प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.6.4.3 TS 5.6.4.3
प्र॑ति॒ष्ठां नाऽवि॑न्दत॒ स ए॒तद॒पां कु॒लाय॑मपश्य॒त् तस्मि॑न्न॒ग्निम॑चिनुत॒ तदि॒यम॑भव॒त् ततो॒ वै स प्रत्य॑तिष्ठ॒द्यां पु॒रस्ता॑दु॒पा-द॑धा॒त् तच्छिरो॑ ऽभव॒थ् सा प्राची॒ दिग्यां द॑क्षिण॒त उ॒पाद॑धा॒थ् स दक्षि॑णः प॒क्षो॑ऽभव॒थ् सा द॑क्षि॒णा दिग्यां प॒श्चा-दु॒पाद॑धा॒त् तत् पुच्छ॑मभव॒थ् सा प्र॒तीची॒ दिग्यामु॑त्तर॒त उ॒पाद॑धा॒थ् - [ ]
पदपाठः (Word-by-word)
प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । न । अ॒वि॒न्द॒त॒ । सः । ए॒तत् । अ॒पाम् । कु॒लाय᳚म् । अ॒प॒श्य॒त् । तस्मिन्न्॑ । अ॒ग्निम् । अ॒चि॒नु॒त॒ । तत् । इ॒यम् । अ॒भ॒व॒त् । ततः॑ । वै । सः । प्रतीति॑ । अ॒ति॒ष्ठ॒त् । याम् । पु॒रस्ता᳚त् । उ॒पाद॑धा॒दित्यु॑प - अद॑धात् । तत् । शिरः॑ । अ॒भ॒व॒त् । सा । प्राची᳚ । दिक् । याम् । द॒क्षि॒ण॒तः । उ॒पाद॑धा॒दित्यु॑प - अद॑धात् । सः । दक्षि॑णः । प॒क्षः । अ॒भ॒व॒त् । सा । द॒क्षि॒णा । दिक् । याम् । प॒श्चात् । उ॒पाद॑धा॒दित्यु॑प-अद॑धात् । तत् । पुच्छ᳚म् । अ॒भ॒व॒त् । सा । प्र॒तीची᳚ । दिक् । याम् । उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । उ॒पाद॑धा॒दित्यु॑प - अद॑धात् ।
पदसंख्या: 50