प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.2.1.4 TS 7.2.1.4
लो॒कः सर॑स्वत्या यान्त्ये॒ष वै दे॑व॒यानः॒ पन्था॒स्त-मे॒वा-न्वारो॑हन्त्या॒क्रोश॑न्तो या॒न्त्यव॑र्ति-मे॒वान्यस्मि॑न् प्रति॒षज्य॑ प्रति॒ष्ठां ग॑च्छन्ति य॒दा दश॑ श॒तं कु॒र्वन्त्यथैक॑-मु॒त्थानꣳ॑ श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्ति य॒दा श॒तꣳ स॒हस्रं॑ कु॒र्वन्त्यथैक॑-मु॒त्थानꣳ॑ स॒हस्र॑संमितो॒ वा अ॒सौ लो॒को॑ऽमुमे॒व लो॒कम॒भि ज॑यन्ति य॒दै ( ) -षां᳚ प्र॒मीये॑त य॒दा वा॒ जीये॑र॒न्नथैक॑-मु॒त्थानं॒ तद्धि ती॒र्थं ॥
पदपाठः (Word-by-word)
लो॒कः । सर॑स्वत्या । या॒न्ति॒ । ए॒षः । वै । दे॒व॒यान॒ इति॑ देव-यानः॑ । पन्थाः᳚ । तम् । ए॒व । अ॒न्वारो॑ह॒न्तीत्य॑नु - आरो॑हन्ति । आ॒क्रोश॑न्त॒ इत्या᳚ - क्रोश॑न्तः । या॒न्ति॒ । अव॑र्तिम् । ए॒व । अ॒न्यस्मिन्न्॑ । प्र॒ति॒षज्येति॑ प्रति - सज्य॑ । प्र॒ति॒ष्ठामिति॑ प्रति-स्थाम् । ग॒च्छ॒न्ति॒ । य॒दा । दश॑ । श॒तम् । कु॒र्वन्ति॑ । अथ॑ । एक᳚म् । उ॒त्थान॒मित्यु॑त्-स्थान᳚म् । श॒तायु॒रिति॑ श॒त - आ॒युः॒ । पुरु॑षः । श॒तेन्द्रि॑य॒ इति॑ श॒त-इ॒न्द्रि॒यः॒ । आयु॑षि । ए॒व । इ॒न्द्रि॒ये । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । य॒दा । श॒तम् । स॒हस्र᳚म् । कु॒र्वन्ति॑ । अथ॑ । एक᳚म् । उ॒त्थान॒मित्यु॑त्- स्थान᳚म् । स॒हस्र॑संमित॒ इति॑ स॒हस्र॑-स॒म्मि॒तः॒ । वै । अ॒सौ । लो॒कः । अ॒मुम् । ए॒व । लो॒कम् । अ॒भीति॑ । ज॒य॒न्ति॒ । य॒दा ( ) । ए॒षा॒म् । प्र॒मीये॒तेति॑ प्र - मीये॑त । य॒दा । वा॒ । जीये॑रन्न् । अथ॑ । एक᳚म् । उ॒त्थान॒मित्यु॑त् - स्थान᳚म् । तत् । हि । ती॒र्थम् ॥
पदसंख्या: 61