अन्न॒मव॑ रुन्धे॒ पात्रा॑णि भवन्ति॒ पात्रे॒ वा अन्न॑मद्यते॒ सयो᳚न्ये॒वान्न॒मव॑ रुन्ध॒ आ द्वा॑द॒शात् पुरु॑षा॒दन्न॑-म॒त्त्यथो॒ पात्रा॒न्न छि॑द्यते॒ यस्यै॒ता उ॑पधी॒यन्ते य उ॑ चैना ए॒वं ॅवेद॑ कुं॒भाश्च॑ कुं॒भीश्च॑ मिथु॒नानि॑ भवन्ति मिथु॒नस्य॒ प्रजा᳚त्यै॒ प्र प्र॒जया॑ प॒शुभि॑-र्मिथु॒नै-र्जा॑यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ - [ ]
पदपाठः (Word-by-word)
अन्न᳚म् । अवेति॑ । रु॒न्धे॒ । पात्रा॑णि । भ॒व॒न्ति॒ । पात्रे᳚ । वै । अन्न᳚म् । अ॒द्य॒ते॒ । सयो॒नीति॒ स - यो॒नि॒ । ए॒व । अन्न᳚म् । अवेति॑ । रु॒न्धे॒ । एति॑ । द्वा॒द॒शात् । पुरु॑षात् । अन्न᳚म् । अ॒त्ति॒ । अथो॒ इति॑ । पात्रा᳚त् । न । छि॒द्य॒ते॒ । यस्य॑ । ए॒ताः । उ॒प॒धी॒यन्त॒ इत्यु॑प-धी॒यन्ते᳚ । यः । उ॒ । च॒ । ए॒नाः॒ । ए॒वम् । वेद॑ । कु॒भांः । च॒ । कु॒भींः । च॒ । मि॒थु॒नानि॑ । भ॒व॒न्ति॒ । मि॒थु॒नस्य॑ । प्रजा᳚त्या॒ इति॒ प्र - जा॒त्यै॒ । प्रेति॑ । प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु - भिः॒ । मि॒थु॒नैः । जा॒य॒ते॒ । यस्य॑ । ए॒ताः । उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । यः । उ॒ ।