प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.6.15.1 TS 5.6.15.1
क॒र्णास्त्रयो॑ या॒माः सौ॒म्यास्त्रयः॑ श्विति॒ङ्गा अ॒ग्नये॒ यवि॑ष्ठाय॒ त्रयो॑ नकु॒लास्ति॒स्रो रोहि॑णी॒स्त्र्यव्य॒स्ता वसू॑नां ति॒स्रो॑ऽरु॒णा दि॑त्यौ॒ह्य॑स्ता रु॒द्राणाꣳ॑ सोमै॒न्द्रा ब॒भ्रुल॑लामास्तूप॒राः ॥
पदपाठः (Word-by-word)
क॒र्णाः । त्रयः॑ । या॒माः । सौ॒म्याः । त्रयः॑ । श्वि॒ति॒ङ्गाः । अ॒ग्नये᳚ । यवि॑ष्ठाय । त्रयः॑ । न॒कु॒लाः । ति॒स्रः । रोहि॑णीः । त्र्यव्य॒ इति॑ त्रि - अव्यः॑ । ताः । वसू॑नाम् । ति॒स्रः । अ॒रु॒णाः । दि॒त्यौ॒ह्यः॑ । ताः । रु॒द्राणा᳚म् । सो॒मै॒न्द्रा इति॑ सोम - ऐ॒न्द्राः । ब॒भ्रुल॑लामा॒ इति॑ ब॒भ्रु - ल॒ला॒माः॒ । तू॒प॒राः ॥
पदसंख्या: 23
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 कर्णास्त्रयो यामाः । कर्णाः छिद्रकर्णाः । महाकर्णा इत्येके । मत्वर्थीयोकारः । सौम्यास्त्रयश्श्वितिङ्गाः श्वेतपादाः । अग्नये यविष्ठाय त्रयो नकुलाः नकुलवर्णाः । तिस्रो रोहिगीस्त्र्यव्यस्ता वसूनाम् । रोहिण्यो गताः । त्र्यव्यः अर्धवर्षाः, अविशब्देनान्नवाचिना षष्ठमासो लक्ष्यते, षष्ठे मास्यन्नं दीयत इति । समाहारतायामवयवस्वरनिवृत्तिः । बहुव्रीहिर्वा, व्यत्ययेन 'जसि च' इति गुणो न क्रियते, 'सर्वतोक्तिन्नर्थात्' इति वा ङीष् । व्यत्ययेन वा अनकारान्तादपि 'द्विगोः' इति ङीप्, 'परादिश्छन्दसि' इत्युत्तरपदान्तोदात्तत्वम् । तिस्रोऽरुणा दित्यौह्यस्ता रुद्राणाम् । अरुणा गताः । दित्यो वाहः तं वहन्तीति 'वहश्च' इति ण्विः, ऊठि सति 'वाहः' इति ङीष् । 'वाह ऊठ्' इत्यूठादेशः, 'एत्येधत्यूट्सु ' इति वृद्धिः । द्विवर्षा उच्यन्ते । बभ्रुललामास्त्रयस्तूपराः सोमेन्द्रा गताः ॥
इति पञ्चमे षष्ठे पञ्चदशोनुवाकः ॥