पञ्चशत् 1 #
स्वाहा॒ऽऽधिमाधी॑ताय॒ स्वाहा॒ स्वाहाऽऽधी॑तं॒ मन॑से॒ स्वाहा॒ स्वाहा॒ मनः॑ प्र॒जाप॑तये॒ स्वाहा॒ काय॒ स्वाहा॒ कस्मै॒ स्वाहा॑ कत॒मस्मै॒ स्वाहा ऽदि॑त्यै॒ स्वाहा ऽदि॑त्यै म॒ह्यै᳚ स्वाहाऽदि॑त्यै सुमृडी॒कायै॒ स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॒ सर॑स्वत्यै बृह॒त्यै᳚ स्वाहा॒ सर॑स्वत्यै पाव॒कायै॒ स्वाहा॑ पू॒ष्णे स्वाहा॑ पू॒ष्णे प्र॑प॒थ्या॑य॒ स्वाहा॑ पू॒ष्णे न॒रन्धि॑षाय॒ स्वाहा॒ त्वष्ट्रे॒ स्वाहा॒ त्वष्ट्रे॑ तु॒रीपा॑य॒ स्वाहा॒ त्वष्ट्रे॑ पुरु॒रूपा॑य॒ स्वाहा॒ ( ) विष्ण॑वे॒ स्वाहा॒ विष्ण॑वे निखुर्य॒पाय॒ स्वाहा॒ विष्ण॑वे निभूय॒पाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
स्वाहा᳚ । आ॒धिमित्या᳚ - धिम् । आधी॑ता॒येत्या - धी॒ता॒य॒ । स्वाहा᳚ । स्वाहा᳚ । आधी॑त॒मित्या - धी॒त॒म् । मन॑से । स्वाहा᳚ । स्वाहा᳚ । मनः॑ । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । स्वाहा᳚ । काय॑ । स्वाहा᳚ । कस्मै᳚ । स्वाहा᳚ । क॒त॒मस्मै᳚ । स्वाहा᳚ । अदि॑त्यै । स्वाहा᳚ । अदि॑त्यै । म॒ह्यै᳚ । स्वाहा᳚ । अदि॑त्यै । सु॒मृ॒डी॒काया॒ इति॑ सु - मृ॒डी॒कायै᳚ । स्वाहा᳚ । सर॑स्वत्यै । स्वाहा᳚ । सर॑स्वत्यै । बृ॒ह॒त्यै᳚ । स्वाहा᳚ । सर॑स्वत्यै । पा॒व॒कायै᳚ । स्वाहा᳚ । पू॒ष्णे । स्वाहा᳚ । पू॒ष्णे । प्र॒प॒थ्या॑येति॑ प्र-प॒थ्या॑य । स्वाहा᳚ । पू॒ष्णे । न॒रन्धि॑षाय । स्वाहा᳚ । त्वष्ट्रे᳚ । स्वाहा᳚ । त्वष्ट्रे᳚ । तु॒रीपा॑य । स्वाहा᳚ । त्वष्ट्रे᳚ । पु॒रु॒रूपा॒येति॑ पुरु - रूपा॑य । स्वाहा᳚ ( ) । विष्ण॑वे । स्वाहा᳚ । विष्ण॑वे । नि॒खु॒र्य॒पायेति॑ निखुर्य - पाय॑ । स्वाहा᳚ । विष्ण॑वे । नि॒भू॒य॒पायेति॑ निभूय - पाय॑ । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ वैश्वदेवानि जुहोति - स्वाहाधिमित्यादि ॥ अत्र त्रीणि पूर्वाणि दीक्षायां समस्तानि रात्रिहोमेषु । आधीयतेऽनेनेत्याधिः । बुद्धिः । 'उपसर्गे घोः किः' व्यत्ययेन द्वितीया । आधीताय आध्यानाय पर्याप्तो भवतु । ध्यायतेः छान्दसं संप्रसारणम् । किमर्थं अस्थाने इदं स्वाहाकारं करोति! उभयतस्स्वाहाकारा मन्त्राः । यद्वा - प्रथमे स्वाहाकारे जुहोतिः आदानार्थे वर्तते सुष्ठु आददे इति । तेन कर्मण्येव द्वितीया । अयमर्थः - आधिं स्वाहा जुहोमि आधीतार्थं आधीतस्य सिद्धये । जुहोतेः शपो लुक्, मिपो ढादेशः, 'गतिर्गतौ' इति निघातः, गतिना च समासः । व्युत्पत्त्यनवधारणादनवग्रहः । द्वितीयस्वाहाकारः प्रदानार्थः । एवं सर्वत्र । आधीतं आध्यातं मनसे पर्याप्तं भवतु । मनश्च प्रजापतये यजमानाय वा पर्याप्तं भवतु । काय प्रजापतये । संज्ञात्वात्सर्वनामत्वाभावः । कस्मै अज्ञातस्वरूपाय । सार्वात्म्यात् सर्वनामत्वम् । कतमस्मै अनिर्धारितविशेषात्मने । अदित्यै पृथिव्यै देवमात्रे वा । मह्यै महत्यै सुमृडीकायै सुसुखायै सुष्ठु वा सुखयित्र्यै । पावकायै शोधयित्र्यै 'पावकादीनां छन्दसि' इतीत्वाभावः । पूष्णे । उदात्तनिवृत्तिस्वरेण विभक्तिरुदात्ता । प्रपथ्याय प्रकृष्टः पन्थाः प्रपथः तस्मै हिताय । तत्र भवाय वा । नरन्धिषाय नराणां धारयित्रे । दधातेः छान्दसः खच्, भष्भावश्च । पूर्वपदान्तोदात्तत्वं च । तुरीपाय तूर्णमाप्नुवते । पृषोदरादिः । पुरुरूपाय । 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । निखुर्यपाय खुरच्छेदने नियमेन पापरोगादिभिः बाध्यमानानां जनानां पात्रे । छान्दसः क्यप् । निभूयपाय न्यग्भवनीयाः कर्मभिः निभूयाः तेषां पात्रे । पूर्ववत्क्यप् । गतमन्यत् ॥
इति सप्तमे तृतीये पञ्चदशोनुवाकः ॥