पञ्चशत् 1 #
अ॒ग्निना॒ तपोऽन्व॑भवद्-वा॒चा ब्रह्म॑ म॒णिना॑ रू॒पाणीन्द्रे॑ण दे॒वान् वाते॑न प्रा॒णान्थ् सूर्ये॑ण॒ द्यां च॒न्द्रम॑सा॒ नक्ष॑त्राणि य॒मेन॑ पि॒तॄन् राज्ञा᳚ मनु॒ष्या᳚न् फ॒लेन॑ नादे॒यान॑जग॒रेण॑ स॒र्पान् व्या॒घ्रेणा॑ऽऽ*र॒ण्यान् प॒शूञ्छ्ये॒नेन॑ पत॒त्रिणो॒ वृष्णाऽश्वा॑नृष॒भेण॒ गा ब॒स्तेना॒जा वृ॒ष्णिनाऽवी᳚र्व्री॒हिणाऽन्ना॑नि॒ यवे॒नौष॑धीर्न्य॒ग्रोधे॑न॒ वन॒स्पती॑नुदु॒बंरे॒णोर्जं॑ गायत्रि॒या छन्दाꣳ॑सि त्रि॒वृता॒ स्तोमा᳚न् ब्राह्म॒णेन॒ ( ) वाचं᳚ ॥
पदपाठः (Word-by-word)
अ॒ग्निना᳚ । तपः॑ । अन्विति॑ । अ॒भ॒व॒त् । वा॒चा । ब्रह्म॑ । म॒णिना᳚ । रू॒पाणि॑ । इन्द्रे॑ण । दे॒वान् । वाते॑न । प्रा॒णानिति॑ प्र - अ॒नान् । सूर्ये॑ण । द्याम् । च॒न्द्रम॑सा । नक्ष॑त्राणि । य॒मेन॑ । पि॒तॄन् । राज्ञा᳚ । म॒नु॒ष्यान्॑ । फ॒लेन॑ । ना॒दे॒यान् । अ॒ज॒ग॒रेण॑ । स॒र्पान् । व्या॒घ्रेण॑ । आ॒र॒ण्यान् । प॒शून् । श्ये॒नेन॑ । प॒त॒त्रिणः॑ । वृष्णा᳚ । अश्वान्॑ । ऋ॒ष॒भेण॑ । गाः । ब॒स्तेन॑ । अ॒जाः । वृ॒ष्णिना᳚ । अवीः᳚ । व्री॒हिणा᳚ । अन्ना॑नि । यवे॑न । ओष॑धीः । न्य॒ग्रोधे॑न । वन॒स्पतीन्॑ । उ॒दु॒म्बरे॑ण । ऊर्ज᳚म् । गा॒य॒त्रि॒या । छन्दाꣳ॑सि । त्रि॒वृतेति॑ त्रि - वृता᳚ । स्तोमान्॑ । ब्रा॒ह्म॒णेन॑ ( ) । वाच᳚म् ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथानुभूतीर्जुहोति - अग्निनेत्यादि ॥ अग्निना तपः ऊष्म अन्वभवत् अनुभवतु स्वीकरोतु यजमानः अग्न्यात्मा भूत्वा स्वसामर्थ्येन सर्वं तपो व्याप्नोतु । वाग्रूपो भूत्वा सर्वं ब्रह्म मन्त्रजातं अन्वभवदित्येव । एवं सर्वत्र । छान्दसो लङ् । मणिना रूपाणि रूपवन्ति । फलेन नादेयान् रसवतोऽर्थान् । नद्यादिभ्यो ढक् । उदुम्बवरेण ऊर्जं क्षीरवन्ति वस्तूति । ब्राह्मणेन वाचं वेदात्मिकाम् ॥
इति सप्तमे तृतीये चतुर्दशोनुवाकः ॥