प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.6.2.5 TS 5.6.2.5
भवति॒ यो वा ए॒तासा॑मा॒यत॑नं॒ क्लृप्तिं॒ ॅवेदा॒ऽऽ*यत॑नवान् भवति॒ कल्प॑ते ऽस्मा अनुसी॒तमुप॑ दधात्ये॒तद्वा आ॑सामा॒यत॑नमे॒षा क्लृप्ति॒र्य ए॒वं ॅवेदा॒ऽऽ*यत॑नवान् भवति॒ कल्प॑तेऽस्मै द्व॒द्वंम॒न्या उप॑ दधाति॒ चत॑स्रो॒ मद्ध्ये॒ धृत्या॒ अन्नं॒ ॅवा इष्ट॑का ए॒तत् खलु॒ वै सा॒क्षादन्नं॒ ॅयदे॒ष च॒रुर्यदे॒तं च॒रुमु॑प॒ दधा॑ति सा॒क्षा - [ ]
पदपाठः (Word-by-word)
भ॒व॒ति॒ । यः । वै । ए॒तासा᳚म् । आ॒यत॑न॒मित्या᳚ - यत॑नम् । क्लृप्ति᳚म् । वेद॑ । आ॒यत॑नवा॒नित्या॒यत॑न - वा॒न् । भ॒व॒ति॒ । कल्प॑ते । अ॒स्मै॒ । अ॒नु॒सी॒तमित्य॑नु - सी॒तम् । उपेति॑ । द॒धा॒ति॒ । ए॒तत् । वै । आ॒सा॒म् । आ॒यत॑न॒मित्या᳚ - यत॑नम् । ए॒षा । क्लृप्तिः॑ । यः । ए॒वम् । वेद॑ । आ॒यत॑नवा॒नित्या॒यत॑न - वा॒न् । भ॒व॒ति॒ । कल्प॑ते । अ॒स्मै॒ । द्व॒द्वंमिति॑ द्वं - द्वम् । अ॒न्याः । उपेति॑ । द॒धा॒ति॒ । चत॑स्रः । मद्ध्ये᳚ । धृत्यै᳚ । अन्न᳚म् । वै । इष्ट॑काः । ए॒तत् । खलु॑ । वै । सा॒क्षादिति॑ स-अ॒क्षात् । अन्न᳚म् । यत् । ए॒षः । च॒रुः । यत् । ए॒तम् । च॒रुम् । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । सा॒क्षादिति॑ स - अ॒क्षात् ।
पदसंख्या: 50