ति॑ष्ठत्य॒भि दिशो॑ जयत्याग्ने॒यो वै ब्रा᳚ह्म॒णस्तस्मा᳚द्-ब्राह्म॒णाय॒ सर्वा॑सु दि॒क्ष्वर्द्धु॑कꣳ॒॒ स्वामे॒व तद्-दिश॒मन्वे᳚त्य॒पां ॅवा अ॒ग्निः कु॒लायं॒ तस्मा॒दापो॒ऽग्निꣳ हारु॑काः॒ स्वामे॒व तद्-योनिं॒ प्रवि॑शन्ति ॥
पदपाठः (Word-by-word)
ति॒ष्ठ॒ति॒ । अ॒भीति॑ । दिशः॑ । ज॒य॒ति॒ । आ॒ग्ने॒यः । वै । ब्रा॒ह्म॒णः । तस्मा᳚त् । ब्रा॒ह्म॒णाय॑ । सर्वा॑सु । दि॒क्षु । अद्र्धु॑कम् । स्वाम् । ए॒व । तत् । दिश᳚म् । अन्विति॑ । ए॒ति॒ । अ॒पाम् । वै । अ॒ग्निः । कु॒लाय᳚म् । तस्मा᳚त् । आपः॑ । अ॒ग्निम् । हारु॑काः । स्वाम् । ए॒व । तत् । योनि᳚म् । प्रेति॑ । वि॒श॒न्ति॒ ॥