भ॑व-त्य॒न्नाद्य॒स्या-व॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायन्त एकविꣳ॒॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वाऽऽत्मन् द॑धते त्रिण॒वो भ॑वति॒ विजि॑त्यै त्रयस्त्रिꣳ॒॒शो भ॑वति॒ प्रति॑ष्ठित्यै सदोहविर्द्धा॒निन॑ ए॒तेन॑ षड्-रा॒त्रेण॑ यजेर॒न्नाश्व॑त्थी हवि॒र्द्धानं॒ चाऽऽ*ग्नी᳚द्ध्रं च भवत॒स्तद्धि सु॑व॒र्ग्यं॑ च॒क्रीव॑ती भवतः सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्या उ॒लूख॑लबुद्ध्नो॒ यूपो॑ भवति॒ प्रति॑ष्ठित्यै॒ प्राञ्चो॑ यान्ति॒ प्राङि॑व॒ हि सु॑व॒र्गो - [ ]
पदपाठः (Word-by-word)
भ॒व॒ति॒ । अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । अथो॒ इति॑ । प्रेति॑ । ए॒व । तेन॑ । जा॒य॒न्ते॒ । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । भ॒व॒ति॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । अथो॒ इति॑ । रुच᳚म् । ए॒व । आ॒त्मन्न् । द॒ध॒ते॒ । त्रि॒ण॒व इति॑ त्रि - न॒वः । भ॒व॒ति॒ । विजि॑त्या॒ इति॒ वि - जि॒त्यै॒ । त्र॒य॒स्त्रिꣳ॒॒श इति॑ त्रयः - त्रिꣳ॒॒शः । भ॒व॒ति॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । स॒दो॒ह॒वि॒द्र्धा॒निन॒ इति॑ सदः - ह॒वि॒द्र्धा॒निनः॑ । ए॒तेन॑ । ष॒ड्रा॒त्रेणेति॑ षट् - रा॒त्रेण॑ । य॒जे॒र॒न्न् । आश्व॑त्थी॒ इति॑ । ह॒वि॒द्र्धान॒मिति॑ हविः - धान᳚म् । च॒ । आग्नी᳚द्ध्र॒मित्याग्नि॑-इ॒द्ध्र॒म् । च॒ । भ॒व॒तः॒ । तत् । हि । सु॒व॒र्ग्य॑मिति॑ सुवः - ग्य᳚म् । च॒क्रीव॑ती॒ इति॑ । भ॒व॒तः॒ । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । सम॑ष्ट्या॒ इति॒ सं-अ॒ष्ट्यै॒ । उ॒लूख॑लबुद्ध्न॒ इत्यु॒लूख॑ल - बु॒द्ध्नः॒ । यूपः॑ । भ॒व॒ति॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । प्राञ्चः॑ । या॒न्ति॒ । प्राङ् । इ॒व॒ । हि । सु॒व॒र्ग इति॑ सुवः - गः ।