-द्वा अ॒स्या अ॒मृतं॒ ॅयद्-वी॒र्यं॑ तद्-द॒र्भास्तस्मि॑न् जुहोति॒ प्रैव जा॑यते ऽन्ना॒दो भ॑वति॒ यस्यै॒वं जुह्व॑त्ये॒ता वै दे॒वता॑ अ॒ग्नेः पु॒रस्ता᳚द्भागा॒स्ता ए॒व प्री॑णा॒त्यथो॒ चक्षु॑रे॒वाग्नेः पु॒रस्ता॒त् प्रति॑ दधा॒त्यन॑न्धो भवति॒ य ए॒वं ॅवेदाऽऽ*पो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒थ् स प्र॒जाप॑तिः पुष्करप॒र्णे वातो॑ भू॒तो॑ऽलेलाय॒थ् सः - [ ]
पदपाठः (Word-by-word)
वै । अ॒स्याः । अ॒मृत᳚म् । यत् । वी॒र्य᳚म् । तत् । द॒र्भाः । तस्मिन्न्॑ । जु॒हो॒ति॒ । प्रेति॑ । ए॒व । जा॒य॒ते॒ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । भ॒व॒ति॒ । यस्य॑ । ए॒वम् । जुह्व॑ति । ए॒ताः । वै । दे॒वताः᳚ । अ॒ग्नेः । पु॒रस्ता᳚द्भागा॒ इति॑ पु॒रस्ता᳚त् - भा॒गाः॒ । ताः । ए॒व । प्री॒णा॒ति॒ । अथो॒ इति॑ । चक्षुः॑ । ए॒व । अ॒ग्नेः । पु॒रस्ता᳚त् । प्रतीति॑ । द॒धा॒ति॒ । अन॑न्धः । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑ । आपः॑ । वै । इ॒दम् । अग्रे᳚ । स॒लि॒लम् । आ॒सी॒त् । सः । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । पु॒ष्क॒र॒प॒र्ण इति॑ पुष्कर - प॒र्णे । वातः॑ । भू॒तः । अ॒ले॒ला॒य॒त् । सः ।