चैना ए॒वं ॅवेद॒ शुग्वा अ॒ग्निः सो᳚ऽद्ध्व॒र्युं ॅयज॑मानं प्र॒जाः शु॒चाऽर्प॑यति॒ यद॒प उ॑प॒दधा॑ति॒ शुच॑मे॒वास्य॑ शमयति॒ नाऽऽ*र्ति॒मार्च्छ॑त्यद्ध्व॒र्युर्न यज॑मानः॒ शाम्य॑न्ति प्र॒जा यत्रै॒ता उ॑पधी॒यन्ते॒ ऽपां ॅवा ए॒तानि॒ हृद॑यानि॒ यदे॒ता आपो॒ यदे॒ता अ॒प उ॑प॒दधा॑ति दि॒व्याभि॑रे॒वैनाः॒ सꣳ सृ॑जति॒ वर्.षु॑कः प॒र्जन्यो॑ - [ ]
पदपाठः (Word-by-word)
च॒ । ए॒नाः॒ । ए॒वम् । वेद॑ । शुक् । वै । अ॒ग्निः । सः । अ॒द्ध्व॒र्युम् । यज॑मानम् । प्र॒जा इति॑ प्र - जाः । शु॒चा । अ॒र्प॒य॒ति॒ । यत् । अ॒पः । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । शुच᳚म् । ए॒व । अ॒स्य॒ । श॒म॒य॒ति॒ । न । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒ति॒ । अ॒द्ध्व॒र्युः । न । यज॑मानः । शाम्य॑न्ति । प्र॒जा इति॑ प्र - जाः । यत्र॑ । ए॒ताः । उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । अ॒पाम् । वै । ए॒तानि॑ । हृद॑यानि । यत् । ए॒ताः । आपः॑ । यत् । ए॒ताः । अ॒पः । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । दि॒व्याभिः॑ । ए॒व । ए॒नाः॒ । समिति॑ । सृ॒ज॒ति॒ । वर्.षु॑कः । प॒र्जन्यः॑ ।