त्रिꣳ॒॒शद॑क्षरा वि॒राड् वि॒राज॑माप्नोति॒ मासं॑ दीक्षि॒तः स्या॒द्-यो मासः॒ स सं॑ॅवथ्स॒रः सं॑ॅवथ्स॒रो वि॒राड् वि॒राज॑माप्नोति च॒तुरो॑ मा॒सो दी᳚क्षि॒तः स्या᳚च्च॒तुरो॒ वा ए॒तं मा॒सो वस॑वोऽबिभरु॒स्ते पृ॑थि॒वीमाऽज॑यन् गाय॒त्रीं छन्दो॒ऽष्टौ रु॒द्रास्ते᳚-ऽन्तरि॑क्ष॒माऽज॑यन् त्रि॒ष्टुभं॒ छन्दो॒ द्वाद॑शा-ऽऽदि॒त्यास्ते दिव॒माऽज॑य॒न् जग॑तीं॒ छन्द॒स्ततो॒ वै ते ( ) व्या॒वृत॑-मगच्छ॒ञ्छ्रैष्ठ्यं॑ दे॒वानां॒ तस्मा॒द् द्वाद॑श मा॒सो भृ॒त्वाऽग्निं चि॑न्वीत॒ द्वाद॑श॒ मासाः᳚ संॅवथ्स॒रः सं॑ॅवथ्स॒रो᳚ -ऽग्निश्चित्य॒स्तस्या॑-होरा॒त्राणीष्ट॑का आ॒प्तेष्ट॑कमेनं चिनु॒तेऽथो᳚ व्या॒वृत॑मे॒व ग॑च्छति॒ श्रैष्ठ्यꣳ॑ समा॒नानां᳚ ॥
पदपाठः (Word-by-word)
त्रिꣳ॒॒शद॑क्ष॒रेति॑ त्रिꣳ॒॒शत् - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । वि॒राज॒मिति॑ वि - राज᳚म् । आ॒प्नो॒ति॒ । मास᳚म् । दी॒क्षि॒तः । स्या॒त् । यः । मासः॑ । सः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वि॒राडिति॑ वि - राट् । वि॒राज॒मिति॑ वि - राज᳚म् । आ॒प्नो॒ति॒ । च॒तुरः॑ । मा॒सः । दी॒क्षि॒तः । स्या॒त् । च॒तुरः॑ । वै । ए॒तम् । मा॒सः । वस॑वः । अ॒बि॒भ॒रुः॒ । ते । पृ॒थि॒वीम् । एति॑ । अ॒ज॒य॒न्न् । गा॒य॒त्रीम् । छन्दः॑ । अ॒ष्टौ । रु॒द्राः । ते । अ॒न्तरि॑क्षम् । एति॑ । अ॒ज॒य॒न्न् । त्रि॒ष्टुभ᳚म् । छन्दः॑ । द्वाद॑श । आ॒दि॒त्याः । ते । दिव᳚म् । एति॑ । अ॒ज॒य॒न्न् । जग॑तीम् । छन्दः॑ । ततः॑ । वै । ते ( ) । व्या॒वृत॒मिति॑ वि - आ॒वृत᳚म् । अ॒ग॒च्छ॒न्न् । श्रैष्ठ्य᳚म् । दे॒वाना᳚म् । तस्मा᳚त् । द्वाद॑श । मा॒सः । भृ॒त्वा । अ॒ग्निम् । चि॒न्वी॒त॒ । द्वाद॑श । मासाः᳚ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । अ॒ग्निः । चित्यः॑ । तस्य॑ । अ॒हो॒रा॒त्राणीत्य॑हः - रा॒त्राणि॑ । इष्ट॑काः । आ॒प्तेष्ट॑क॒मित्या॒प्त-इ॒ष्ट॒क॒म् । ए॒न॒म् । चि॒नु॒ते॒ । अथो॒ इति॑ । व्या॒वृत॒मिति॑ वि - आ॒वृत᳚म् । ए॒व । ग॒च्छ॒ति॒ । श्रैष्ठ्य᳚म् । स॒मा॒नाना᳚म् ॥