अनुवाकः 9 TS 7.3.9

(A9)

(वृ॒ञ्ज॒ते॒ ब्रह्म॒ चां नं॑ च - सुव॒र्ग - मे॒ते सु॑व॒र्गं - त्रयो॑विꣳशतिश्च)

अनुवाकः 9 - Complete Audio

TS 7.3.9 - स्वरानुगामी

0:00 0:00
PS1.1 सा वि॒राड् वि॒क्रम्या॑तिष्ठ॒द्-ब्रह्म॑णा दे॒वेष्वन्ने॒ना-सु॑रेषु॒
PS1.2 ते दे॒वा अ॑कामयन्तो॒भयꣳ॒॒ सं
PS1.3 ॅवृ॑ञ्जीमहि॒ ब्रह्म॒ चान्नं॒ चेति॒
PS1.4 त ए॒ता विꣳ॑श॒तिꣳ रात्री॑रपश्य॒न्
PS1.5 ततो॒ वै त उ॒भयꣳ॒॒
PS1.6 सम॑वृञ्जत॒ ब्रह्म॒ चान्नं॑ च
PS1.7 ब्रह्मवर्च॒सिनो᳚ऽन्ना॒दा अ॑भव॒न्॒. य ए॒वं
PS1.8 ॅवि॒द्वाꣳस॑ ए॒ता आस॑त उ॒भय॑मे॒व
PS1.9 संॅ वृ॑ञ्जते॒ ब्रह्म॒ चान्नं॑
PS1.10 च - [ ]
PS2.1 ब्रह्मवर्च॒सिनो᳚ऽन्ना॒दा भ॑वन्ति॒ द्वे वा
PS2.2 ए॒ते वि॒राजौ॒ तयो॑रे॒व नाना॒
PS2.3 प्रति॑ तिष्ठन्ति विꣳ॒॒शो वै
PS2.4 पुरु॑षो॒ दश॒ हस्त्या॑ अ॒ङ्गुल॑यो॒
PS2.5 दश॒ पद्या॒ यावा॑ने॒व पुरु॑ष॒स्तमा॒प्त्वोत्
PS2.6 ति॑ष्ठन्ति॒ ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ती॒यं
PS2.7 ॅवाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॑रि॒माने॒व लो॒का-न॒भ्यारो॑हन्त्यभिपू॒र्वं
PS2.8 त्र्य॒हा भ॑वन्त्यभिपू॒र्वमे॒व सु॑व॒र्गं -
PS2.9 [ ]
PS3.1 ॅलो॒कम॒भ्यारो॑हन्ति॒ यद॒न्यतः॑ पृ॒ष्ठानि॒ स्युर्विवि॑वधꣳ
PS3.2 स्या॒न्मद्ध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वायौजो॒
PS3.3 वै वी॒र्यं॑ पृ॒ष्ठान्योज॑ ए॒व
PS3.4 वी॒र्यं॑ मद्ध्य॒तो द॑धते बृहद्-रथन्त॒राभ्यां᳚
PS3.5 ॅयन्ती॒यं ॅवाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व
PS3.6 य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते
PS3.7 वै य॒ज्ञ्स्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व
PS3.8 सु॑व॒र्गं ॅलो॒कं ॅय॑न्ति॒ परा᳚ञ्चो॒
PS3.9 वा ए॒ते सु॑व॒र्गं (
PS3.10 ) ॅलो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि
PS3.11 पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ् त्र्य॒हो भ॑वति
PS3.12 प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो᳚र्लो॒कयोर्॑.
PS3.13 ऋ॒द्ध्वोत् ति॑ष्ठन्त्यतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒स-स्या॒न्नाद्य॑स्य॒
PS3.14 परि॑गृहीत्यै

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.3.9.1 TS 7.3.9.1
सा वि॒राड् वि॒क्रम्या॑तिष्ठ॒द्-ब्रह्म॑णा दे॒वेष्वन्ने॒ना-सु॑रेषु॒ ते दे॒वा अ॑कामयन्तो॒भयꣳ॒॒ सं ॅवृ॑ञ्जीमहि॒ ब्रह्म॒ चान्नं॒ चेति॒ त ए॒ता विꣳ॑श॒तिꣳ रात्री॑रपश्य॒न् ततो॒ वै त उ॒भयꣳ॒॒ सम॑वृञ्जत॒ ब्रह्म॒ चान्नं॑ च ब्रह्मवर्च॒सिनो᳚ऽन्ना॒दा अ॑भव॒न्॒. य ए॒वं ॅवि॒द्वाꣳस॑ ए॒ता आस॑त उ॒भय॑मे॒व संॅ वृ॑ञ्जते॒ ब्रह्म॒ चान्नं॑ च - [ ]
पदपाठः (Word-by-word)
सा । वि॒राडिति॑ वि - राट् । वि॒क्रम्येति॑ वि - क्रम्य॑ । अ॒ति॒ष्ठ॒त् । ब्रह्म॑णा । दे॒वेषु॑ । अन्ने॑न । असु॑रेषु । ते । दे॒वाः । अ॒का॒म॒य॒न्त॒ । उ॒भय᳚म् । समिति॑ । वृ॒ञ्जी॒म॒हि॒ । ब्रह्म॑ । च॒ । अन्न᳚म् । च॒ । इति॑ । ते । ए॒ताः । विꣳ॒॒श॒तिम् । रात्रीः᳚ । अ॒प॒श्य॒न्न् । ततः॑ । वै । ते । उ॒भय᳚म् । समिति॑ । अ॒वृ॒ञ्ज॒त॒ । ब्रह्म॑ । च॒ । अन्न᳚म् । च॒ । ब्र॒ह्म॒व॒र्च॒सिन॒ इति॑ ब्रह्म - व॒र्च॒सिनः॑ । अ॒न्ना॒दा इत्य॑न्न - अ॒दाः । अ॒भ॒व॒न्न् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । ए॒ताः । आस॑ते । उ॒भय᳚म् । ए॒व । समिति॑ । वृ॒ञ्ज॒ते॒ । ब्रह्म॑ । च॒ । अन्न᳚म् । च॒ ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ विंशतिरात्र आरभ्यते - सा विराडित्यादि ॥ या द्वादशाहीया दशाक्षरा विराट् विक्रम्य विविधां क्रान्तिं आस्थायातिष्ठत् । कथं? देवेषु ब्रह्मणा ब्रह्मवर्चसेनातिष्ठत् असुरेष्वन्नेन । तत्तत्साधनभावेन तेषुतेषु नि यतमवर्तत इत्यर्थः । ततस्ते देवा अकामयन्त ब्रह्म चान्नं चोभयं संवृञ्जीमहि । वयमेव सम्यक् लभेमहीति । त एता इत्यादि । गतम् । ब्रह्मवर्चसिनः महाब्रह्मवर्चसा अभवन् । अन्नादाः अन्नादनसमर्थाश्चाभवन् । य

एवमित्यादि । गतम् ॥

2 द्वे वा इत्यादि ॥ एकविंशतिरात्रे दशरात्रावित्यर्थः । दशकयोस्तु विराट्त्वेन स्तुतिः तयोर्विराजोर्नाना पृथक् पृथक् प्रतिष्ठिता भवन्ति । विराडन्नम् । यद्वा - दशकाभ्यां तयोः ब्रह्मवर्चसान्नाद्ययोः पृथक्प्रतिष्ठिता भवन्ति ॥
3 विंश इति ॥ विंशतेः पूरणो विंशः 'तस्य पूरणे डट्' इति डट्, 'विशतेर्डिति' इति टिलोपः । दश हस्त्याः हस्तयोर्भवाः पद्याः पदयोर्भवाः । 'शरीरावयवाच्च' इति यत् । 'पद्यत्यतदर्थे' इति पद्भावः । एताः पृथग्वीर्याः विंशतिरङ्गुलयः पुरुषजाः तदधीनप्रवृत्तित्वात् । तत्रावयवापेक्षया विंशत्वम्, अवयव्यपेक्षया एकत्वम् । यावानित्यादि । यत्परिमाणं पुरुषसामर्थ्यं तत्सर्वमाप्त्वा उत्तिष्ठन्ति लोके उच्छ्रितं भजन्ते । सत्राद्वा उत्तिष्ठन्ति उदवस्यन्ति ॥
4 अथाहानि विदधाति - ज्योतिरित्यादि ॥ अयं तावदहःक्रमः - अतिरात्रः ज्योतिर्गौरायुरिति त्र्यहस्त्रिरभ्यस्तो नवपृष्ठ्यष्षडहः पुनरपि त्र्यहः प्रतीचीन आयुर्गौर्ज्योतिरतिरात्र इति । एष प्रतिपाद्यते - त्र्यहा इति । त्रय एव बहुत्वस्य कृतार्थत्वात्तद्व्यतिरेकेण च एकादशानामह्नां प्रतिपादनात् । अभिपूर्वमिति । आनुपूर्येणाविच्छेदेन ॥
5 यदन्यत इत्यादि ॥ गतम् । प्रत्यङ्ङिति पृष्ठेभ्यः पर एकस्त्र्यहः प्रतीचीनो भवति । अतिरात्राभ्यां ब्रह्मवर्चसान्नाद्ययोः परिग्रहः ॥
इति सप्तमे तृतीये नवमोनुवाकः ॥
पञ्चशत् 2 #
TS 7.3.9.2 TS 7.3.9.2
ब्रह्मवर्च॒सिनो᳚ऽन्ना॒दा भ॑वन्ति॒ द्वे वा ए॒ते वि॒राजौ॒ तयो॑रे॒व नाना॒ प्रति॑ तिष्ठन्ति विꣳ॒॒शो वै पुरु॑षो॒ दश॒ हस्त्या॑ अ॒ङ्गुल॑यो॒ दश॒ पद्या॒ यावा॑ने॒व पुरु॑ष॒स्तमा॒प्त्वोत् ति॑ष्ठन्ति॒ ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ती॒यं ॅवाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॑रि॒माने॒व लो॒का-न॒भ्यारो॑हन्त्यभिपू॒र्वं त्र्य॒हा भ॑वन्त्यभिपू॒र्वमे॒व सु॑व॒र्गं - [ ]
पदपाठः (Word-by-word)
ब्र॒ह्म॒व॒र्च॒सिन॒ इति॑ ब्रह्म - व॒र्च॒सिनः॑ । अ॒न्ना॒दा इत्य॑न्न - अ॒दाः । भ॒व॒न्ति॒ । द्वे इति॑ । वै । ए॒ते इति॑ । वि॒राजा॒विति॑ वि-राजौ᳚ । तयोः᳚ । ए॒व । नाना᳚ । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । विꣳ॒॒शः । वै । पुरु॑षः । दश॑ । हस्त्याः᳚ । अ॒ङ्गुल॑यः । दश॑ । पद्याः᳚ । यावान्॑ । ए॒व । पुरु॑षः । तम् । आ॒प्त्वा । उदिति॑ । ति॒ष्ठ॒न्ति॒ । ज्योतिः॑ । गौः । आयुः॑ । इति॑ । त्र्य॒हा इति॑ त्रि - अ॒हाः । भ॒व॒न्ति॒ । इ॒यम् । वाव । ज्योतिः॑ । अ॒न्तरि॑क्षम् । गौः । अ॒सौ । आयुः॑ । इ॒मान् । ए॒व । लो॒कान् । अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति । अ॒भि॒पू॒र्वमित्य॑भि - पू॒र्वम् । त्र्य॒हा इति॑ त्रि - अ॒हाः । भ॒व॒न्ति॒ । अ॒भि॒पू॒र्वमित्य॑भि - पू॒र्वम् । ए॒व । सु॒व॒र्गमिति॑ सुवः - गम् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 7.3.9.3 TS 7.3.9.3
ॅलो॒कम॒भ्यारो॑हन्ति॒ यद॒न्यतः॑ पृ॒ष्ठानि॒ स्युर्विवि॑वधꣳ स्या॒न्मद्ध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वायौजो॒ वै वी॒र्यं॑ पृ॒ष्ठान्योज॑ ए॒व वी॒र्यं॑ मद्ध्य॒तो द॑धते बृहद्-रथन्त॒राभ्यां᳚ ॅयन्ती॒यं ॅवाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञ्स्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं ॅलो॒कं ॅय॑न्ति॒ परा᳚ञ्चो॒ वा ए॒ते सु॑व॒र्गं ( ) ॅलो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ् त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो᳚र्लो॒कयोर्॑. ऋ॒द्ध्वोत् ति॑ष्ठन्त्यतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒स-स्या॒न्नाद्य॑स्य॒ परि॑गृहीत्यै ॥
पदपाठः (Word-by-word)
लो॒कम् । अ॒भ्यारो॑ह॒न्तीत्य॑भि-आरो॑हन्ति । यत् । अ॒न्यतः॑ । पृ॒ष्ठानि॑ । स्युः । विवि॑वध॒मिति॒ वि - वि॒व॒ध॒म् । स्या॒त् । मद्ध्ये᳚ । पृ॒ष्ठानि॑ । भ॒व॒न्ति॒ । स॒वि॒व॒ध॒त्वायेति॑ सविवध - त्वाय॑ । ओजः॑ । वै । वी॒र्य᳚म् । पृ॒ष्ठानि॑ । ओजः॑ । ए॒व । वी॒र्य᳚म् । म॒द्ध्य॒तः । द॒ध॒ते॒ । बृ॒ह॒द्र॒थ॒न्त॒राभ्या॒मिति॑ बृहत् - र॒थ॒न्त॒राभ्या᳚म् । य॒न्ति॒ । इ॒यम् । वाव । र॒थ॒न्त॒रमिति॑ रथं - त॒रम् । अ॒सौ । बृ॒हत् । आ॒भ्याम् । ए॒व । य॒न्ति॒ । अथो॒ इति॑ । अ॒नयोः᳚ । ए॒व । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । ए॒ते इति॑ । वै । य॒ज्ञ्स्य॑ । अ॒ञ्ज॒साय॑नी॒ इत्य॑ञ्जसा - अय॑नी । स्रु॒ती इति॑ । ताभ्या᳚म् । ए॒व । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒न्ति॒ । परा᳚ञ्चः । वै । ए॒ते । सु॒व॒र्गमिति॑ सुवः - गम् ( ) । लो॒कम् । अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति । ये । प॒रा॒चीना॑नि । पृ॒ष्ठानि॑ । उ॒प॒यन्तीत्यु॑प - यन्ति॑ । प्र॒त्यङ् । त्र्य॒ह इति॑ त्रि - अ॒हः । भ॒व॒ति॒ । प्र॒त्यव॑रूढ्या॒ इति॑ प्रति - अव॑रूढ्यै । अथो॒ इति॑ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । उ॒भयोः᳚ । लो॒कयोः᳚ । ऋ॒द्ध्वा । उदिति॑ । ति॒ष्ठ॒न्ति॒ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । ब्र॒ह्म॒व॒र्च॒सस्येति॑ ब्रह्म - व॒र्च॒सस्य॑ । अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥
पदसंख्या: 73