अनुवाकः 4 TS 7.3.4

(A4)

(पृ॒ष्ठानि॒ - चतु॑स्त्रिꣳशच्च)

अनुवाकः 4 - Complete Audio

TS 7.3.4 - स्वरानुगामी

0:00 0:00
PS1.1 आ॒दि॒त्या अ॑कामयन्तो॒-भयो᳚र्लो॒कयोर्॑ ऋद्ध्नुया॒मेति॒ त
PS1.2 ए॒तं च॑तुर्दशरा॒त्र- म॑पश्य॒न् तमाऽह॑र॒न्
PS1.3 तेना॑यजन्त॒ ततो॒ वै त
PS1.4 उ॒भयो᳚-र्लो॒कयो॑-रार्द्ध्नुवन्न॒स्मिꣳश्चा॒-मुष्मिꣳ॑श्च॒ य ए॒वं ॅवि॒द्वाꣳस॑-श्चतुर्दशरा॒त्रमास॑त
PS1.5 उ॒भयो॑रे॒व लो॒कयोर्॑. ऋद्ध्नुवन्त्य॒स्मिꣳश्चा॒-मुष्मिꣳ॑श्च चतुर्दशरा॒त्रो
PS1.6 भ॑वति स॒प्त ग्रा॒म्या ओष॑धयः
PS1.7 स॒प्ताऽऽ*र॒ण्या उ॒भयी॑षा॒मव॑रुद्ध्यै॒ यत् प॑रा॒चीना॑नि
PS1.8 पृ॒ष्ठानि॒ - [ ]
PS2.1 भव॑न्त्य॒मुमे॒व तैर्लो॒कम॒भि ज॑यन्ति॒ यत्
PS2.2 प्र॑ती॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ती॒ममे॒व तैर्लो॒कम॒भि
PS2.3 ज॑यन्ति त्रयस्त्रिꣳ॒॒शौ म॑द्ध्य॒तः स्तोमौ॑
PS2.4 भवतः॒ साम्रा᳚ज्यमे॒व ग॑च्छन्त्यधिरा॒जौ भ॑वतोऽधिरा॒जा
PS2.5 ए॒व स॑मा॒नानां᳚ भवन्त्यतिरा॒त्राव॒भितो॑ भवतः॒
PS2.6 परि॑गृहीत्यै

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.3.4.1 TS 7.3.4.1
आ॒दि॒त्या अ॑कामयन्तो॒-भयो᳚र्लो॒कयोर्॑ ऋद्ध्नुया॒मेति॒ त ए॒तं च॑तुर्दशरा॒त्र- म॑पश्य॒न् तमाऽह॑र॒न् तेना॑यजन्त॒ ततो॒ वै त उ॒भयो᳚-र्लो॒कयो॑-रार्द्ध्नुवन्न॒स्मिꣳश्चा॒-मुष्मिꣳ॑श्च॒ य ए॒वं ॅवि॒द्वाꣳस॑-श्चतुर्दशरा॒त्रमास॑त उ॒भयो॑रे॒व लो॒कयोर्॑. ऋद्ध्नुवन्त्य॒स्मिꣳश्चा॒-मुष्मिꣳ॑श्च चतुर्दशरा॒त्रो भ॑वति स॒प्त ग्रा॒म्या ओष॑धयः स॒प्ताऽऽ*र॒ण्या उ॒भयी॑षा॒मव॑रुद्ध्यै॒ यत् प॑रा॒चीना॑नि पृ॒ष्ठानि॒ - [ ]
पदपाठः (Word-by-word)
आ॒दि॒त्याः । अ॒का॒म॒य॒न्त॒ । उ॒भयोः᳚ । लो॒कयोः᳚ । ऋ॒द्ध्नु॒या॒म॒ । इति॑ । ते । ए॒तम् । च॒तु॒र्द॒श॒रा॒त्रमिति॑ चतुर्दश - रा॒त्रम् । अ॒प॒श्य॒न्न् । तम् । एति॑ । अ॒ह॒र॒न्न् । तेन॑ । अ॒य॒ज॒न्त॒ । ततः॑ । वै । ते । उ॒भयोः᳚ । लो॒कयोः᳚ । आ॒द्‌र्ध्नु॒व॒न्न् । अ॒स्मिन्न् । च॒ । अ॒मुष्मिन्न्॑ । च॒ । ये । ए॒वम् । वि॒द्वाꣳसः॑ । च॒तु॒र्द॒श॒रा॒त्रमिति॑ चतुर्दश - रा॒त्रम् । आस॑ते । उ॒भयोः᳚ । ए॒व । लो॒कयोः᳚ । ऋ॒द्ध्नु॒व॒न्ति॒ । अ॒स्मिन्न् । च॒ । अ॒मुष्मिन्न्॑ । च॒ । च॒तु॒र्द॒श॒रा॒त्र इति॑ चतुर्दश - रा॒त्रः । भ॒व॒ति॒ । स॒प्त । ग्रा॒म्याः । ओष॑धयः । स॒प्त । आ॒र॒ण्याः । उ॒भयी॑षाम् । अव॑रुद्ध्या॒ इत्यव॑-रु॒द्ध्यै॒ । यत् । प॒रा॒चीना॑नि । पृ॒ष्ठानि॑ ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 त्रयश्चतुर्दशरात्रास्तत्रायं प्रथमोऽतिरात्रः पृष्ठ्यष्षडह आवृत्तः । पृष्ठ्यष्षडहोतिरात्र इति । तं विदधाति - आदित्या इत्यादि । सप्तग्राम्यावरोधः ॥
2 यत्पराचीनानीत्यादि ॥ ऊर्ध्वमुखानि त्रिवृदादीनि त्रयस्त्रिंशान्तानि पृष्ठानि भवन्ति । तस्मात्तैरमुं लोकमभिजयन्ति । तस्मात्तदनन्तरं मध्ये समृद्धत्वात् प्रतीचीनानि प्रत्यङ्मुरवानि त्रयस्त्रिंशादीनि त्रिवृदन्तानि पृष्ठानि भवन्ति तस्मात्तैरिमं मनुष्यलोकं अभिजयन्त्येव । एवं त्रयस्त्रिंशस्तोमौ मध्यतः मध्यमौ दिवसौ सप्तमाष्टमौ भवतः । तेन साम्राज्यं गच्छन्ति । मध्ये समृद्धत्वात् । यस्मादेवं तस्माच्चतुर्दशरात्रयाजिनोधिराजाः स्वामिनः समानानां भवन्ति समानैः परिगृहीता भवन्ति ॥
इति सप्तमे तृतीये चतुर्थोनुवाकः ॥
पञ्चशत् 2 #
TS 7.3.4.2 TS 7.3.4.2
भव॑न्त्य॒मुमे॒व तैर्लो॒कम॒भि ज॑यन्ति॒ यत् प्र॑ती॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ती॒ममे॒व तैर्लो॒कम॒भि ज॑यन्ति त्रयस्त्रिꣳ॒॒शौ म॑द्ध्य॒तः स्तोमौ॑ भवतः॒ साम्रा᳚ज्यमे॒व ग॑च्छन्त्यधिरा॒जौ भ॑वतोऽधिरा॒जा ए॒व स॑मा॒नानां᳚ भवन्त्यतिरा॒त्राव॒भितो॑ भवतः॒ परि॑गृहीत्यै ॥
पदपाठः (Word-by-word)
भव॑न्ति । अ॒मुम् । ए॒व । तैः । लो॒कम् । अ॒भीति॑ । ज॒य॒न्ति॒ । यत् । प्र॒ती॒चीना॑नि । पृ॒ष्ठानि॑ । भव॑न्ति । इ॒मम् । ए॒व । तैः । लो॒कम् । अ॒भीति॑ । ज॒य॒न्ति॒ । त्र॒य॒स्त्रिꣳ॒॒शाविति॑ त्रयः - त्रिꣳ॒॒शौ । म॒द्ध्य॒तः । स्तोमौ᳚ । भ॒व॒तः॒ । साम्रा᳚ज्य॒मिति॒ सां - रा॒ज्य॒म् । ए॒व । ग॒च्छ॒न्ति॒ । अ॒धि॒रा॒जावित्य॑धि - रा॒जौ । भ॒व॒तः॒ । अ॒धि॒रा॒जा इत्य॑धि - रा॒जाः । ए॒व । स॒मा॒नाना᳚म् । भ॒व॒न्ति॒ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥
पदसंख्या: 34