः । प्रा॒णानिति॑ प्र - अ॒नान् । ए॒व । यज॑मानेषु । द॒ध॒ति॒ । यत् । प॒रा॒चीना॑नि । पृ॒ष्ठानि॑ । भव॑न्ति । अ॒मुम् । ए॒व । तैः । लो॒कम् । अ॒भ्यारो॑ह॒न्तीत्य॑भि-आरो॑हन्ति । यत् । इ॒मम् । लो॒कम् । न ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 7.3.10.4 TS 7.3.10.4
प्र॑त्यव॒-रोहे॑यु॒रुद्वा॒ माद्ये॑यु॒र्यज॑मानाः॒ प्र वा॑ मीयेर॒न्॒. यत् प्र॑ती॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ती॒ममे॒व तैर्लो॒कं प्र॒त्यव॑रोह॒न्त्यथो॑ अ॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठ॒न्त्यनु॑न्मादा॒येन्द्रो॒ वा अप्र॑तिष्ठित आसी॒थ् स प्र॒जाप॑ति॒-मुपा॑धाव॒त् तस्मा॑ ए॒तमे॑कविꣳशतिरा॒त्रं प्राय॑च्छ॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒ वै स प्रत्य॑तिष्ठ॒द्ये ब॑हुया॒जिनो ऽप्र॑तिष्ठिताः॒ - [ ]
पदपाठः (Word-by-word)
प्र॒त्य॒व॒रोहे॑यु॒रिति॑ प्रति - अ॒व॒रोहे॑युः । उदिति॑ । वा॒ । माद्ये॑युः । यज॑मानाः । प्रेति॑ । वा॒ । मी॒ये॒र॒न्न् । यत् । प्र॒ती॒चीना॑नि । पृ॒ष्ठानि॑ । भव॑न्ति । इ॒मम् । ए॒व । तैः । लो॒कम् । प्र॒त्यव॑रोह॒न्तीति॑ प्रति - अव॑रोहन्ति । अथो॒ इति॑ । अ॒स्मिन्न् । ए॒व । लो॒के । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अनु॑न्मादा॒येत्यनु॑त् - मा॒दा॒य॒ । इन्द्रः॑ । वै । अप्र॑तिष्ठित॒ इत्यप्र॑ति - स्थि॒तः॒ । आ॒सी॒त् । सः । प्र॒जाप॑ति॒मिति॑ प्र॒जा-प॒ति॒म् । उपेति॑ । अ॒धा॒व॒त् । तस्मै᳚ । ए॒तम् । ए॒क॒विꣳ॒॒श॒ति॒रा॒त्रमित्ये॑कविꣳशति - रा॒त्रम् । प्रेति॑ । अ॒य॒च्छ॒त् । तम् । एति॑ । अ॒ह॒र॒त् । तेन॑ । अ॒य॒ज॒त॒ । ततः॑ । वै । सः । प्रतीति॑ । अ॒ति॒ष्ठ॒त् । ये । ब॒हु॒या॒जिन॒ इति॑ बहु - या॒जिनः॑ । अप्र॑तिष्ठिता॒ इत्यप्र॑ति - स्थि॒ताः॒ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 7.3.10.5 TS 7.3.10.5
स्युस्त ए॑कविꣳशति-रा॒त्रमा॑सीर॒न् द्वाद॑श॒ मासाः॒ पञ्च॒र्तव॒स्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य ए॑कविꣳ॒॒श ए॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेष्वे॒व य॑था पू॒र्वं प्रति॑ तिष्ठन्त्य॒सावा॑दि॒त्यो न व्य॑रोचत॒ स प्र॒जाप॑ति॒मुपा॑धाव॒त् तस्मा॑ ए॒तमे॑कविꣳशतिरा॒त्रं प्राय॑च्छ॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒ वै सो॑ ऽरोचत॒ य ए॒वं वि॒द्वाꣳस॑ एकविꣳशतिरा॒त्रमास॑ते॒ ( ) रोच॑न्त ए॒वैक॑विꣳशतिरा॒त्रो भ॑वति॒ रुग्वा ए॑कविꣳ॒॒शो रुच॑मे॒व ग॑च्छ॒न्त्यथो᳚ प्रति॒ष्ठामे॒व प्र॑ति॒ष्ठा ह्ये॑कविꣳ॒॒शो॑ ऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥
पदपाठः (Word-by-word)
स्युः । ते । ए॒क॒विꣳ॒॒श॒ति॒रा॒त्रमित्ये॑कविꣳशति - रा॒त्रम् । आ॒सी॒र॒न्न् । द्वाद॑श । मासाः᳚ । पञ्च॑ । ऋ॒तवः॑ । त्रयः॑ । इ॒मे । लो॒काः । अ॒सौ । आ॒दि॒त्यः । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । ए॒ताव॑न्तः । वै । दे॒व॒लो॒का इति॑ देव - लो॒काः । तेषु॑ । ए॒व । य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अ॒सौ । आ॒दि॒त्यः । न । वीति॑ । अ॒रो॒च॒त॒ । सः । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । उपेति॑ । अ॒धा॒व॒त् । तस्मै᳚ । ए॒तम् । ए॒क॒विꣳ॒॒श॒ति॒रा॒त्रमित्ये॑कविꣳशति - रा॒त्रम् । प्रेति॑ । अ॒य॒च्छ॒त् । तम् । एति॑ । अ॒ह॒र॒त् । तेन॑ । अ॒य॒ज॒त॒ । ततः॑ । वै । सः । अ॒रो॒च॒त॒ । ये । ए॒वम् । वि॒द्वाꣳसः॑ । ए॒क॒विꣳ॒॒श॒ति॒रा॒त्रमित्ये॑कविꣳशति - रा॒त्रम् । आस॑ते ( ) । रोच॑न्ते । ए॒व । ए॒क॒विꣳ॒॒श॒ति॒रा॒त्र इत्येक॑विꣳशति - रा॒त्रः । भ॒व॒ति॒ । रुक् । वै । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । रुच᳚म् । ए॒व । ग॒च्छ॒न्ति॒ । अथो॒ इति॑ । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । ए॒व । प्र॒ति॒ष्ठेति॑ प्रति - स्था । हि । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । ब्र॒ह्म॒व॒र्च॒सस्येति॑ ब्रह्म - व॒र्च॒सस्य॑ । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥
पदसंख्या: 71