पुरु॑ष आ॒त्मा च॒ शिर॑श्च च॒त्वार्यङ्गा᳚न्या॒त्मन्ने॒वैनं॑ बिभर्ति प्र॒जाप॑ति॒र्वा ए॒ष यद॒ग्निस्तस्यो॒खा चो॒लूख॑लं च॒ स्तनौ॒ ताव॑स्य प्र॒जा उप॑ जीवन्ति॒ यदु॒खां चो॒लूख॑लं चोप॒दधा॑ति॒ ताभ्या॑मे॒व यज॑मानो॒ऽमुष्मि॑न् ॅलो॒के᳚ऽग्निं दु॑हे संॅवथ्स॒रो वा ए॒ष यद॒ग्निस्तस्य॑ त्रेधाविहि॒ता इष्ट॑काः प्राजाप॒त्या वै᳚ष्ण॒वी - [ ]
पदपाठः (Word-by-word)
पुरु॑षः । आ॒त्मा । च॒ । शिरः॑ । च॒ । च॒त्वारि॑ । अङ्गा॑नि । आ॒त्मन्न् । ए॒व । ए॒न॒म् । बि॒भ॒र्ति॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । वै । ए॒षः । यत् । अ॒ग्निः । तस्य॑ । उ॒खा । च॒ । उ॒लूख॑लम् । च॒ । स्तनौ᳚ । तौ । अ॒स्य॒ । प्र॒जा इति॑ प्र - जाः । उपेति॑ । जी॒व॒न्ति॒ । यत् । उ॒खाम् । च॒ । उ॒लूख॑लम् । च॒ । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । ताभ्या᳚म् । ए॒व । यज॑मानः । अ॒मुष्मिन्न्॑ । लो॒के । अ॒ग्निम् । दु॒हे॒ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वै । ए॒षः । यत् । अ॒ग्निः । तस्य॑ । त्रे॒धा॒वि॒हि॒ता इति॑ त्रेधा - वि॒हि॒ताः । इष्ट॑काः । प्रा॒जा॒प॒त्या इति॑ प्राजा - प॒त्याः॒ । वै॒ष्ण॒वीः ।