तदा᳚प्नो॒-दिन्द्रो॑ वो य॒ती-स्तस्मा॒-दापो॒ अनु॑ स्थन ॥ अ॒प॒का॒मꣳ स्यन्द॑माना॒ अवी॑वरत वो॒ हिकं᳚ ।इन्द्रो॑ वः॒ शक्ति॑भि र्देवी॒-स्तस्मा॒द्-वार्णाम॑ वो हि॒तं ॥एको॑ दे॒वो अप्य॑तिष्ठ॒थ् स्यन्द॑माना यथा व॒शं । उदा॑निषु-र्म॒हीरिति॒ तस्मा॑-दुद॒क-मु॑च्यते ॥ आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर॒ग्नी-षोमौ॑ बिभ्र॒त्याप॒ इत् ताः । ती॒व्रो रसो॑ मधु॒पृचा॑ - [ ]
पदपाठः (Word-by-word)
तत् । आ॒प्नो॒त् । इन्द्रः॑ । वः॒ । य॒तीः । तस्मा᳚त् । आपः॑ । अन्विति॑ । स्थ॒न॒ ॥ अ॒प॒का॒ममित्य॑प - का॒मम् । स्यन्द॑मानाः । अवी॑वरत । वः॒ । हिक᳚म् ॥ इन्द्रः॑ । वः॒ । शक्ति॑भि॒रिति॒ शक्ति॑-भिः॒ । दे॒वीः॒ । तस्मा᳚त् । वाः । नाम॑ । वः॒ । हि॒तम् ॥ एकः॑ । दे॒वः । अपीति॑ । अ॒ति॒ष्ठ॒त् । स्यन्द॑मानाः । य॒था॒व॒शमिति॑ यथा - व॒शम् ॥ उदिति॑ । आ॒नि॒षुः॒ । म॒हीः । इति॑ । तस्मा᳚त् । उ॒द॒कम् । उ॒च्य॒ते॒ ॥ आपः॑ । भ॒द्राः । घृ॒तम् । इत् । आपः॑ । आ॒सुः॒ । अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ । बि॒भ्र॒ति॒ । आपः॑ । इत् । ताः ॥ ती॒व्रः । रसः॑ । म॒धु॒पृचा॒मिति॑ मधु-पृचा᳚म् ।