पृश्नि॑-स्तिर॒श्चीन॑-पृश्निरू॒र्द्ध्व-पृ॑श्नि॒स्ते मा॑रु॒ताः फ॒ल्गूर्लो॑हितो॒र्णी ब॑ल॒क्षी ताः सा॑रस्व॒त्यः॑ पृष॑ती स्थू॒लपृ॑षती क्षु॒द्रपृ॑षती॒ ता वै᳚श्वदे॒व्य॑स्ति॒स्रः श्या॒मा व॒शाः पौ॒ष्णिय॑स्ति॒स्रो रोहि॑णीर्व॒शा मै॒त्रिय॑ ऐन्द्राबार्.हस्प॒त्या अ॑रु॒णल॑लामास्तूप॒राः ॥
पदपाठः (Word-by-word)
पृश्निः॑ । ति॒र॒श्चीन॑पृश्नि॒रिति॑ तिर॒श्चीन॑ - पृ॒श्निः॒ । ऊ॒द्र्ध्वपृ॑श्नि॒रित्यू॒द्र्ध्व - पृ॒श्निः॒ । ते । मा॒रु॒ताः । फ॒ल्गूः । लो॒हि॒तो॒र्णीति॑ लोहित - ऊ॒र्णीः । ब॒ल॒क्षी । ताः । सा॒र॒स्व॒त्यः॑ । पृष॑ती । स्थू॒लपृ॑ष॒तीति॑ स्थू॒ल - पृ॒ष॒ती॒ । क्षु॒द्रपृ॑ष॒तीति॑ क्षु॒द्र-पृ॒ष॒ती॒ । ताः । वै॒श्व॒दे॒व्य॑ इति॑ वैश्व - दे॒व्यः॑ । ति॒स्रः । श्या॒माः । व॒शाः । पौ॒ष्णियः॑ । ति॒स्रः । रोहि॑णीः । व॒शाः । मै॒त्रियः॑ । ऐ॒न्द्रा॒बा॒र्.॒ह॒स्प॒त्या इत्यै᳚न्द्रा - बा॒र्.॒ह॒स्प॒त्याः । अ॒रु॒णल॑लामा॒ इत्य॑रु॒ण - ल॒ला॒माः॒ । तू॒प॒राः ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पृश्न्यादयस्त्रयो मारुताः ॥ पृश्निः शुक्रवर्णबिन्दुचितः चित्रवर्णः । तिरश्चीनपृश्रिः तिर्यक्प्रततवर्णः पृश्निवर्णः । एतेनोर्ध्वपृश्निर्व्याख्यातः । उभयत्रापि प्रधानेन वहुव्रीहिः । 'फल्ग्वादयस्तिस्रस्सारस्वत्यः । फल्गूः लवणवर्णः । लोहितोर्णी रोहितरोमा। छान्दसो ङीप् । सतिशिष्टेन प्रत्ययस्वरेण वहुव्रीहिस्वरः । बलक्षी शुक्ला । बवयोरेकत्वमिच्छन्ति । 'अन्यतो ङीप्' इति ङीप्, नोपधापेक्षमन्यत्वम् । पृषत्यादयस्त्रयो वैश्वदेव्यः । शुक्लैर्बिन्दुभिश्चिताः मध्यमैः न स्थूलैः न क्षुद्रैः । शतृवद्भावात् 'उगिद्वर्ण' इति ङीप् । स्थूलपृषती स्थूलानि पृषन्ति यस्याः । 'उगिद्वर्णग्रहणवर्जम्' इति तदन्तग्रहणाभ्यनुज्ञानात् 'उगितश्च' इति ङीप् । एवं क्षुद्रपृषती । तिस्रः श्यामाः वशाः पौष्ण्यः । गताः । तिस्रो रोहिणी वशा मैत्र्यः । 'वर्णादनुदात्तात्' इति ङीब्नकारौ, 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । अरुणललामास्त्रयस्तूपराः ऐन्द्राबार्हस्पत्याः । अरुणललामाः सन्ध्यावर्णपुण्ड्राः ॥
इति पञ्चमे षष्ठे द्वादशोनुवाकः ॥