अनुवाकः 1 TS 7.3.1

(A1)

(व्याह॒ स - दृ॑शी॒कवो᳚ - ऽर्चि॒तारः॒ - स - एकं॑ च)

अनुवाकः 1 - Complete Audio

TS 7.3.1 - स्वरानुगामी

0:00 0:00
PS1.1 प्र॒जवं॒ ॅवा ए॒तेन॑ यन्ति॒
PS1.2 यद्-द॑श॒ममहः॑ पापाव॒हीयं॒ ॅवा ए॒तेन॑
PS1.3 भवन्ति॒ यद्-द॑श॒ममह॒र्यो वै प्र॒जवं॑
PS1.4 ॅय॒तामप॑थेन प्रति॒पद्य॑ते॒ यः स्था॒णुꣳ
PS1.5 हन्ति॒ यो भ्रेषं॒ न्येति॒
PS1.6 स ही॑यते॒ स यो
PS1.7 वै द॑श॒मेऽह॑न्नविवा॒क्य उ॑पह॒न्यते॒ स
PS1.8 ही॑यते॒ तस्मै॒ य उप॑हताय॒
PS1.9 व्याह॒ तमे॒वान्वा॒रभ्य॒ सम॑श्नु॒तेऽथ॒ यो
PS1.10 व्याह॒ स - [
PS1.11 ]
PS2.1 ही॑यते॒ तस्मा᳚द्-दश॒मे ऽह॑न्नविवा॒क्य उप॑हताय॒
PS2.2 न व्युच्य॒मथो॒ खल्वा॑हुर्य॒ज्ञ्स्य॒ वै
PS2.3 समृ॑द्धेन दे॒वाः सु॑व॒र्गं ॅलो॒कमा॑यन्
PS2.4 य॒ज्ञ्स्य॒ व्यृ॑द्धे॒नासु॑रा॒न् परा॑ऽभावय॒न्निति॒ यत्
PS2.5 खलु॒ वै य॒ज्ञ्स्य॒ समृ॑द्धं॒
PS2.6 तद्-यज॑मानस्य॒ यद्व्यृ॑द्धं॒ तद्भ्रातृ॑व्यस्य॒ स
PS2.7 यो वै द॑श॒मेऽह॑न्नविवा॒क्य उ॑पह॒न्यते॒
PS2.8 स ए॒वाति॑ रेचयति॒ ते
PS2.9 ये बाह्या॑ दृशी॒कवः॒ -
PS2.10 [ ]
PS3.1 स्युस्ते वि ब्रू॑यु॒र्यदि॒ तत्र॒
PS3.2 न वि॒न्देयु॑रन्तस्सद॒साद्-व्युच्यं॒ ॅयदि॒ तत्र॒
PS3.3 न वि॒न्देयु॑र्गृ॒हप॑तिना॒ व्युच्यं॒ तद्व्युच्य॑मे॒वाथ॒
PS3.4 वा ए॒तथ् स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिः
PS3.5 स्तु॑वन्त॒यं ॅवै सर्प॑तो॒ राज्ञी॒
PS3.6 यद्वा अ॒स्यां किं चार्च॑न्ति॒
PS3.7 यदा॑नृ॒चुस्तेने॒यꣳ स॑र्परा॒ज्ञी ते यदे॒व
PS3.8 किं च॑ वा॒चा ऽऽनृ॒चुर्यद॒तोऽद्ध्य॑र्चि॒तार॒
PS3.9 - [ ]
PS4.1 -स्तदु॒भय॑मा॒प्त्वा ऽव॒रुद्ध्योत् ति॑ष्ठा॒मेति॒ ताभि॒र्मन॑सा
PS4.2 स्तुवते॒ न वा इ॒माम॑श्वर॒थो
PS4.3 नाऽश्व॑तरीर॒थः स॒द्यः पर्या᳚प्तुमर्.हति॒ मनो॒
PS4.4 वा इ॒माꣳ स॒द्यः पर्या᳚प्तुमर्.हति॒
PS4.5 मनः॒ परि॑भवितु॒मथ॒ ब्रह्म॑ वदन्ति॒
PS4.6 परि॑मिता॒ वा ऋचः॒ परि॑मितानि॒
PS4.7 सामा॑नि॒ परि॑मितानि॒ यजूꣳ॒॒ष्यथै॒तस्यै॒वान्तो॒ नास्ति॒
PS4.8 यद्-ब्रह्म॒ तत् प्र॑तिगृण॒त आ
PS4.9 च॑क्षीत॒ स ( )
PS4.10 प्र॑तिग॒रः

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.3.1.1 TS 7.3.1.1
प्र॒जवं॒ ॅवा ए॒तेन॑ यन्ति॒ यद्-द॑श॒ममहः॑ पापाव॒हीयं॒ ॅवा ए॒तेन॑ भवन्ति॒ यद्-द॑श॒ममह॒र्यो वै प्र॒जवं॑ ॅय॒तामप॑थेन प्रति॒पद्य॑ते॒ यः स्था॒णुꣳ हन्ति॒ यो भ्रेषं॒ न्येति॒ स ही॑यते॒ स यो वै द॑श॒मेऽह॑न्नविवा॒क्य उ॑पह॒न्यते॒ स ही॑यते॒ तस्मै॒ य उप॑हताय॒ व्याह॒ तमे॒वान्वा॒रभ्य॒ सम॑श्नु॒तेऽथ॒ यो व्याह॒ स - [ ]
पदपाठः (Word-by-word)
प्र॒जव॒मिति॑ प्र - जव᳚म् । वै । ए॒तेन॑ । य॒न्ति॒ । यत् । द॒श॒मम् । अहः॑ । पा॒पा॒व॒हीय॒मिति॑ पाप - अ॒व॒हीय᳚म् । वै । ए॒तेन॑ । भ॒व॒न्ति॒ । यत् । द॒श॒मम् । अहः॑ । यः । वै । प्र॒जव॒मिति॑ प्र - जव᳚म् । य॒ताम् । अप॑थेन । प्र॒ति॒पद्य॑त॒ इति॑ प्रति - पद्य॑ते । यः । स्था॒णुम् । हन्ति॑ । यः । भ्रेष᳚म् । न्येतीति॑ नि - एति॑ । सः । ही॒य॒ते॒ । सः । यः । वै । द॒श॒मे । अहन्न्॑ । अ॒वि॒वा॒क्य इत्य॑वि - वा॒क्ये । उ॒प॒ह॒न्यत॒ इत्यु॑प-ह॒न्यते᳚ । सः । ही॒य॒ते॒ । तस्मै᳚ । यः । उप॑हता॒येत्युप॑-ह॒ता॒य॒ । व्याहेति॑ वि - आह॑ । तम् । ए॒व । अ॒न्वा॒रभ्येत्य॑नु - आ॒रभ्य॑ । समिति॑ । अ॒श्नु॒ते॒ । अथ॑ । यः । व्याहेति॑ वि - आह॑ । सः । 1 ( 50)
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)

तैत्तिरीय संहितायां

सप्तमं काण्डम्

तृतीयः प्रपाठकः

1 अथ द्वादशाहीनस्य दशरात्रस्य दशममहः अधिकृत्योच्यते - प्रजवं वा इत्यादि ॥ प्रायणीयोदयनीयौ विना दशाहत्वम् । तत्र दशममहः अविवाक्यं, एतेन प्रजवं प्रकृष्टवेगं यन्ति प्रवर्तन्ते । क्रियाविशेषणम् । 'परादिश्छन्दसि' इत्युतरपदाद्युदात्तत्वम् । शैघ्र्यै हेतुमाह - पापावहीयं वेत्यादि ॥ पापस्यावहतिः पापावहीयम् । भावे छान्दसः क्यप्, कृदुत्तरपदप्रकृतिस्वरत्वम् । दशमेन हि अह्ना पापस्य समस्तस्य विनाशं प्राप्नुवन्ति सद्य एव सर्वं पापं नश्यति तत्किमिति विलम्ब्यते इति । प्राप्तिकर्मा भवतिः । कर्मणि वा क्यप्प्रत्ययः, क्रियाविशेषणं, पापमवहीनं यथा भवति तथा भवन्ति भूतिमन्तस्सपद्यन्ते ॥
2 यो वा इत्यादि ॥ लोके हि प्रजवं शीघ्रं गच्छतां मध्ये योपथेन अमार्गेण प्रतिपद्यते सार्धं हित्वा गच्छति, यो वा स्थाणुं हन्ति गच्छति, न्येति रोधादिकं नित्य इत्यस्य भूयो विरोधिः ? । भ्रेषं कण्टकादिना गत्यसामर्थ्यं न्येति गच्छति स हीयते तस्मात्सार्धात् भ्रष्टो भवति । तस्मात् स यो वा एतादृशे दशमेऽहनि अविवाक्ये विवाक्यरहिते उपहन्यते स्मृतिविनाशादिना दुष्यति स हीयते एव । किंच - तस्मै उपहताय योन्यो व्याह विरुद्धमाह तस्य स्खलितं व्याकरोति तं स्खलितस्य व्याकर्तारमन्वारभ्य अवलम्ब्य समश्नुते व्याप्नोति कर्मसिद्धिं न तु हीयते उपहतस्खलितत्रेषव्यपगमात् । अथ योप्रा प्तकारी अविवाक्येनाह्ना व्याह स एव हीयते । तस्माद्दशमेऽह्नि अविवाक्ये द्रुतगतित्वेन अविवचनार्हे उपहताय न व्युच्यम् । छान्दसः क्यप्, न विवक्तव्यमस्मिन् इत्यविवाक्यं, अधिकरणे ण्यत्, 'ययतोश्चातदर्थे' इत्युत्तरपदान्तोदात्तत्वम् । यद्वा - विवक्तव्यं विवाक्यं तदस्मिन्नास्तीति अविवाक्यम्, बहुव्रीहौ 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् ॥
3 अथो खल्वाहुरित्यादि - अविकलं पुष्कलं यज्ञफलं यजमानस्य । विकलं यज्ञफलमस्य शत्रोरित्यर्थः । एवं स्थिते स एष दशमेऽहनि अविवाक्ये उपहन्यते । सोतिरेचयत्येव यज्ञं यज्ञांशं किंचिच्छेषयति तस्याकृतत्वात् तस्याविकलत्वात् यज्ञफलं भ्रातृव्यस्य स्यात्, तत् मा भूदेष दोष इति विवचनं वक्तव्यमेव विकलांशपूरणाय । तस्मादत्र ये बाह्याः बहिर्भवाः ऋत्विग्भ्योऽन्ये दृशीकवः येऽन्ये प्रेक्षका वर्तन्ते तेऽपि ब्रूयुः यदि तत्र बहिर्वक्तॄन् स्खलितस्य वेदितॄर् न विन्देयुः न लभेरन् । विदिर्लाभे । अन्तस्सदसात् सदसोन्तरधितिष्ठद्भिः विवाच्यं ऋत्वि- ग्भिरेव । सदो यज्ञगृहं तस्यान्तर्मध्यं अन्तस्सदसं, 'अव्ययीभावे शरत्प्रभृतिभ्यः' इत्यच् समासान्तः, ततो ल्यब्लोपे कर्मणि पञ्चमी । यदि तत्रापि स्खलितज्ञातॄन् न विन्देयुः गृहपतिना यतमानेनैव व्युच्यम् । कि बहुना येनकेनापि स्खलितभावविदा विवक्तव्यं नाविवाक्यमिति कथं नाम अविवाक्यमहस्स्यात् विवक्तव्यमस्मिन् नास्तीत्यविवाक्यं यथा विवक्तव्यमत्र न भवति तथाऽवहितैः कर्तव्यमिति सति तु स्खलिते विवक्तव्यमेवेति ॥
4 अथवा इत्यादि ॥ अथ वा तस्मिन्नहनि समाप्तिकाले सर्पराज्ञिया ऋग्भिः सा एतं मन्त्रमपश्यदिति सर्पराज्ञियाः पृथिव्याः अष्टाभिः 'भूमिर्भूम्ना' इत्यादिभिः ऋग्भिस्स्तुवन्ति । का पुनः सर्पराज्ञी? कथं पुनः सा सर्पराज्ञी? इत्याह - इयमित्यादि । इयं पृथिवी सर्पतो गतिमततः सर्पस्य राज्ञी स्वामिनी । कथमित्याह - यद्वा इत्यादि ॥ यत्किंचिदर्चन्ति तत् अर्चनीयं तत्सर्वमस्यां निवर्तते । तदिदमेकं कारणम् । यच्चेमां पृथिवीं सर्वेऽप्यानृचुः अर्चयन्ति वाचा पूजयन्ति अतश्चेयं स्वामिनी सर्वस्य अतः सर्पराज्ञीत्युच्यते । 'अपस्पृधेथाम्' इत्यादौ अर्चयतेर्लिटि आनृचुरिति निपात्यते । राजनशीला राज्ञी स्वामिनी 'कनिन्युवृष' इति कनिन्, ऋन्नेभ्यो ङीष् । ततः सर्पाणां राज्ञीति षष्ठीतत्पुरुषे समासान्तोदात्तत्वम् ॥
5 ते यदेवेत्यादि ॥ यत्किंचित् तस्यः पृथिव्याः संबन्धि वस्तु वाचाऽर्चयन्ति अतः अस्यां पृथिव्यां अधि उपरि अनर्थतो वा अधिशब्दः सर्वधा अनवग्रहः । 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । तस्या यद्वस्तु अर्चितारः पूजयन्ति जनाः तदुभयमप्याप्त्वा लब्ध्वा अवरुध्य विधेयीकृत्य च ते वशमुत्तिष्ठाम उच्छ्रिता भूयास्मेत्यनेनाभिप्रायोग सर्पराज्ञिया ऋग्भिस्स्तुवन्ति । तेभ्य इत्यस्योत्तिष्ठामेत्यनेन संबन्धः । ताभिरित्यादि ॥
6 हेतुमाह - न वा इत्यादि ॥ अश्वयुक्तो रथः अश्वतरीयुक्तो वा इमां पृथिवीं सद्य एव पर्याप्तुं सर्वतोऽवाप्तुं नार्हति मन एवार्हति तथाकर्तुं परिभवितुं अतिव्याप्तुं मन एवार्हति तस्मान्मनसा स्तोतव्यमिति । गर्दभेन बडबायामुत्पन्ना अश्वतरी अश्वादपि शीघ्रगामिनी । 'वत्सोक्षाश्वर्षभेभ्यः'' इति ष्टरन् ॥
7 अथेत्यादि ॥ अथ स्तोत्रान्ते शस्त्रारम्भे ब्रह्म वदन्ति चतुर्होर्त्रं जपन्ति । 'ब्रह्म वै चतुर्होतारः' इति ब्राह्मणम् । सर्वेऽपि दशहोत्रादयश्चतुर्होतारः; यथोक्तं - 'दशहोता चतुर्होता । पञ्चहोता षड्डोता सप्तहोता । अथ कस्माच्चतुरहोतार उच्यन्ते' इति । परिमिता वा इत्यादि । ऋगादीनि परिमितानि परिच्छिन्नानि 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । ब्रह्मैव अनन्तं अपरिमितं तत्प्रतिगृणते अध्वर्यवे होताऽऽचक्षीत स एव प्रतिगरो भवति न प्रतिगरोन्य इति । प्रतिगृणतेः 'शतुरनुमः' इति विभक्तेरुदात्तत्वम् । प्रतिगरः थाथादिनोत्तरपदान्तोदात्तत्वम् । शंसितुः प्रोत्साहनं प्रतिगरः ॥
इति सप्तमे तृतीये प्रथमोनुवाकः ॥
पञ्चशत् 2 #
TS 7.3.1.2 TS 7.3.1.2
ही॑यते॒ तस्मा᳚द्-दश॒मे ऽह॑न्नविवा॒क्य उप॑हताय॒ न व्युच्य॒मथो॒ खल्वा॑हुर्य॒ज्ञ्स्य॒ वै समृ॑द्धेन दे॒वाः सु॑व॒र्गं ॅलो॒कमा॑यन् य॒ज्ञ्स्य॒ व्यृ॑द्धे॒नासु॑रा॒न् परा॑ऽभावय॒न्निति॒ यत् खलु॒ वै य॒ज्ञ्स्य॒ समृ॑द्धं॒ तद्-यज॑मानस्य॒ यद्व्यृ॑द्धं॒ तद्भ्रातृ॑व्यस्य॒ स यो वै द॑श॒मेऽह॑न्नविवा॒क्य उ॑पह॒न्यते॒ स ए॒वाति॑ रेचयति॒ ते ये बाह्या॑ दृशी॒कवः॒ - [ ]
पदपाठः (Word-by-word)
ही॒य॒ते॒ । तस्मा᳚त् । द॒श॒मे । अहन्न्॑ । अ॒वि॒वा॒क्य इत्य॑वि - वा॒क्ये । उप॑हता॒येत्युप॑ - ह॒ता॒य॒ । न । व्युच्य॒मिति॑ वि-उच्य᳚म् । अथो॒ इति॑ । खलु॑ । आ॒हुः॒ । य॒ज्ञ्स्य॑ । वै । समृ॑द्धे॒नेति॒ सं - ऋ॒द्धे॒न॒ । दे॒वाः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । आ॒य॒न्न् । य॒ज्ञ्स्य॑ । व्यृ॑द्धे॒नेति॒ वि - ऋ॒द्धे॒न॒ । असु॑रान् । परेति॑ । अ॒भा॒व॒य॒न्न् । इति॑ । यत् । खलु॑ । वै । य॒ज्ञ्स्य॑ । समृ॑द्ध॒मिति॒ सं - ऋ॒द्ध॒म् । तत् । यज॑मानस्य । यत् । व्यृ॑द्ध॒मिति॒ वि-ऋ॒द्ध॒म् । तत् । भ्रातृ॑व्यस्य । सः । यः । वै । द॒श॒मे । अहन्न्॑ । अ॒वि॒वा॒क्य इत्य॑वि - वा॒क्ये । उ॒प॒ह॒न्यत॒ इत्यु॑प - ह॒न्यते᳚ । सः । ए॒व । अतीति॑ । रे॒च॒य॒ति॒ । ते । ये । बाह्याः᳚ । दृ॒शी॒कवः॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 7.3.1.3 TS 7.3.1.3
स्युस्ते वि ब्रू॑यु॒र्यदि॒ तत्र॒ न वि॒न्देयु॑रन्तस्सद॒साद्-व्युच्यं॒ ॅयदि॒ तत्र॒ न वि॒न्देयु॑र्गृ॒हप॑तिना॒ व्युच्यं॒ तद्व्युच्य॑मे॒वाथ॒ वा ए॒तथ् स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिः स्तु॑वन्त॒यं ॅवै सर्प॑तो॒ राज्ञी॒ यद्वा अ॒स्यां किं चार्च॑न्ति॒ यदा॑नृ॒चुस्तेने॒यꣳ स॑र्परा॒ज्ञी ते यदे॒व किं च॑ वा॒चा ऽऽनृ॒चुर्यद॒तोऽद्ध्य॑र्चि॒तार॒ - [ ]
पदपाठः (Word-by-word)
स्युः । ते । वीति॑ । ब्रू॒युः॒ । यदि॑ । तत्र॑ । न । वि॒न्देयुः॑ । अ॒न्त॒स्स॒द॒सादित्य॑न्तः - स॒द॒सात् । व्युच्य॒मिति॑ वि - उच्य᳚म् । यदि॑ । तत्र॑ । न । वि॒न्देयुः॑ । गृ॒हप॑ति॒नेति॑ गृ॒ह - प॒ति॒ना॒ । व्युच्य॒मिति॑ वि- उच्य᳚म् । तत् । व्युच्य॒मिति॑ वि - उच्य᳚म् । ए॒व । अथ॑ । वै । ए॒तत् । स॒र्प॒रा॒ज्ञिया॒ इति॑ सर्प - रा॒ज्ञियाः᳚ । ऋ॒ग्भिरित्यृ॑क् - भिः । स्तु॒व॒न्ति॒ । इ॒यम् । वै । सर्प॑तः । राज्ञी᳚ । यत् । वै । अ॒स्याम् । किम् । च॒ । अर्च॑न्ति । यत् । आ॒नृ॒चुः । तेन॑ । इ॒यम् । स॒र्प॒रा॒ज्ञीति॑ सर्प-रा॒ज्ञी । ते । यत् । ए॒व । किम् । च॒ । वा॒चा । आ॒नृ॒चुः । यत् । अ॒तोधि॑ । अ॒र्चि॒तारः॑ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 7.3.1.4 TS 7.3.1.4
-स्तदु॒भय॑मा॒प्त्वा ऽव॒रुद्ध्योत् ति॑ष्ठा॒मेति॒ ताभि॒र्मन॑सा स्तुवते॒ न वा इ॒माम॑श्वर॒थो नाऽश्व॑तरीर॒थः स॒द्यः पर्या᳚प्तुमर्.हति॒ मनो॒ वा इ॒माꣳ स॒द्यः पर्या᳚प्तुमर्.हति॒ मनः॒ परि॑भवितु॒मथ॒ ब्रह्म॑ वदन्ति॒ परि॑मिता॒ वा ऋचः॒ परि॑मितानि॒ सामा॑नि॒ परि॑मितानि॒ यजूꣳ॒॒ष्यथै॒तस्यै॒वान्तो॒ नास्ति॒ यद्-ब्रह्म॒ तत् प्र॑तिगृण॒त आ च॑क्षीत॒ स ( ) प्र॑तिग॒रः ॥
पदपाठः (Word-by-word)
तत् । उ॒भय᳚म् । आ॒प्त्वा । अ॒व॒रुद्ध्येत्य॑व - रुद्ध्य॑ । उदिति॑ । ति॒ष्ठा॒म॒ । इति॑ । ताभिः॑ । मन॑सा । स्तु॒व॒ते॒ । न । वै । इ॒माम् । अ॒श्व॒र॒थ इत्य॑श्व - र॒थः । न । अ॒श्व॒त॒री॒र॒थ इत्यश्व॑तरी - र॒थः । स॒द्यः । पर्या᳚प्तु॒मिति॒ परि॑-आ॒प्तु॒म् । अ॒र्.॒ह॒ति॒ । मनः॑ । वै । इ॒माम् । स॒द्यः । पर्या᳚प्तु॒मिति॒ परि॑ - आ॒प्तु॒म् । अ॒र्.॒ह॒ति॒ । मनः॑ । परि॑भवितु॒मिति॒ परि॑-भ॒वि॒तु॒म् । अथ॑ । ब्रह्म॑ । व॒द॒न्ति॒ । परि॑मिता॒ इति॒ परि॑-मि॒ताः॒ । वै । ऋचः॑ । परि॑मिता॒नीति॒ परि॑ - मि॒ता॒नि॒ । सामा॑नि । परि॑मिता॒नीति॒ परि॑ - मि॒ता॒नि॒ । यजूꣳ॑षि । अथ॑ । ए॒तस्य॑ । ए॒व । अन्तः॑ । न । अ॒स्ति॒ । यत् । ब्रह्म॑ । तत् । प्र॒ति॒गृ॒ण॒त इति॑ प्रति - गृ॒ण॒ते । एति॑ । च॒क्षी॒त॒ । सः ( ) । प्र॒ति॒ग॒र इति॑ प्रति - ग॒रः ॥
पदसंख्या: 51