प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.2.20.1 TS 7.2.20.1
श॒ताय॒ स्वाहा॑ स॒हस्रा॑य॒ स्वाहा॒ ऽयुता॑य॒ स्वाहा॑ नि॒युता॑य॒ स्वाहा᳚ प्र॒युता॑य॒ स्वाहा ऽर्बु॑दाय॒ स्वाहा॒ न्य॑र्बुदाय॒ स्वाहा॑ समु॒द्राय॒ स्वाहा॒ मद्ध्या॑य॒ स्वाहा ऽन्ता॑य॒ स्वाहा॑ परा॒र्द्धाय॒ स्वाहो॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहो॑देष्य॒ते स्वाहो᳚द्य॒ते स्वाहोदि॑ताय॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
श॒ताय॑ । स्वाहा᳚ । स॒हस्रा॑य । स्वाहा᳚ । अ॒युता॑य । स्वाहा᳚ । नि॒युता॒येति॑ नि - युता॑य । स्वाहा᳚ । प्र॒युता॒येति॑ प्र - युता॑य । स्वाहा᳚ । अर्बु॑दाय । स्वाहा᳚ । न्य॑र्बुदा॒येति॒ नि - अ॒र्बु॒दा॒य॒ । स्वाहा᳚ । स॒मु॒द्राय॑ । स्वाहा᳚ । मद्ध्या॑य । स्वाहा᳚ । अन्ता॑य । स्वाहा᳚ । प॒रा॒द्‌र्धायेति॑ पर-अ॒द्‌र्धाय॑ । स्वाहा᳚ । उ॒षसे᳚ । स्वाहा᳚ । व्यु॑ष्ट्या॒ इति॒ वि - उ॒ष्ट्यै॒ । स्वाहा᳚ । उ॒दे॒ष्य॒त इत्यु॑त् - ए॒ष्य॒ते । स्वाहा᳚ । उ॒द्य॒त इत्यु॑त् - य॒ते । स्वाहा᳚ । उदि॑ता॒येत्युत् - इ॒ता॒य॒ । स्वाहा᳚ । सु॒व॒र्गायेति॑ सुवः-गाय॑ । स्वाहा᳚ । लो॒काय॑ । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
पदसंख्या: 38
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)

अधुना परार्ध्यात् शतात् दशोत्तरस्थानावगाहिनीं संख्यावृद्धिं दर्शयति - शतायेति ॥ ननु पूर्वानुवाके सहस्रस्थाने प्रवेशिता संख्या, तत्किं शतग्रहणेन । दत्तमत्रोत्तरं - शताय स्वाहेत्यादि 'शतायुर्वै पुरुषश्शतवीर्यः' इति सर्वेष्वनुवाकेषु शतवती संख्येति । 'युतान्यण्यन्तानाम्' इति अयुतादीनां त्रयाणां मध्योदात्तत्वम् । न्यर्बुदाय । पूर्वपदप्रकृतिस्वरत्वम् । परस्यार्थं परार्धं समासान्तोदात्तत्वम् । अथ उषस इत्यादयः चतस्रः अनुदिते होतव्याः । उदितायेत्यादयश्च चतस्रः उदिते होतव्याः । 'अहोरात्रयोरव्यतिमोहाय'33 इति ब्राह्मागम् । तत्र उषःप्रभृतयः ब्रह्मणो रात्रिसन्ध्यवयवा इति । उदितादयः अहस्सन्ध्यवयवाः । प्रकाशः उषाः । व्युष्टिः उक्तप्रकाशः । उच्छ विवासे क्तिनि 'तादौ' इति गतेः प्रकृतिस्वरत्वम्, 'उदात्तस्वरितयोः' इत्युकारः स्वर्यते । उदेष्यते प्रारम्भोन्मुखाय ब्रह्मणोह्ने । 'शतुरनुमः' इति विभक्तेरुदात्तत्वम् । उद्यते प्रारभमाणाय । इणो यण्, पूर्ववद्विभक्तेरुदात्तत्वम्, उदिताय प्ररब्धाय अह्ने । 'गतिरनन्तरः' इति प्रकृतिस्वरत्वं कर्मण्यपि व्यत्ययेन । सुवरादित्यः, तद्गामिने अह्नो मध्याय, दीप्तादित्यत्वात् । लोकाय अह्ने । सर्वस्मै परतोपि महसे । सर्वत्र तत्कालाभिमानिनी संख्या गृह्यते ॥

इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये सप्तमे काण्डे द्वितीयप्रश्ने विंशोनुवाकः ॥

समाप्तश्च प्रपाठकः ॥

……………………………………………………………………………………………………………

प्रश्नः-3