अनुवाकः 5 TS 7.3.5

(A5)

(आर्ध्नु॑वन् त्र्य॒हाभ्या॑म॒स्मिन्थ् - स॑विवध॒त्वाय॒ - प्रति॑ष्ठत्या॒ - एक॑त्रिꣳशच्च)

अनुवाकः 5 - Complete Audio

TS 7.3.5 - स्वरानुगामी

0:00 0:00
PS1.1 प्र॒जाप॑तिः सुव॒र्गं ॅलो॒कमै॒त् तं
PS1.2 दे॒वा अन्वा॑य॒न् ताना॑दि॒त्याश्च॑ प॒शव॒श्चान्वा॑य॒न्
PS1.3 ते दे॒वा अ॑ब्रुव॒न॒. यान्
PS1.4 प॒शूनु॒पाजी॑विष्म॒ त इ॒मे᳚ ऽन्वाग्म॒न्निति॒
PS1.5 तेभ्य॑ ए॒तं च॑तुर्दशरा॒त्रं प्रत्यौ॑ह॒न्
PS1.6 त आ॑दि॒त्याः पृ॒ष्ठैः सु॑व॒र्गं
PS1.7 ॅलो॒कमाऽरो॑हन् त्र्य॒हाभ्या॑म॒स्मिन् ॅलो॒के प॒शून्
PS1.8 प्रत्यौ॑हन् पृ॒ष्ठैरा॑दि॒त्या अ॒मुष्मि॑न् ॅलो॒क
PS1.9 आर्द्ध्नु॑वन् त्र्य॒हाभ्या॑म॒स्मिन् - [
PS1.10 ]
PS2.1 ॅलो॒के प॒शवो॒ य ए॒वं
PS2.2 ॅवि॒द्वाꣳस॑-श्चतुर्दशरा॒त्रमास॑त उ॒भयो॑रे॒व लो॒कयोर्॑ ऋद्ध्नुवन्त्य॒स्मिꣳश्चा॒मुष्मिꣳ॑श्च
PS2.3 पृ॒ष्ठैरे॒वाऽमुष्मि॑न् ॅलो॒क ऋ॑द्ध्नु॒वन्ति॑ त्र्य॒हाभ्या॑म॒स्मिन्
PS2.4 ॅलो॒के ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हो भ॑वती॒यं
PS2.5 ॅवाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॑रि॒माने॒व लो॒कान॒भ्यारो॑हन्ति॒
PS2.6 यद॒न्यतः॑ पृ॒ष्ठानि॒ स्युर्विवि॑वधꣳ स्या॒न्मद्ध्ये॑
PS2.7 पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वायौ -
PS2.8 [ ]
PS3.1 -जो॒ वै वी॒र्यं॑ पृ॒ष्ठान्योज॑
PS3.2 ए॒व वी॒र्यं॑ मद्ध्य॒तो द॑धते
PS3.3 बृहद्-रथन्त॒राभ्यां᳚ ॅयन्ती॒यं ॅवाव र॑थन्त॒रम॒सौ
PS3.4 बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑
PS3.5 तिष्ठन्त्ये॒ते वै य॒ज्ञ्स्या᳚ञ्ज॒साय॑नी स्रु॒ती
PS3.6 ताभ्या॑मे॒व सु॑व॒र्गं ॅलो॒कं ॅय॑न्ति॒
PS3.7 परा᳚ञ्चो॒ वा ए॒ते सु॑व॒र्गं
PS3.8 ॅलो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑
PS3.9 प्र॒त्यङ् त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒
PS3.10 अथो॒ प्रति॑ष्ठित्या ( )
PS3.11 उ॒भयो᳚र्लो॒कयोर्॑ ऋ॒द्ध्वोत् ति॑ष्ठन्ति॒ चतु॑र्दशै॒तास्तासां॒
PS3.12 ॅया दश॒ दशा᳚क्षरा वि॒राडन्नं॑
PS3.13 ॅवि॒राड् वि॒राजै॒वान्नाद्य॒मव॑ रुन्धते॒ याश्चत॑स्र॒श्चत॑स्रो॒
PS3.14 दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठन्त्यतिरा॒त्राव॒भितो॑
PS3.15 भवतः॒ परि॑गृहीत्यै

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.3.5.1 TS 7.3.5.1
प्र॒जाप॑तिः सुव॒र्गं ॅलो॒कमै॒त् तं दे॒वा अन्वा॑य॒न् ताना॑दि॒त्याश्च॑ प॒शव॒श्चान्वा॑य॒न् ते दे॒वा अ॑ब्रुव॒न॒. यान् प॒शूनु॒पाजी॑विष्म॒ त इ॒मे᳚ ऽन्वाग्म॒न्निति॒ तेभ्य॑ ए॒तं च॑तुर्दशरा॒त्रं प्रत्यौ॑ह॒न् त आ॑दि॒त्याः पृ॒ष्ठैः सु॑व॒र्गं ॅलो॒कमाऽरो॑हन् त्र्य॒हाभ्या॑म॒स्मिन् ॅलो॒के प॒शून् प्रत्यौ॑हन् पृ॒ष्ठैरा॑दि॒त्या अ॒मुष्मि॑न् ॅलो॒क आर्द्ध्नु॑वन् त्र्य॒हाभ्या॑म॒स्मिन् - [ ]
पदपाठः (Word-by-word)
प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ऐ॒त् । तम् । दे॒वाः । अन्विति॑ । आ॒य॒न्न् । तान् । आ॒दि॒त्याः । च॒ । प॒शवः॑ । च॒ । अन्विति॑ । आ॒य॒न्न् । ते । दे॒वाः । अ॒ब्रु॒व॒न्. । यान् । प॒शून् । उ॒पाजी॑वि॒ष्मेत्यु॑प - अजी॑विष्म । ते । इ॒मे । अ॒न्वाग्म॒न्नित्य॑नु-आग्मन्न्॑ । इति॑ । तेभ्यः॑ । ए॒तम् । च॒तु॒र्द॒श॒रा॒त्रमिति॑ चतुर्दश-रा॒त्रम् । प्रतीति॑ । औ॒ह॒न्न् । ते । आ॒दि॒त्याः । पृ॒ष्ठैः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । एति॑ । अ॒रो॒ह॒न्न् । त्र्य॒हाभ्या॒मिति॑ त्रि - अ॒हाभ्या᳚म् । अ॒स्मिन्न् । लो॒के । प॒शून् । प्रतीति॑ । औ॒ह॒न्न् । पृ॒ष्ठैः । आ॒दि॒त्याः । अ॒मुष्मिन्न्॑ । लो॒के । आद्‌र्ध्नु॑वन्न् । त्र्य॒हाभ्या॒मिति॑ त्रि - अ॒हाभ्या᳚म् । अ॒स्मिन्न् ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ द्वितीयश्चतुर्दशरात्रो विधीयते - प्रजातिरित्यादि ॥ अत्रेयमहःकॢप्तिः - अतिरात्रो ज्योतिर्गौरायुः । पृष्ठ्यष्षडहः, आयुर्गौर्ज्योतिरतिरात्र इति । प्रजापतिः स्वर्गमगच्छत् । तं देवा आदित्याः पशवश्चान्वगच्छन् । ते देवा अब्रुवन् यान् पशूनुपाजीविष्म तेऽप्यमी अस्मानन्वाग्मन् अन्वागच्छन्ति । छान्दसे लुङि 'मन्त्रे घस' इति च्लेर्लुक् । 'गतिर्गतौ' इति निघाताभावः, समासश्च । तत्रादित्याः स्वर्गं गच्छन्तु इमे तु पशवः सर्वभूतोपजीव्या अस्मिन्नेव लोके ऋद्धिमन्तः कार्याः । अत्र पृष्ठवानेव चतुर्दशरात्र आदित्यानां स्वर्गगमनहेतुः, पश्वर्थे तु यतितव्यमिति कृताध्यवसाया देवाः तेभ्यः पशुभ्यः चतुर्दशरात्रं प्रत्यौहन् प्रत्यावृत्य गतिमकुर्वन्, प्रथमत्रिरात्रं कृत्वा ततः पृष्ठानन्तरं भूयोपि तत्रैव त्रिरात्रे प्रत्यवरोहणं प्रत्यूहः । ततश्चतुर्दशरात्रमकुर्वन् पशूनां प्रत्यवरोहणाय । अवयवधर्मेण समुदायव्यपदेशः यथा अवयवव्यूढतया द्वादशाहो व्यूढः । तत्रादित्याः देवसकाशं समासादितचतुर्दशरात्राः ष्टष्ठैरेव पृष्ठवत्तयैव स्वर्गमारोहन् । पशूंस्तु अस्मिन्नेव लोके त्र्यहाभ्यां प्रत्यावृत्य अस्मान्देवाः प्रत्यौहन् प्रत्यावर्तयन् । पृष्ठैरेवादित्या अमुष्मिन् आर्ध्नुवन् । त्र्यहाभ्यां यथोक्तलक्षणाभ्यां अस्मिन्पशव अर्ध्नुवन्नित्येव ॥
2 य एवमित्यादि ॥ गतम् ॥
3 कः पुनरसौ त्र्यह इत्याह - ज्योतिरित्यादि ॥
4 कः पुनरस्य विशेष इत्याह - इयं वावेत्यादि ॥ इमानिति इममन्तरिक्षं अमुं च प्रत्यूहेन पुनरिमां प्राप्य ऋद्धा भवन्ति । यदन्यत इत्यादि । यदन्यतः एकतः पृष्ठानि स्युः सामर्थ्यादेकतस्त्र्यहाविति गम्यते । तद्विविवधं स्यात् । उभयतोवलम्बक्षीरादिवहनयन्त्रविशेषो विवधः; तद्विरुद्धं स्यात् विषमं स्यात् एकतोल्पं भारं एकतो महाभारमिति । तस्मान्मध्ये पृष्ठानि भवन्ति सामर्थ्यादभितस्त्र्यहाविति गम्यते । सविवधत्वाय विवधसदृशत्वाय समभारत्वायेति यावत् । सहशब्दस्य सादृश्येऽव्य यीभावः । 'अव्ययीभावे चाकाले' इति सभावः । ओघो वा इत्यादि । गतम् ॥
5 बृहद्रथन्तराभ्यामित्यादि ॥ दिवसेषु एकान्तराभ्यां यन्ति । गतमन्यत् । पराञ्च इत्यादि । अपुनरावृत्ता एव स्वर्गं गच्छन्ति, पराचीनपृष्ठोपयानात् । 'विभाषाञ्चेरदिक्स्त्रियाम्, इति खः । तस्मात्प्रत्यङ् प्रतीचीनगतिः द्वितीयस्त्र्यहो भवति, आयुर्गौर्ज्योतिरिति । प्रत्यवरूढ्यै प्रत्यवरोहणाय आत्मनो भवति । पृथिव्यामवरोहणाय प्रतिष्ठार्थं च भवति । उभयत्र 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । एवमुभयोर्लोकयोः ऋद्धिं प्राप्य उत्तिष्ठन्ति ॥
6 चतुर्दशैता इत्यादि ॥ एताश्चतुर्दशरात्र्यः तासां मध्ये या दश ताभिः दशत्वान्वयात् विराडात्मकान्नलाभः । यारततः पराश्चतस्रः ताभिश्चतुष्ट्वान्वयात् दिक्षु प्रतिष्ठिता भवन्ति । अतिरात्रावभितो भवतः उभयलोकवेदिभिः परिग्रहाय ॥
इति सप्तमे तृतीये पञ्चमोनुवाकः ॥
पञ्चशत् 2 #
TS 7.3.5.2 TS 7.3.5.2
ॅलो॒के प॒शवो॒ य ए॒वं ॅवि॒द्वाꣳस॑-श्चतुर्दशरा॒त्रमास॑त उ॒भयो॑रे॒व लो॒कयोर्॑ ऋद्ध्नुवन्त्य॒स्मिꣳश्चा॒मुष्मिꣳ॑श्च पृ॒ष्ठैरे॒वाऽमुष्मि॑न् ॅलो॒क ऋ॑द्ध्नु॒वन्ति॑ त्र्य॒हाभ्या॑म॒स्मिन् ॅलो॒के ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हो भ॑वती॒यं ॅवाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॑रि॒माने॒व लो॒कान॒भ्यारो॑हन्ति॒ यद॒न्यतः॑ पृ॒ष्ठानि॒ स्युर्विवि॑वधꣳ स्या॒न्मद्ध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वायौ - [ ]
पदपाठः (Word-by-word)
लो॒के । प॒शवः॑ । ये । ए॒वम् । वि॒द्वाꣳसः॑ । च॒तु॒र्द॒श॒रा॒त्रमिति॑ चतुर्दश - रा॒त्रम् । आस॑ते । उ॒भयोः᳚ । ए॒व । लो॒कयोः᳚ । ऋ॒द्ध्नु॒व॒न्ति॒ । अ॒स्मिन्न् । च॒ । अ॒मुष्मिन्न्॑ । च॒ । पृ॒ष्ठैः । ए॒व । अ॒मुष्मिन्न्॑ । लो॒के । ऋ॒द्ध्नु॒वन्ति॑ । त्र्य॒हाभ्या॒मिति॑ त्रि - अ॒हाभ्या᳚म् । अ॒स्मिन्न् । लो॒के । ज्योतिः॑ । गौः । आयुः॑ । इति॑ । त्र्य॒ह इति॑ त्रि-अ॒हः । भ॒व॒ति॒ । इ॒यम् । वाव । ज्योतिः॑ । अ॒न्तरि॑क्षम् । गौः । अ॒सौ । आयुः॑ । इ॒मान् । ए॒व । लो॒कान् । अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति । यत् । अ॒न्यतः॑ । पृ॒ष्ठानि॑ । स्युः । विवि॑वध॒मिति॒ वि-वि॒व॒ध॒म् । स्या॒त् । मद्ध्ये᳚ । पृ॒ष्ठानि॑ । भ॒व॒न्ति॒ । स॒वि॒व॒ध॒त्वायेति॑ सविवध - त्वाय॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 7.3.5.3 TS 7.3.5.3
-जो॒ वै वी॒र्यं॑ पृ॒ष्ठान्योज॑ ए॒व वी॒र्यं॑ मद्ध्य॒तो द॑धते बृहद्-रथन्त॒राभ्यां᳚ ॅयन्ती॒यं ॅवाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञ्स्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं ॅलो॒कं ॅय॑न्ति॒ परा᳚ञ्चो॒ वा ए॒ते सु॑व॒र्गं ॅलो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ् त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या ( ) उ॒भयो᳚र्लो॒कयोर्॑ ऋ॒द्ध्वोत् ति॑ष्ठन्ति॒ चतु॑र्दशै॒तास्तासां॒ ॅया दश॒ दशा᳚क्षरा वि॒राडन्नं॑ ॅवि॒राड् वि॒राजै॒वान्नाद्य॒मव॑ रुन्धते॒ याश्चत॑स्र॒श्चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठन्त्यतिरा॒त्राव॒भितो॑ भवतः॒ परि॑गृहीत्यै ॥
पदपाठः (Word-by-word)
ओजः॑ । वै । वी॒र्य᳚म् । पृ॒ष्ठानि॑ । ओजः॑ । ए॒व । वी॒र्य᳚म् । म॒द्ध्य॒तः । द॒ध॒ते॒ । बृ॒ह॒द्र॒थ॒न्त॒राभ्या॒मिति॑ बृहत् - र॒थ॒न्त॒राभ्या᳚म् । य॒न्ति॒ । इ॒यम् । वाव । र॒थ॒न्त॒रमिति॑ रथं - त॒रम् । अ॒सौ । बृ॒हत् । आ॒भ्याम् । ए॒व । य॒न्ति॒ । अथो॒ इति॑ । अ॒नयोः᳚ । ए॒व । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । ए॒ते इति॑ । वै । य॒ज्ञ्स्य॑ । अ॒ञ्ज॒साय॑नी॒ इत्य॑ञ्जसा - अय॑नी । स्रु॒ती इति॑ । ताभ्या᳚म् । ए॒व । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒न्ति॒ । परा᳚ञ्चः । वै । ए॒ते । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति । ये । प॒रा॒चीना॑नि । पृ॒ष्ठानि॑ । उ॒प॒यन्तीत्यु॑प - यन्ति॑ । प्र॒त्यङ् । त्र्य॒ह इति॑ त्रि - अ॒हः । भ॒व॒ति॒ । प्र॒त्यव॑रूढ्या॒ इति॑ प्रति - अव॑रूढ्यै । अथो॒ इति॑ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑-स्थि॒त्यै॒ ( ) । उ॒भयोः᳚ । लो॒कयोः᳚ । ऋ॒द्ध्वा । उदिति॑ । ति॒ष्ठ॒न्ति॒ । चतु॑र्द॒शेति॒ चतुः॑ - द॒श॒ । ए॒ताः । तासा᳚म् । याः । दश॑ । दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । अन्न᳚म् । वि॒राडिति॑ वि - राट् । वि॒राजेति॑ वि - राजा᳚ । ए॒व । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । अवेति॑ । रु॒न्ध॒ते॒ । याः । चत॑स्रः । चत॑स्रः । दिशः॑ । दि॒क्षु । ए॒व । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥
पदसंख्या: 81