ऽस्मा इ॒मे लो॒का ऊर्जं॑ प्र॒जासु॑ दधाति त्रिरा॒त्रेणै॒वेमं ॅलो॒कं क॑ल्पयति त्रिरा॒त्रेणा॒न्तरि॑क्षं त्रिरा॒त्रेणा॒मुं ॅलो॒कं ॅयथा॑ गु॒णे ग॒णम॒न्वस्य॑त्ये॒वमे॒व तल्लो॒के लो॒कमन्व॑स्यति॒ धृत्या॒ अशि॑थिलंभावाय॒ ज्योति॒र्गौरायु॒रिति॑ ज्ञा॒ताः स्तोमा॑ भवन्ती॒यं ॅवाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॑रे॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठन्ति॒ ज्ञात्रं॑ प्र॒जानां᳚-[ ]
पदपाठः (Word-by-word)
अ॒स्मै॒ । इ॒मे । लो॒काः । ऊर्ज᳚म् । प्र॒जास्विति॑ प्र - जासु॑ । द॒धा॒ति॒ । त्रि॒रा॒त्रेणेति॑ त्रि - रा॒त्रेण॑ । ए॒व । इ॒मम् । लो॒कम् । क॒ल्प॒य॒ति॒ । त्रि॒रा॒त्रेणेति॑ त्रि - रा॒त्रेण॑ । अ॒न्तरि॑क्षम् । त्रि॒रा॒त्रेणेति॑ त्रि - रा॒त्रेण॑ । अ॒मुम् । लो॒कम् । यथा᳚ । गु॒णे । गु॒णम् । अ॒न्वस्य॒तीत्य॑नु-अस्य॑ति । ए॒वम् । ए॒व । तत् । लो॒के । लो॒कम् । अन्विति॑ । अ॒स्य॒ति॒ । धृत्यै᳚ । अशि॑थिलंभावा॒येत्यशि॑थिलं - भा॒वा॒य॒ । ज्योतिः॑ । गौः । आयुः॑ । इति॑ । ज्ञा॒ताः । स्तोमाः᳚ । भ॒व॒न्ति॒ । इ॒यम् । वाव । ज्योतिः॑ । अ॒न्तरि॑क्षम् । गौः । अ॒सौ । आयुः॑ । ए॒षु । ए॒व । लो॒केषु॑ । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । ज्ञात्र᳚म् । प्र॒जाना॒मिति॑ प्र - जाना᳚म् ।