रुन्धे शृ॒ण्वन्त्ये॑नम॒ग्निं चि॑क्या॒नमत्त्यन्नꣳ॒॒ रोच॑त इ॒यं ॅवाव प्र॑थ॒मा चिति॒रोष॑धयो॒ वन॒स्पत॑यः॒ पुरी॑षम॒न्तरि॑क्षं द्वि॒तीया॒ वयाꣳ॑सि॒ पुरी॑षम॒सौ तृ॒तीया॒ नक्ष॑त्राणि॒ पुरी॑षं ॅय॒ज्ञ्श्च॑तु॒र्थी दक्षि॑णा॒ पुरी॑षं॒ ॅयज॑मानः पञ्च॒मी प्र॒जा पुरी॑षं॒ ॅयत् त्रिचि॑तीकं चिन्वी॒त य॒ज्ञ्ं दक्षि॑णामा॒त्मानं॑ प्र॒जाम॒न्तरि॑या॒त् तस्मा॒त् पञ्च॑चितीकश्चेत॒व्य॑ ए॒तदे॒व सर्वꣳ॑ स्पृणोति॒ यत् ति॒स्रश्चित॑य - [ ]
पदपाठः (Word-by-word)
रु॒न्धे॒ । शृ॒ण्वन्ति॑ । ए॒न॒म् । अ॒ग्निम् । चि॒क्या॒नम् । अत्ति॑ । अन्न᳚म् । रोच॑ते । इ॒यम् । वाव । प्र॒थ॒मा । चितिः॑ । ओष॑धयः । वन॒स्पत॑यः । पुरी॑षम् । अ॒न्तरि॑क्षम् । द्वि॒तीया᳚ । वयाꣳ॑सि । पुरी॑षम् । अ॒सौ । तृ॒तीया᳚ । नक्ष॑त्राणि । पुरी॑षम् । य॒ज्ञ्ः । च॒तु॒र्थी । दक्षि॑णा । पुरी॑षम् । यज॑मानः । प॒ञ्च॒मी । प्र॒जेति॑ प्र - जा । पुरी॑षम् । यत् । त्रिचि॑तीक॒मिति॒ त्रि - चि॒ती॒क॒म् । चि॒न्वी॒त । य॒ज्ञ्म् । दक्षि॑णाम् । आ॒त्मान᳚म् । प्र॒जामिति॑ प्र - जाम् । अ॒न्तः । इ॒या॒त् । तस्मा᳚त् । पञ्च॑चितीक॒ इति॒ पञ्च॑ - चि॒ती॒कः॒ । चे॒त॒व्यः॑ । ए॒तत् । ए॒व । सर्व᳚म् । स्पृ॒णो॒ति॒ । यत् । ति॒स्रः । चित॑यः ।