प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.6.1.4 TS 5.6.1.4
-मरंग॒म आ मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सा गन्न् ॥ आदित् प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्न॑ आसां । मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्.हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं ॅय॒दा वः॑ ॥ आपो॒ हि ष्ठा म॑यो॒ भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥ यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ( ) ॥ तस्मा॒ अरं ग॑माम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥
पदपाठः (Word-by-word)
अ॒र॒ङ्ग॒म इत्य॑रं - ग॒मः । एति॑ । मा॒ । प्रा॒णेनेति॑ प्र - अ॒नेन॑ । स॒ह । वर्च॑सा । ग॒न्न् ॥ आत् । इत् । प॒श्या॒मि॒ । उ॒त । वा॒ । शृ॒णो॒मि॒ । एति॑ । मा॒ । घोषः॑ । ग॒च्छ॒ति॒ । वाक् । नः॒ । आ॒सा॒म् ॥ मन्ये᳚ । भे॒जा॒नः । अ॒मृत॑स्य । तर्.हि॑ । हिर॑ण्यवर्णा॒ इति॒ हिर॑ण्य - व॒र्णाः॒ । अतृ॑पम् । य॒दा । वः॒ ॥ आपः॑ । हि । स्थ । म॒यो॒भुव॒ इति॑ मयः - भुवः॑ । ताः । नः॒ । ऊ॒र्जे । द॒धा॒त॒न॒ ॥ म॒हे । रणा॑य । चक्ष॑से ॥ यः । वः॒ । शि॒वत॑म॒ इति॑ शि॒व - त॒मः॒ । रसः॑ । तस्य॑ । भा॒ज॒य॒त॒ । इ॒ह । नः॒ ॥ उ॒श॒तीः । इ॒व॒ । मा॒तरः॑ ( ) ॥ तस्मै᳚ । अर᳚म् । ग॒मा॒म॒ । वः॒ । यस्य॑ । क्षया॑य । जिन्व॑थ ॥ आपः॑ । ज॒नय॑थ । च॒ । नः॒ ॥ दि॒वि । श्र॒य॒स्व॒ । अ॒न्तरि॑क्षे । य॒त॒स्व॒ । पृ॒थि॒व्या । समिति॑ । भ॒व॒ । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । अ॒सि॒ । ब्र॒ह्म॒व॒र्च॒सायेति॑ ब्रह्म - व॒र्च॒साय॑ । त्वा॒ ॥
पदसंख्या: 72