प्र॒जाप॑ति-र॒ग्नि-म॑चिनुत॒र्तुभिः॑ संॅवथ्स॒रं ॅव॑स॒न्तेनै॒वास्य॑ पूर्वा॒र्द्धम॑चिनुत ग्री॒ष्मेण॒ दक्षि॑णं प॒क्षं ॅव॒र्॒.षाभिः॒ पुच्छꣳ॑ श॒रदोत्त॑रं प॒क्षꣳ हे॑म॒न्तेन॒ मद्ध्यं॒ ब्रह्म॑णा॒ वा अ॑स्य॒ तत् पू᳚र्वा॒र्द्धम॑चिनुत क्ष॒त्रेण॒ दक्षि॑णं प॒क्षं प॒शुभिः॒ पुच्छं॑ ॅवि॒शोत्त॑रं प॒क्षमा॒शया॒ मद्ध्यं॒ ॅय ए॒वं ॅवि॒द्वान॒ग्निं चि॑नु॒त ऋ॒तुभि॑रे॒वैनं॑ चिनु॒तेऽथो॑ ए॒तदे॒व सर्व॒मव॑ - [ ]
पदपाठः (Word-by-word)
प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । अ॒ग्निम् । अ॒चि॒नु॒त॒ । ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । व॒स॒न्तेन॑ । ए॒व । अ॒स्य॒ । पू॒र्वा॒द्र्धमिति॑ पूर्व - अ॒द्र्धम् । अ॒चि॒नु॒त॒ । ग्री॒ष्मेण॑ । दक्षि॑णम् । प॒क्षम् । व॒र्॒.षाभिः॑ । पुच्छ᳚म् । श॒रदा᳚ । उत्त॑र॒मित्युत् - त॒र॒म् । प॒क्षम् । हे॒म॒न्तेन॑ । मद्ध्य᳚म् । ब्रह्म॑णा । वै । अ॒स्य॒ । तत् । पू॒र्वा॒द्र्धमिति॑ पूर्व - अ॒द्र्धम् । अ॒चि॒नु॒त॒ । क्ष॒त्रेण॑ । दक्षि॑णम् । प॒क्षम् । प॒शुभि॒रिति॑ प॒शु - भिः॒ । पुच्छ᳚म् । वि॒शा । उत्त॑र॒मित्युत् - त॒र॒म् । प॒क्षम् । आ॒शया᳚ । मद्ध्य᳚म् । यः । ए॒वम् । वि॒द्वान् । अ॒ग्निम् । चि॒नु॒ते । ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । ए॒व । ए॒न॒म् । चि॒नु॒ते॒ । अथो॒ इति॑ । ए॒तत् । ए॒व । सर्व᳚म् । अवेति॑ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 प्रजापतिरग्निमचिनुतेत्यादि ॥ संवत्सरमिति । सदृशप्रधानं यथा संवत्सरमृतुभिः स्पृष्टवानेवमग्निमपि ऋतुभिः वसन्तादिभिः अचिनुत । तत्प्रकारमाह - वसन्तेनैवेत्यादिना । तदृतुसमृद्धिप्रदत्वख्यापनाय स्तुतिरियम् ॥
2 इदानीं वसन्तादीनां सर्वार्थसाधनत्वं ख्यापयितुं द्वितीया स्तुतिः - ब्रह्मणा वा अस्येत्यादि ॥ वसन्तादिप्रधानत्वात् ब्राह्मणादीनां ब्राह्मणादिभिरेव अग्निश्चितो भवतीति प्रतिपादयति । आशा दिक्, बुद्धिर्वा तत्स्वभावा गृह्यन्ते । एवं विदित्वा चयने ऋतुभिरेव चितो भवति । अपि च एतत्सर्वं ब्राह्मणादिकमवरुन्धे विधेयीकरोति । ततश्शृण्वन्त्येनं अग्निं चितवन्तं अग्निश्चितोनेन महानुभावेनेति सर्वत्र ख्यातो भवति । पापेनापि ख्यातो भवति, यथा ग्रामो दग्धोनेन जाल्मेनेति; तत्राह - अन्नमत्त्यधिकं अस्यातिशयात् । किञ्च प्रजाभ्यो रोचते तेजस्व्येव भवति सर्वदा । समानवाक्ये पदात्परत्वान्निघाताभावः ॥
3 इयं वावेत्यादि ॥ पृथिव्यादिरूपेण प्रथमादीनां चितीनां चितिः ओषधिवनस्पत्यादिरूपेण च पुरीषाणाम् । यस्मादेवं तस्मात् यदिति । त्रिचितीकं चिन्वीत चतुर्थपञ्चमचित्यभावे तन्निमित्तं यज्ञं दक्षिणामात्मानं प्रजां चान्तरियात् विनाशयेत् । तस्मात्पञ्चचितीकश्चेतव्य इति । 'चितेः कपि' इति दीर्घत्वम् । पञ्चचितिकत्वे एतत् सर्वौषध्यादिकं यज्ञादिकं च स्पृणोति प्रीणयति रक्षतीत्यर्थः ॥
4 यत्तिस्र इति ॥ द्वित्वत्रित्वान्वयेनावयुत्य स्तुतिः । पञ्चेति । समुदायस्तुतिः । पङ्क्तिप्रभवः पाङ्कत्वादिति । पञ्चप्रभवत्वाद्वा । पङ्क्तिशब्द उत्सादिः ॥
5 पञ्च चितय इत्यादिना दशत्वं संपाद्य स्तौति । पुरीषैरभ्यूहनमुपरिछादनम् । दशाक्षर इति । अक्षराणां आत्मनो नव प्राणा अक्षराणि, नाभिर्दशमी । एवमेतैर्दशभिरक्षरैः तद्वान् पुरुषः । तस्माद्दशत्वान्वयात् सर्वमेवैनं पुरुषं स्पृणोति । अथो इत्यादि गतम् ॥
6 संवत्सरो वा इत्यादि ॥ द्वादशस्तुतिः । पुरीषमिति षष्ठम् । तस्माद्द्वादशमासात्मके संवत्सरे प्रतिष्ठितो भवति ॥
इति पञ्चमे षष्ठे दशमोनुवाकः ॥