सोमा॑य स्व॒राज्ञे॑-ऽनोवा॒हाव॑न॒ड्वाहा॑-विन्द्रा॒ग्निभ्या॑-मोजो॒दाभ्या॒मुष्टा॑रा-विन्द्रा॒ग्निभ्यां᳚ बल॒दाभ्याꣳ॑ सीरवा॒हाववी॒ द्वे धे॒नू भौ॒मी दि॒ग्भ्यो वड॑बे॒ द्वे धे॒नू भौ॒मी वै॑रा॒जी पु॑रु॒षी द्वे धे॒नू भौ॒मी व॒यव॑ आरोहणवा॒हाव॑न॒ड्वाहौ॑ वारु॒णी कृ॒ष्णे व॒शे अ॑रा॒ड्यौ॑ दि॒व्यावृ॑ष॒भौ प॑रिम॒रौ ॥
पदपाठः (Word-by-word)
सोमा॑य । स्व॒राज्ञ्॒ इति॑ स्व - राज्ञे᳚ । अ॒नो॒वा॒हावित्य॑नः - वा॒हौ । अ॒न॒ड्वाहौ᳚ । इ॒न्द्रा॒ग्निभ्या॒मिती᳚न्द्रा॒ग्नि - भ्या॒म् । ओ॒जो॒दाभ्या॒मित्यो॑जः-दाभ्या᳚म् । उष्टा॑रौ । इ॒न्द्रा॒ग्निभ्या॒मिती᳚न्द्रा॒ग्नि-भ्या॒म् । ब॒ल॒दाभ्या॒मिति॑ बल - दाभ्या᳚म् । सी॒र॒वा॒हाविति॑ सीर - वा॒हौ । अवी॒ इति॑ । द्वे इति॑ । धे॒नू इति॑ । भौ॒मी इति॑ । दि॒ग्भ्य इति॑ दिक् - भ्यः । वड॑बे॒ इति॑ । द्वे इति॑ । धे॒नू इति॑ । भौ॒मी इति॑ । वै॒रा॒जी इति॑ । पु॒रु॒षी इति॑ । द्वे इति॑ । धे॒नू इति॑ । भौ॒मी इति॑ । वा॒यवे᳚ । आ॒रो॒ह॒ण॒वा॒हावित्या॑रोहण - वा॒हौ । अ॒न॒ड्वाहौ᳚ । वा॒रु॒णी इति॑ । कृ॒ष्णे इति॑ । व॒शे इति॑ । अ॒रा॒ड्यौ᳚ । दि॒व्यौ । ऋ॒ष॒भौ । प॒रि॒म॒राविति॑ परि - म॒रौ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 सोमाय स्वराज्ञेऽनोवाहावनड्वाहौ ॥ शकटस्य वोढारो पुङ्गवौ । इन्द्राग्निभ्यां ओजोदाभ्यां उष्टारौ प्रासङ्गस्य वोढारौ अनड्वाहौ । इन्द्राग्निभ्यां बलदाभ्यां सीरवाहौ हलस्य वोढारौ अनड्वाहौ । इन्दाग्निशब्दे 'देवताद्वन्द्वे च' इति प्राप्तस्य युगपत्प्रकृतिस्वरस्य 'नोत्तरपदेऽनुदात्तादौ' इनि प्रतिषेधः । अवी द्वे धेनू भौमी भूमिदेवत्ये । पूर्ववत् सवर्णदीर्घत्वम् । इन्द्राग्निभ्यामेवावी इति केचित् । दिग्भ्यो वडवे अश्वस्त्रियौ द्वे भौमी भौम्ये गते । वैराजी विरड्देवत्ये पुरुषी मनुष्यस्त्रियौ । जातिलक्षणो ङीप् । पूर्वत्र उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् । पुनर्धेनू भौमी गते । वायव आरोहणवाहौ मनुष्यादेवारोहणादेः वोढारौ । तत एवाण् । कृष्णे वशे वारुण्यौ गते । अराड्यौ दिव्यौ वृषभौ अराड्यौ दीर्घोच्छ्रितशृङ्गौ । दिव्यौ द्युदेवत्यौ । वृषभौ सेक्तारौ । परिमरौ परिमर्तारौ ययोः द्वयोः मृतानुजौ मृतपूर्व- जौ चोच्येते । 'परेरभितो भाविमण्डलं' इत्युत्तरपदान्तोदात्तत्वम् ॥
इति पञ्चमे षष्ठे एकविंशोनुवाकः ॥