मासाः᳚ संॅवथ्स॒रः सं॑ॅवथ्स॒रो वि॒राड् वि॒राज॑माप्नोति॒ पञ्च॑दश॒ रात्री᳚र्दीक्षि॒तः स्या॒त् पञ्च॑दश॒ वा अ॑र्द्धमा॒सस्य॒ रात्र॑योऽर्द्धमास॒शः सं॑ॅवथ्स॒र आ᳚प्यते संॅवथ्स॒रो वि॒राड् वि॒राज॑माप्नोति स॒प्तद॑श॒ रात्री᳚र्दीक्षि॒तः स्या॒द् द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॒ स सं॑ॅवथ्स॒रः सं॑ॅवथ्स॒रो वि॒राड् वि॒राज॑माप्नोति॒ चतु॑र्विꣳशतिꣳ॒॒ रात्री᳚र्दीक्षि॒तः स्या॒-च्चतु॑र्विꣳशतिरर्द्धमा॒साः सं॑ॅवथ्स॒रः सं॑ॅवथ्स॒रो वि॒राड् वि॒राज॑माप्नोति त्रिꣳ॒॒शतꣳ॒॒ रात्री᳚र्दीक्षि॒तः स्या᳚त् - [ ]
पदपाठः (Word-by-word)
मासाः᳚ । सं॒ॅव॒थ्स॒र इति॑ सं-व॒थ्स॒रः । सं॒ॅव॒थ्स॒र इति॑ सं-व॒थ्स॒रः । वि॒राडिति॑ वि - राट् । वि॒राज॒मिति॑ वि - राज᳚म् । आ॒प्नो॒ति॒ । पञ्च॑द॒शेति॒ पञ्च॑ - द॒श॒ । रात्रीः᳚ । दी॒क्षि॒तः । स्या॒त् । पञ्च॑द॒शेति॒ पञ्च॑ - द॒श॒ । वै । अ॒द्र्ध॒मा॒सस्येत्य॒॑द्र्ध - मा॒सस्य॑ । रात्र॑यः । अ॒द्र्ध॒मा॒स॒श इत्य॒॑द्र्धमास - शः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । आ॒प्य॒ते॒ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वि॒राडिति॑ वि - राट् । वि॒राज॒मिति॑ वि - राज᳚म् । आ॒प्नो॒ति॒ । स॒प्तद॒शेति॑ स॒प्त - द॒श॒ । रात्रीः᳚ । दी॒क्षि॒तः । स्या॒त् । द्वाद॑श । मासाः᳚ । पञ्च॑ । ऋ॒तवः॑ । सः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वि॒राडिति॑ वि - राट् । वि॒राज॒मिति॑ वि - राज᳚म् । आ॒प्नो॒ति॒ । चतु॑र्विꣳशति॒मिति॒ चतुः॑ - विꣳ॒॒श॒ति॒म् । रात्रीः᳚ । दी॒क्षि॒तः । स्या॒त् । चतु॑र्विꣳशति॒रिति॒ चतुः॑ - विꣳ॒॒श॒तिः॒ । अ॒द्र्ध॒मा॒सा इत्य॑द्र्ध-मा॒साः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वि॒राडिति॑ वि - राट् । वि॒राज॒मिति॑ वि - राज᳚म् । आ॒प्नो॒ति॒ । त्रिꣳ॒॒शत᳚म् । रात्रीः᳚ । दी॒क्षि॒तः । स्या॒त् ।