मलं॑ जायत॒ एक॑ ए॒व य॑जे॒तैको॒ हि प्र॒जाप॑ति॒रार्द्ध्नो॒द् द्वाद॑श॒ रात्री᳚र्दीक्षि॒तः स्या॒द् द्वाद॑श॒ मासाः᳚ संॅवथ्स॒रः सं॑ॅवथ्स॒रः प्र॒जाप॑तिः प्र॒जाप॑ति॒र्वावैष ए॒ष ह॒ त्वै जा॑यते॒ यस्तप॒सोऽधि॒ जाय॑ते चतु॒र्द्धा वा ए॒तास्ति॒स्रस्ति॑स्रो॒ रात्र॑यो॒ यद् द्वाद॑शोप॒सदो॒ याः प्र॑थ॒मा य॒ज्ञ्ं ताभिः॒ सं भ॑रति॒ या द्वि॒तीया॑ य॒ज्ञ्ं ताभि॒रा र॑भते॒ - [ ]
पदपाठः (Word-by-word)
मल᳚म् । जा॒य॒ते॒ । एकः॑ । ए॒व । य॒जे॒त॒ । एकः॑ । हि । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । आद्र्ध्नो᳚त् । द्वाद॑श । रात्रीः᳚ । दी॒क्षि॒तः । स्या॒त् । द्वाद॑श । मासाः᳚ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । वाव । ए॒षः । ए॒षः । ह॒ । तु । वै । जा॒य॒ते॒ । यः । तप॑सः । अधीति॑ । जाय॑ते । च॒तु॒द्र्धेति॑ चतुः - धा । वै । ए॒ताः । ति॒स्रस्ति॑स्र॒ इति॑ ति॒स्रः-ति॒स्रः॒ । रात्र॑यः । यत् । द्वाद॑श । उ॒प॒सद॒ इत्यु॑प - सदः॑ । याः । प्र॒थ॒माः । य॒ज्ञ्म् । ताभिः॑ । समिति॑ । भ॒र॒ति॒ । याः । द्वि॒तीयाः᳚ । य॒ज्ञ्म् । ताभिः॑ । एति॑ । र॒भ॒ते॒ ।