प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.6.23.1 TS 5.6.23.1
पि॒शङ्गा॒स्त्रयो॑ वास॒न्ताः सा॒रङ्गा॒स्त्रयो॒ ग्रैष्माः॒ पृष॑न्त॒स्त्रयो॒ वार्.षि॑काः॒ पृश्न॑य॒स्त्रयः शार॒दाः पृ॑श्निस॒क्थास्त्रयो॒ हैम॑न्तिका अवलि॒प्तास्त्रयः॑ शैशि॒राः सं॑ॅवथ्स॒राय॒ निव॑क्षसः ॥स्पॆचिअल् कोर्वै fऒर् अनुवाकम् 12 तॊरोहि॑तः कृ॒ष्णा धू॒म्रल॑लामाः॒ - पृश्निः॑ श्या॒मा अ॑रु॒णल॑लामाः -शितिबा॒हुः शि॒ल्पाः श्येनीः᳚ श्या॒मल॑लामा - उन्न॒तः सि॒द्ध्मा धा॒त्रे पौ॒ष्णाः श्येत॑ललामाः - क॒र्णा ब॒भ्रुल॑लामाः - शु॒ण्ठा गौ॒रल॑लामा॒ - इन्द्रा॑य कृ॒ष्णाल॑लामा॒ - अदि॑त्यै॒ रोहि॑त ललामः -सौ॒म्या मा॒लङ्गा॑ - वारु॒णाः सू॒राः श्येत॑ललामा॒ - दश॑ ।
पदपाठः (Word-by-word)
पि॒शङ्गाः᳚ । त्रयः॑ । वा॒स॒न्ताः । सा॒रङ्गाः᳚ । त्रयः॑ । ग्रैष्माः᳚ । पृष॑न्तः । त्रयः॑ । वार्.षि॑काः । पृश्न॑यः । त्रयः॑ । शा॒र॒दाः । पृ॒श्नि॒स॒क्था इति॑ पृश्नि - स॒क्थाः । त्रयः॑ । हैम॑न्तिकाः । अ॒व॒लि॒प्ता इत्य॑व-लि॒प्ताः । त्रयः॑ । शै॒शि॒राः । सं॒ॅव॒थ्स॒रायेति॑ सं - व॒थ्स॒राय॑ । निव॑क्षस॒ इति॒ नि - व॒क्ष॒सः॒ ॥रोहि॑तः कृ॒ष्णा धू॒म्रल॑लामाः॒ - पृश्निः॑ श्या॒मा अ॑रु॒णल॑लामाः -शितिबा॒हुः शि॒ल्पाः श्येनीः᳚ श्या॒मल॑लामा - उन्न॒तः सि॒द्ध्मा धा॒त्रे पौ॒ष्णाः श्येत॑ललामाः - क॒र्णा ब॒भ्रुल॑लामाः - शु॒ण्ठा गौ॒रल॑लामा॒ - इन्द्रा॑य कृ॒ष्णाल॑लामा॒ - अदि॑त्यै॒ रोहि॑त ललामः -सौ॒म्या मा॒लङ्गा॑ - वारु॒णाः सू॒राः श्येत॑ललामा॒ - दश॑ ।
पदसंख्या: 20
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पिशङ्गादय क्रतुपशवः प्रत्यृतु त्रयस्त्रयः । 'सक्थञ्चाक्रान्तात्' इत्युत्तरपदान्तोदात्तत्वम् । हैमन्तिका इति । 'हेमन्ताच्च' इति ठञ् । अवलिप्ताः वर्णान्तरस्योपरि वर्णान्तरलिप्ताः । स्तब्धा इत्यन्ये । संवत्सराय निवक्षस आलभ्यते । निवक्षसः निम्नवक्षसः ॥
इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये पञ्चमे काण्डे षष्ठप्रश्ने त्रयोविंशोनुवाकः ॥

समाप्तश्च प्रपाठकः ॥

……………………………………………………………………………………………………………

प्रश्नः-7