पञ्चशत् 1 #
इन्द्रो॒ वै शि॑थि॒ल इ॒वाऽप्र॑तिष्ठित आसी॒थ् सोऽसु॑रेभ्योऽबिभे॒थ् स प्र॒जाप॑ति॒मुपा॑ऽधाव॒त् तस्मा॑ ए॒तं प॑ञ्चदशरा॒त्रं ॅवज्रं॒ प्राय॑च्छ॒त् तेनासु॑रान् परा॒भाव्य॑ वि॒जित्य॒ श्रिय॑मगच्छदग्नि॒ष्टुता॑ पा॒प्मानं॒ निर॑दहत पञ्चदशरा॒त्रेणौजो॒ बल॑मिन्द्रि॒यं ॅवी॒र्य॑मा॒त्मन्न॑धत्त॒ य ए॒वं ॅवि॒द्वाꣳसः॑ पञ्चदशरा॒त्रमास॑ते॒ भ्रातृ॑व्याने॒व प॑रा॒भाव्य॑ वि॒जित्य॒ श्रियं॑ गच्छन्त्यग्नि॒ष्टुता॑ पा॒प्मानं॒ नि - [ ]
पदपाठः (Word-by-word)
इन्द्रः॑ । वै । शि॒थि॒लः । इ॒व॒ । अप्र॑तिष्ठित॒ इत्यप्र॑ति - स्थि॒तः॒ । आ॒सी॒त् । सः । असु॑रेभ्यः । अ॒बि॒भे॒त् । सः । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । उपेति॑ । अ॒धा॒व॒त् । तस्मै᳚ । ए॒तम् । प॒ञ्च॒द॒श॒रा॒त्रमिति॑ पञ्चदश - रा॒त्रम् । वज्र᳚म् । प्रेति॑ । अ॒य॒च्छ॒त् । तेन॑ । असु॑रान् । प॒रा॒भाव्येति॑ परा - भाव्य॑ । वि॒जित्येति॑ वि-जित्य॑ । श्रिय᳚म् । अ॒ग॒च्छ॒त् । अ॒ग्नि॒ष्टुतेत्य॑ग्नि - स्तुता᳚ । पा॒प्मान᳚म् । निरिति॑ । अ॒द॒ह॒त॒ । प॒ञ्च॒द॒श॒रा॒त्रेणेति॑ पञ्चदश - रा॒त्रेण॑ । ओजः॑ । बल᳚म् । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । आ॒त्मन्न् । अ॒ध॒त्त॒ । ये । ए॒वम् । वि॒द्वाꣳसः॑ । प॒ञ्च॒द॒श॒रा॒त्रमिति॑ पञ्चदश - रा॒त्रम् । आस॑ते । भ्रातृ॑व्यान् । ए॒व । प॒रा॒भाव्येति॑ परा - भाव्य॑ । वि॒जित्येति॑ वि - जित्य॑ । श्रिय᳚म् । ग॒च्छ॒न्ति॒ । अ॒ग्नि॒ष्टुतेत्य॑ग्नि - स्तुता᳚ । पा॒प्मान᳚म् । निरिति॑ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ छन्दोमवान् पञ्चदशरात्रयोरेकतरः पृष्ठावृत्तिमानितरः त्र्यहावृत्तिमान् । तयोर्द्वितीयं विदधाति - इन्द्रो वै शिथिल इवेत्यादि ॥ इन्द्रः शिथिल इव वित्तेन दुर्बल इवासीत् । हेतुमाह - अप्रतिष्ठितः हतराज्यः । सोसुरेभ्य इत्यादि । गतम् । पञ्चदशरात्रं वज्रमिति । वज्रसादृश्यमसुराणां मारणत्वात् । तेन असुरान् पराभाव्य अभिभूय विजित्य सेनादिकमपहृत्य तच्छ्रियं राज्यमपि तेषामगच्छत् प्राप्नोत् ॥
2 अग्निष्टुतेति ॥ सर्वाग्नेयस्त्रिवृदेकाहविशेषो अग्निष्टुत् । तेन द्वितीयेनाह्ना पाप्मानं निरदहत् । पञ्चदशरात्रोण समुदायेन तत्सहितेन ओजआदिचतुष्टयं आत्मन्यधत्त अधारयत् । य एवमित्यादि । गतम् । एता एव पशव्याः इत्यादि । एताः पञ्चदशरात्रयः ओजआदिप्रदत्वात् पशव्याः पशुभ्यो हिता भवन्ति । गवादिभ्यो यत् । यद्वा - पशूनां प्राप्तिनिमित्तानि । 'गोद्व्यचः' इति यत् ॥
3 इदानीं सङ्ख्यातोपि स्तौति - पञ्चदशेत्यादि ॥ अर्धमासशः अर्धमासेनार्धमासेन । 'सङ्ख्यैकवचनाच्च' इति शस् । सुवर्ग्याः सुवर्गाय हिताः स्वर्गप्राप्तेर्वा निमित्तानि एताः पञ्चदश रात्रयः त्रिपृदादयः । पूर्ववत् । ज्योतिरित्यादि । व्याख्यातम् । अत्रेयमहःकॢप्तिः - अतिरात्रस्त्रिवृदग्निष्टुत् ज्योतिर्गौरायुः पृष्ठ्यष्षडहः प्रत्यङ् त्र्यहः आयुर्गौर्ज्योतिरतिरात्र इति ॥
4 यदन्यत इत्यादि ॥ तस्मात् त्र्यहयोर्मध्ये पृष्ठ्यष्षडहः ॥
5 बृहद्रथन्तराभ्यामित्यादि ॥ व्याख्यातम् ॥
6 पराञ्च इत्यादि ॥ द्वितीयस्य त्र्यहस्य प्रत्यक्त्वविधानं. व्याख्यातमेव18 ॥
7 पञ्चदशैता इत्यादि ॥ इदानीं संख्याविशेषान्वयेन अवयवस्तुतिः । पञ्च दिश इत्यादि । ऊर्ध्वया सह । अतिरात्रावभितो भवतः इन्द्रियादिचतुष्टयस्य लाभाय भवतः ॥
इति सप्तमे तृतीये सप्तमोनुवाकः ॥