अनुवाकः 11 TS 7.3.11

(A11)

(उप॒ - ग्रह॒मिडा॑मा॒शिषो॒ - द्वात्रिꣳ॑शच्च)

अनुवाकः 11 - Complete Audio

TS 7.3.11 - स्वरानुगामी

0:00 0:00
PS1.1 अ॒र्वाङ् य॒ज्ञ्ः सं क्रा॑मत्व॒मुष्मा॒दधि॒ माम॒भि
PS1.2 ऋषी॑णां॒ ॅयः पु॒रोहि॑तः
PS1.3 निर्दे॑वं॒ निर्वी॑रं कृ॒त्वा विष्क॑न्धं॒
PS1.4 तस्मि॑न् हीयतां॒ ॅयो᳚ऽस्मान् द्वेष्टि॑
PS1.5 शरी॑रं ॅयज्ञ्शम॒लं कुसी॑दं॒ तस्मिन्᳚थ्सीदतु॒
PS1.6 यो᳚ऽस्मान् द्वेष्टि॑
PS1.7 यज्ञ्॑ य॒ज्ञ्स्य॒ यत् तेज॒स्तेन॒
PS1.8 संक्रा॑म॒ माम॒भि
PS1.9 ब्रा॒ह्म॒णानृ॒त्विजो॑ दे॒वान् य॒ज्ञ्स्य॒ तप॑सा
PS1.10 ते सवा॒हमा हु॑वे
PS1.11 इ॒ष्टेन॑ प॒क्वमुप॑ - [ ]
PS2.1 ते हुवे सवा॒हं
PS2.2 सं ते॑ वृञ्जे सुकृ॒तꣳ
PS2.3 सं प्र॒जां प॒शून्
PS2.4 प्रै॒षान्थ्-सा॑मिधे॒नी-रा॑घा॒रावाज्य॑भागा॒वा-श्रु॑तं प्र॒त्याश्रु॑त॒मा शृ॑णामि ते
PS2.5 प्र॒या॒जा॒नू॒या॒जान्थ्-स्वि॑ष्ट॒कृत॒-मिडा॑मा॒शिष॒ आ वृ॑ञ्जे॒ सुवः॑
PS2.6 अ॒ग्निनेन्द्रे॑ण॒ सोमे॑न॒ सर॑स्वत्या॒ विष्णु॑ना दे॒वता॑भिः
PS2.7 या॒ज्या॒नु॒वा॒क्या᳚भ्या॒मुप॑ ते हुवे सवा॒हं
PS2.8 ॅय॒ज्ञ्मा द॑दे ते॒ वष॑ट्कृतं
PS2.9 स्तु॒तꣳ श॒स्त्रं प्र॑तिग॒रं ग्रह॒मिडा॑मा॒शिष॒
PS2.10 - [ ]
PS3.1 आ वृ॑ञ्जे॒ सुवः॑
PS3.2 प॒त्नी॒सं॒ॅया॒जानुप॑ ते हुवे सवा॒हꣳ
PS3.3 स॑मिष्टय॒जुरा द॑दे॒ तव॑
PS3.4 प॒शून्थ्-सु॒तं पु॑रो॒डाशा॒न्थ्-सव॑ना॒न्योत य॒ज्ञ्ं
PS3.5 दे॒वान्थ्-सेन्द्रा॒नुप॑ ते हुवे सवा॒ह-म॒ग्निमु॑खा॒न्थ्-सोम॑वतो॒
PS3.6 ये च॒ विश्वे᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.3.11.1 TS 7.3.11.1
अ॒र्वाङ् य॒ज्ञ्ः सं क्रा॑मत्व॒मुष्मा॒दधि॒ माम॒भि । ऋषी॑णां॒ ॅयः पु॒रोहि॑तः ॥ निर्दे॑वं॒ निर्वी॑रं कृ॒त्वा विष्क॑न्धं॒ तस्मि॑न् हीयतां॒ ॅयो᳚ऽस्मान् द्वेष्टि॑ । शरी॑रं ॅयज्ञ्शम॒लं कुसी॑दं॒ तस्मिन्᳚थ्सीदतु॒ यो᳚ऽस्मान् द्वेष्टि॑ ॥यज्ञ्॑ य॒ज्ञ्स्य॒ यत् तेज॒स्तेन॒ संक्रा॑म॒ माम॒भि । ब्रा॒ह्म॒णानृ॒त्विजो॑ दे॒वान् य॒ज्ञ्स्य॒ तप॑सा ते सवा॒हमा हु॑वे ॥इ॒ष्टेन॑ प॒क्वमुप॑ - [ ]
पदपाठः (Word-by-word)
अ॒र्वाङ् । य॒ज्ञ्ः । समिति॑ । क्रा॒म॒तु॒ । अ॒मुष्मा᳚त् । अधीति॑ । माम् । अ॒भि ॥ ऋषी॑णाम् । यः । पु॒रोहि॑त॒ इति॑ पु॒रः - हि॒तः॒ ॥ निर्दे॑व॒मिति॒ निः - दे॒व॒म् । निर्वी॑र॒मिति॒ निः - वी॒र॒म् । कृ॒त्वा । विष्क॑न्ध॒मिति॒ वि - स्क॒न्ध॒म् । तस्मिन्न्॑ । ही॒य॒ता॒म् । यः । अ॒स्मान् । द्वेष्टि॑ ॥ शरी॑रम् । य॒ज्ञ्॒श॒म॒लमिति॑ यज्ञ् - श॒म॒लम् । कुसी॑दम् । तस्मिन्न्॑ । सी॒द॒तु॒ । यः । अ॒स्मान् । द्वेष्टि॑ ॥ यज्ञ्॑ । य॒ज्ञ्स्य॑ । यत् । तेजः॑ । तेन॑ । समिति॑ । क्रा॒म॒ । माम् । अ॒भि ॥ ब्रा॒ह्म॒णान् । ऋ॒त्विजः॑ । दे॒वान् । य॒ज्ञ्स्य॑ । तप॑सा । ते॒ । स॒व॒ । अ॒हम् । एति॑ । हु॒वे॒ ॥ इ॒ष्टेन॑ । प॒क्वम् । उपेति॑ ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथाश्वमेधे अष्टावाहुतीः जुहोति - अर्वाङित्यादि ॥ प्रथमा गायत्री त्रिपदा । अर्वाङितो मुखो यज्ञः संक्रामतु यजमानं समागच्छतु । कीदृशः? ऋषीणां ज्ञानवतां यजमानानां यः पुरोहितः सर्वार्थेषु साधनभावेन पुरस्तान्निहितः । 'पुरोव्ययम्' इति गतित्वात् 'गतिरनन्तरः' इति प्रकृतिस्वरत्वम् । सोयं यज्ञो मामभि मामेव लक्षीकृत्य अधिकमर्वाक् संक्रामतु आगच्छतु । अर्वागञ्चतीति 'ऋत्विक्' इत्यादिना क्विन्, 'क्विन्प्रत्ययस्य कुः' इति कुत्वम् । अमुष्माद्देवदत्तादेरपक्रम्य यो मां द्वेष्टि तं हित्वा मामभि संक्रामतु ॥
2 अथ द्वितीया - निर्देवमिति ॥ पङ्क्तिविशेषः । निर्देवं निर्गता देवा यस्मात्तं निस्स्वाहाकारवषट्कारतया देवैर्बहिष्कृतं निर्वीरं निर्गतवीरं देवेन पुरुषकारेण च विरहितं कृत्वा विष्कन्धं विविधशोषणं शरीरं कृपणं तस्मिन् हीयतां स्थाप्यताम् । हि गतौ । दधातेर्वा छान्दसो हिभावः । उत्तरार्धर्चे स्थितं शरीरग्रहणमिह संबध्यते । यद्वा - द्वेष्टरि निर्देवादिगुणे कृते तस्मिन् तस्य शरीरं विविधशोषं हीयतां क्षीयताम् । जहातेर्घुमास्थादिना ईत्वम् । स्कन्धेर्घञ् । 'वेस्कन्देरनिष्ठायाम्' इति षत्वम् । व्यत्ययेन घत्वम् । सर्वत्राव्ययपूर्वपदप्रकृतिस्वरत्वम् । यद्वा - विरूपस्कन्धावयवं शरीरम् । सुषामादित्वात् षत्वम् । तद्द्वेष्टरि स्थाप्यताम् । तादृशं वा तत्क्षीयतां प्रवृत्त्यभावेन । तदेवाह - यज्ञशमलं शमेरौणादिको लप्रत्ययः । अगागमश्च । कुसीदं वृद्धिप्रयोगजीवनं यज्ञशमलं यज्ञानर्हत्वनिमित्तं तस्मिन् सीदतु जीविकात्वेन वर्तताम् । ततश्चायज्ञीयत्वं 'यज्ञेन देवेभ्यः' इति वचनात् न कदाचिदप्यनृणस्स्यात् । यज्ञनिमित्तानि च श्रेयांसि न प्राप्नुयात् । योस्वान् द्वेष्टीति ॥
3 अथ तृतीया - यज्ञ यज्ञस्येति ॥ उपरिष्टाद्बृहती चतुर्थस्य द्वादशा क्षरत्वात् अन्येषां चाष्टाक्षरत्वात् । उक्तं यज्ञो मामभिसंक्रामत्विति; अधुना यज्ञं प्रत्यक्षवदाह - हे यज्ञ! यज्ञस्य सम्यगनुष्ठितस्थ तव यत्तेजः तेन मामभिसंक्राम यथा मय्यपि तेजः स्यात्, यथा चाहं ब्राह्मणान् ऋत्विजो देवांश्च यज्ञस्य तव तपसा इह अस्मिन् प्रयोगे आह्वये आह्वयामि; तव हि तेजसा निर्भयोऽहं इमान् आह्वातुमर्हामि । हे सव! महायज्ञ! । ह्वयतेर्लटि शपो लुक् । 'बहुलं छन्दसि' इति संप्रसारणम् ॥
4 अथ चतुर्थी - इष्टेनेति ॥ द्विपदा जगती द्व्यक्षराधिका । अहमादिः द्वितीयः पादः । पादमध्येवस्यति छन्दोविचितिव्यत्ययोऽयम् । हे सव त्वयि मयि संक्रान्ते अहं तव इष्टेन त्वत्संबन्धिना यजमानेन पक्वमुपहुवे उपह्वयामि मम भोगार्थं आकाङ्क्षामि । किंच - तवेष्टेन सुकृतं प्रजां पशून् संवृजे समाकर्षामि ॥
5 अथ पञ्चमी - प्रैषानिति । । उपरिष्टाज्ज्योतिर्जगती, चतुर्थस्य पादस्याष्टाक्षरत्वात् । प्रैषादयः प्रसिद्धाः । तान् त्वदर्थमाशृणोमि आश्रयामि । श्रयतेर्विकरणव्यत्ययः, संप्रसारणं छान्दसम् । धात्वन्तरं वा द्रष्टव्यम् । प्रैष्यन्ते एभिरिति प्रैषाः 'प्रादूहोढोढ्यैषैष्येषु' इति वृद्धिः, थाथादिनोत्तरपदान्तोदात्तत्वम् । 'समिधामाधाने षेण्यः' इति षित्वात् ङीष् । आघार्यते इत्याघारौ । आज्यं भागो ययोः । आश्रुतं अश्रावितम् । 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । प्रत्याश्रुतं प्रत्याश्रावितम् । पूर्वेणानन्तरस्य गतेः स्वरः । प्रयाजाः प्रथमयागाः । 'प्रयाजानू-

याजौ यज्ञाङ्गे' इति कुत्वाभावः । स्विष्टं करोतीति स्विष्टकृत् । इडा प्रसिद्धा । एतानाश्रित्य आशिषः आशासनीयानि फलानि । 'आशासः क्वौ' इतीत्वम् । सुवः स्वर्गं च आवृञ्जे आवृञ्जामि । स्वर्गस्य प्राधान्यात्पुनरुपादानम् यथा - 'ब्राह्मणा आयाता वसिष्ठोप्यायातः' इति ॥

6 अथ षष्ठी - अग्निनेति ॥ पुरस्ताज्ज्योतिर्जगती; प्रथमस्याष्टाक्षरत्वात् । अहमादिश्चतुर्यः पादः । अग्न्यादिदिः हविर्भाग्भिः देवताभिः याज्यानुवाक्याभ्यां च हविषां विधिप्रधानाभ्यां च त्वदर्थमहमुपहवे उपजुहोमि । हे सव! पूर्ववच्छपो लुक् । ततश्च यज्ञं वषट्कृतं कृतवषट्कारं विलक्षणं ते त्वत्प्रसादात् अहं आददे उत्पादयामि । वषट्छन्दस्यौर्यादित्वेन गतित्वात् 'गतिरनन्तरः' इति गतेः स्वरः ॥
7 अथ सप्तमी - स्तुतमित्यादि ॥ इयमपि परस्ताज्ज्योतिर्जगती । पूर्ववत् अहमादिश्चतुर्थः पादः । स्तुतं स्तोत्रं तदादीनि इडान्तानि आवृञ्जे आकर्षामि । ततः एतैः आशिषः स्वर्गं च आवृञ्जे । किं च पत्नीसंयाजान् ते त्वदर्थं अहं उपहुवे उपजुहोमि । हे सव! कि च त्वदर्थं समिष्टयजुः आददे निर्वर्तयामि ॥
8 अथाष्टमी - पशूनिति ॥ अस्तारपङ्क्तिः ; प्रथमयोरष्टाक्षरत्वात् । उक्तः सामान्येन यज्ञः, अधुना तद्विशेषा उच्यन्ते - पशून् अग्नीषोमीयादीन् सुतं सोमं पुरोडाशान् सवनीयान् सवनानि प्रातस्सवनादीनि उत अपि च यज्ञं देवांश्च सेन्द्रान् ते त्वदर्थं उपहुवे तव समीपे आह्वयामि । हे सव! अग्निमुखान् देवान् सोमवतश्च ये च विश्वे देवाः तांश्चाहमाह्वयामि ॥
इति सप्तमे तृतीये एकादशोनुवाकः ॥
पञ्चशत् 2 #
TS 7.3.11.2 TS 7.3.11.2
ते हुवे सवा॒हं । सं ते॑ वृञ्जे सुकृ॒तꣳ सं प्र॒जां प॒शून् ॥प्रै॒षान्थ्-सा॑मिधे॒नी-रा॑घा॒रावाज्य॑भागा॒वा-श्रु॑तं प्र॒त्याश्रु॑त॒मा शृ॑णामि ते । प्र॒या॒जा॒नू॒या॒जान्थ्-स्वि॑ष्ट॒कृत॒-मिडा॑मा॒शिष॒ आ वृ॑ञ्जे॒ सुवः॑ ॥ अ॒ग्निनेन्द्रे॑ण॒ सोमे॑न॒ सर॑स्वत्या॒ विष्णु॑ना दे॒वता॑भिः । या॒ज्या॒नु॒वा॒क्या᳚भ्या॒मुप॑ ते हुवे सवा॒हं ॅय॒ज्ञ्मा द॑दे ते॒ वष॑ट्कृतं ॥ स्तु॒तꣳ श॒स्त्रं प्र॑तिग॒रं ग्रह॒मिडा॑मा॒शिष॒ - [ ]
पदपाठः (Word-by-word)
ते॒ । हु॒वे॒ । स॒व॒ । अ॒हम् ॥ समिति॑ । ते॒ । वृ॒ञ्जे॒ । सु॒कृ॒तमिति॑ सु - कृ॒तम् । समिति॑ । प्र॒जामिति॑ प्र - जाम् । प॒शून् ॥ प्रै॒षानिति॑ प्र - ए॒षान् । सा॒मि॒धे॒नीरिति॑ सां - इ॒धे॒नीः । आ॒घा॒रावित्या᳚ - घा॒रौ । आज्य॑भागा॒वित्याज्य॑ - भा॒गौ॒ । आश्रु॑त॒मित्या - श्रु॒त॒म् । प्र॒त्याश्रु॑त॒मिति॑ प्रति - आश्रु॑तम् । एति॑ । शृ॒णा॒मि॒ । ते॒ ॥ प्र॒या॒जा॒नू॒या॒जानिति॑ प्रयाज - अ॒नू॒या॒जान् । स्वि॒ष्ट॒कृत॒मिति॑ स्विष्ट - कृत᳚म् । इडा᳚म् । आ॒शिष॒ इत्या᳚ - शिषः॑ । एति॑ । वृ॒ञ्जे॒ । सुवः॑ ॥ अ॒ग्निना᳚ । इन्द्रे॑ण । सोमे॑न । सर॑स्वत्या । विष्णु॑ना । दे॒वता॑भिः ॥ या॒ज्या॒नु॒वा॒क्या᳚भ्या॒मिति॑ याज्या - अ॒नु॒वा॒क्या᳚भ्याम् । उपेति॑ । ते॒ । हु॒वे॒ । स॒व॒ । अ॒हम् । य॒ज्ञ्म् । एति॑ । द॒दे॒ । ते॒ । वष॑ट्कृत॒मिति॒ वष॑ट् - कृ॒त॒म् ॥ स्तु॒तम् । श॒स्त्रम् । प्र॒ति॒ग॒रमिति॑ प्रति - ग॒रम् । ग्रह᳚म् । इडा᳚म् । आ॒शिष॒ इत्या᳚ - शिषः॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 7.3.11.3 TS 7.3.11.3
आ वृ॑ञ्जे॒ सुवः॑ । प॒त्नी॒सं॒ॅया॒जानुप॑ ते हुवे सवा॒हꣳ स॑मिष्टय॒जुरा द॑दे॒ तव॑ ॥ प॒शून्थ्-सु॒तं पु॑रो॒डाशा॒न्थ्-सव॑ना॒न्योत य॒ज्ञ्ं । दे॒वान्थ्-सेन्द्रा॒नुप॑ ते हुवे सवा॒ह-म॒ग्निमु॑खा॒न्थ्-सोम॑वतो॒ ये च॒ विश्वे᳚ ॥
पदपाठः (Word-by-word)
एति॑ । वृ॒ञ्जे॒ । सुवः॑ ॥ प॒त्नी॒सं॒ॅया॒जानिति॑ पत्नी-सं॒ॅया॒जान् । उपेति॑ । ते॒ । हु॒वे॒ । स॒व॒ । अ॒हम् । स॒मि॒ष्ट॒य॒जुरिति॑ समिष्ट - य॒जुः । एति॑ । द॒दे॒ । तव॑ ॥ प॒शून् । सु॒तम् । पु॒रो॒डाशान्॑ । सव॑नानि । एति॑ । उ॒त । य॒ज्ञ्म् ॥ दे॒वान् । सेन्द्रा॒निति॒ स-इ॒न्द्रा॒न् । उपेति॑ । ते॒ । हु॒वे॒ । स॒व॒ । अ॒हम् । अ॒ग्निमु॑खा॒नित्य॒ग्नि - मु॒खा॒न् । सोम॑वत॒ इति॒ सोम॑-व॒तः॒ । ये । च॒ । विश्वे᳚ ॥
पदसंख्या: 32