रोहि॑तो धू॒म्ररो॑हितः क॒र्कन्धु॑रोहित॒स्ते प्रा॑जाप॒त्या ब॒भ्रुर॑रु॒णब॑भ्रुः॒ शुक॑बभ्रु॒स्ते रौ॒द्राः श्येतः॑ श्येता॒क्षः श्येत॑ग्रीव॒स्ते पि॑तृदेव॒त्या᳚स्ति॒स्रः कृ॒ष्णा व॒शा वा॑रु॒ण्य॑स्ति॒स्रः श्वे॒ता व॒शाः सौ॒र्यो॑ मैत्राबार्.हस्प॒त्या धू॒म्रल॑लामास्तूप॒राः ॥
पदपाठः (Word-by-word)
रोहि॑तः । धू॒म्ररो॑हित॒ इति॑ धू॒म्र - रो॒हि॒तः॒ । क॒र्कन्धु॑रोहित॒ इति॑ क॒र्कन्धु॑ - रो॒हि॒तः॒ । ते । प्रा॒जा॒प॒त्या इति॑ प्राजा - प॒त्याः । ब॒भ्रुः । अ॒रु॒णब॑भ्रु॒रित्य॑रु॒ण - ब॒भ्रुः॒ । शुक॑बभ्रु॒रिति॒ शुक॑ - ब॒भ्रुः॒ । ते । रौ॒द्राः । श्येतः॑ । श्ये॒ता॒क्ष इति॑ श्येत - अ॒क्षः । श्येत॑ग्रीव॒ इति॒ श्येत॑ - ग्री॒वः॒ । ते । पि॒तृ॒दे॒व॒त्या॑ इति॑ पितृ - दे॒व॒त्याः᳚ । ति॒स्रः । कृ॒ष्णाः । व॒शाः । वा॒रु॒ण्यः॑ । ति॒स्रः । श्वे॒ताः । व॒शाः । सौ॒र्यः॑ । मै॒त्रा॒बा॒र्.॒ह॒स्प॒त्या इति॑ मैत्रा - बा॒र्.॒ह॒स्प॒त्याः । धू॒म्रल॑लामा॒ इति॑ धू॒म्र - ल॒ला॒माः॒ । तू॒प॒राः ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथाश्वमेधिकाः पशवोष्टादशिनो विधीयन्ते । वैश्वदेवं काण्डम् । तत्र दशस्वनुवाकेषु प्रत्येकमष्टादश पशव उच्यन्ते । अष्टादशानां वर्णनियमोत्र क्रियते । आरण्येष्वष्टादशिषु जातिनियमः पञ्चमे कृतः । ग्राम्येषूभयथा नियमः 'सोमाय स्वराज्ञे' इत्यारभ्य द्वन्द्वादिषु वहुधा नियम इति । रोहितादयस्त्रयः प्राजापत्याः । रोहितः लोहितः । धूम्ररोहितः अस्पष्टलोहितः । 'वर्णो वर्णेन' इति समानाधिकरणत्वात् तत्पुरुषः, 'वर्णेवर्णेष्वनेते' इति पूर्वपदप्रकृतिस्वरत्वम् । कर्कन्धुरोहितः सौवीरवर्णः । 'उपमानानि सामान्यवचनैः' इति समासः । उपमानपूर्वपदप्रकृतिस्वरत्वम् । बभ्र्वादयस्त्रयो रौद्राः । बभ्रुः पाण्डरकपिलः । अरुणः न्यूनरक्तकपिलः । शुकबभ्रुः हरितशुकसमानवर्णः । ग्रामेकेतौ स्वरौ । श्येतादयस्त्रयः पितृदेवत्याः । श्येतः शुक्लवर्णः । शुक्लरक्त इत्येके । श्येताक्षः रक्तदृष्टिः । 'अक्षगोऽदर्शनात्' इत्यच् समासान्तः । सतिशिष्टत्वात् लिट्स्वरेण बहुव्रीहिस्वरो बाध्यते । श्येतग्रीवः । गतः । तिस्रः कृष्णा वशा वारुण्यः । गताः । 'तिसृभ्यो जसः' इति जस उदात्तत्वम् । एवं सर्वत्र । तिस्रः श्वेता वशाः सौर्यः । गताः । एवं धूम्रललामास्त्रयस्तूपराः मैत्रा बार्हस्पत्याः । धूम्रललामाः धूम्रवर्णपुण्ड्राः तूपराः शृङ्गहीनाः ॥
इति पञ्चमे षष्ठे एकादशोनुवाकः ॥