प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.2.15.1 TS 7.2.15.1
च॒तुर्भ्यः॒ स्वाहा᳚ ऽष्टा॒भ्यः स्वाहा᳚ द्वाद॒शभ्यः॒ स्वाहा॑ षोड॒शभ्यः॒ स्वाहा॑ विꣳश॒त्यै स्वाहा॒ षण्ण॑वत्यै॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
च॒तुर्भ्य॒ इति॑ च॒तुः - भ्यः॒ । स्वाहा᳚ । अ॒ष्टा॒भ्यः । स्वाहा᳚ । द्वा॒द॒शभ्य॒ इति॑ द्वाद॒श - भ्यः॒ । स्वाहा᳚ । षो॒ड॒शभ्य॒ इति॑ षोड॒श - भ्यः॒ । स्वाहा᳚ । विꣳ॒॒श॒त्यै । स्वाहा᳚ । षण्ण॑वत्या॒ इति॒ षट्-न॒व॒त्यै॒ । स्वाहा᳚ । श॒ताय॑ । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
पदसंख्या: 16
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ चतुरादिचतुरुत्तरा युग्मा गृह्यन्ते - चतुर्भ्य इत्यादि ॥ विंशत्यन्तानां ग्रहणं उपात्तस्य चतुष्कपञ्चकस्य विंशत्यन्तरेऽप्यविशिष्टत्वात् । षण्णवतिग्रहणं यावच्छतमव्यवच्छेदेन चतुष्कान्वयप्रदर्शनार्थं चतुर्भिश्शतपूरणख्यापनार्यं च ॥
इति सप्तमे द्वितीये पञ्चदशोनुवाकः ॥