प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.6.9.3 TS 5.6.9.3
-र्वै᳚श्वकर्म॒णी-र॑होरा॒त्राण्ये॒वास्य॑ प्राजाप॒त्या यदुख्यं॑ बि॒भर्ति॑ प्राजाप॒त्या ए॒व तदुप॑ धत्ते॒ यथ् स॒मिध॑ आ॒दधा॑ति वैष्ण॒वा वै वन॒स्पत॑यो वैष्ण॒वीरे॒व तदुप॑ धत्ते॒ यदिष्ट॑काभिर॒ग्निं चि॒नोती॒यं ॅवै वि॒श्वक॑र्मा वैश्वकर्म॒णीरे॒व तदुप॑ धत्ते॒ तस्मा॑-दाहु-स्त्रि॒वृद॒ग्निरिति॒ तं ॅवा ए॒तं ॅयज॑मान ए॒व चि॑न्वीत॒ यद॑स्या॒न्य ( ) श्चि॑नु॒याद्यत् तं दक्षि॑णाभि॒र्न रा॒धये॑द॒ग्निम॑स्य वृञ्जीत॒ यो᳚ऽस्या॒ऽग्निं चि॑नु॒यात् तं दक्षि॑णाभी राधयेद॒ग्निमे॒व तथ् स्पृ॑णोति ॥
पदपाठः (Word-by-word)
वै॒श्व॒क॒र्म॒णीरिति॑ वैश्व - क॒र्म॒णीः । अ॒हो॒रा॒त्राणीत्य॑हः - रा॒त्राणि॑ । ए॒व । अ॒स्य॒ । प्रा॒जा॒प॒त्या इति॑ प्राजा - प॒त्याः । यत् । उख्य᳚म् । बि॒भर्ति॑ । प्रा॒जा॒प॒त्या इति॑ प्राजा-प॒त्याः । ए॒व । तत् । उपेति॑ । ध॒त्ते॒ । यत् । स॒मिध॒ इति॑ सं - इधः॑ । आ॒दधा॒तीत्या᳚ - दधा॑ति । वै॒ष्ण॒वाः । वै । वन॒स्पत॑यः । वै॒ष्ण॒वीः । ए॒व । तत् । उपेति॑ । ध॒त्ते॒ । यत् । इष्ट॑काभिः । अ॒ग्निम् । चि॒नोति॑ । इ॒यम् । वै । वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ । वै॒श्व॒क॒र्म॒णीरिति॑ वैश्व - क॒र्म॒णीः । ए॒व । तत् । उपेति॑ । ध॒त्ते॒ । तस्मा᳚त् । आ॒हुः॒ । त्रि॒वृदिति॑ त्रि - वृत् । अ॒ग्निः । इति॑ । तम् । वै । ए॒तम् । यज॑मानः । ए॒व । चि॒न्वी॒त॒ । यत् । अ॒स्य॒ । अ॒न्यः ( ) । चि॒नु॒यात् । यत् । तम् । दक्षि॑णाभिः । न । रा॒धये᳚त् । अ॒ग्निम् । अ॒स्य॒ । वृ॒ञ्जी॒त॒ । यः । अ॒स्य॒ । अ॒ग्निम् । चि॒नु॒यात् । तम् । दक्षि॑णाभिः । रा॒ध॒ये॒त् । अ॒ग्निम् । ए॒व । तत् । स्पृ॒णो॒ति॒ ॥
पदसंख्या: 70