प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.6.18.1 TS 5.6.18.1
अदि॑त्यै॒ त्रयो॑ रोहितै॒ता इ॑न्द्रा॒ण्यै त्रयः॑ कृष्णै॒ताः कु॒ह्वै᳚ त्रयो॑ऽरुणै॒तास्ति॒स्रो धे॒नवो॑ रा॒कायै॒ त्रयो॑ऽन॒ड्वाहः॑ सिनीवा॒ल्या आ᳚ग्नावैष्ण॒वा रोहि॑तललामास्तूप॒राः ॥
पदपाठः (Word-by-word)
अदि॑त्यै । त्रयः॑ । रो॒हि॒तै॒ता इति॑ रोहित - ए॒ताः । इ॒न्द्रा॒ण्यै । त्रयः॑ । कृ॒ष्णै॒ता इति॑ कृष्ण - ए॒ताः । कु॒ह्वै᳚ । त्रयः॑ । अ॒रु॒णै॒ता इत्य॑रुण - ए॒ताः । ति॒स्रः । धे॒नवः॑ । रा॒कायै᳚ । त्रयः॑ । अ॒न॒ड्वाहः॑ । सि॒नी॒वा॒ल्यै । आ॒ग्ना॒वै॒ष्ण॒वा इत्या᳚ग्ना - वै॒ष्ण॒वाः । रोहि॑तललामा॒ इति॒ रोहि॑त - ल॒ला॒माः॒ । तू॒प॒राः ॥
पदसंख्या: 18
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अदित्यै त्रयो रोहितैताः ॥ रोहिताश्च ते एताश्चेति रोहितैताः । 'वर्णो वर्णेन' इति समासः । 'अनेतः' इति प्रतिषेधात् पूर्वपदप्रकृतिस्वराभाव उक्तः । इन्द्राण्यै त्रयः कृष्णैताः । तावेव स्वरसमासौ । कुह्वै त्रयोऽरुणैताः गताः । तिस्त्रो धेनवो राकायै धेनवः प्रत्यग्रप्रसवा गावः । त्रयोऽनड्वाहः सिनीवाल्यै । अनो वहन्तीत्यनड्वाहः अनोवहनसमर्थाः । पृषोदरादिः । लोहितललामाः त्रयस्तूपराः आग्नावैष्णवाः गताः ॥
इति पञ्चमे षष्ठे अष्टादशोनुवाकः ॥