गच्छति नवरा॒त्रो भ॑वत्यभिपू॒र्वमे॒वाऽस्मि॒न् तेजो॑ दधाति॒ यो ज्योगा॑मयावी॒ स्याथ् स न॑वरा॒त्रेण॑ यजेत प्रा॒णा हि वा ए॒तस्या धृ॑ता॒ अथै॒तस्य॒ ज्योगा॑मयति प्रा॒णाने॒वास्मि॑न् दाधारो॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व ॥
पदपाठः (Word-by-word)
ग॒च्छ॒ति॒ । न॒व॒रा॒त्र इति॑ नव - रा॒त्रः । भ॒व॒ति॒ । अ॒भि॒पू॒र्वमित्य॑भि-पू॒र्वम् । ए॒व । अ॒स्मि॒न्न् । तेजः॑ । द॒धा॒ति॒ । यः । ज्योगा॑मया॒वीति॒ ज्योक् - आ॒म॒या॒वी॒ । स्यात् । सः । न॒व॒रा॒त्रेणेति॑ नव - रा॒त्रेण॑ । य॒जे॒त॒ । प्रा॒णा इति॑ प्र-अ॒नाः । हि । वै । ए॒तस्य॑ । अधृ॑ताः । अथ॑ । ए॒तस्य॑ । ज्योक् । आ॒म॒य॒ति॒ । प्रा॒णानिति॑ प्र - अ॒नान् । ए॒व । अ॒स्मि॒न्न् । दा॒धा॒र॒ । उ॒त । यदि॑ । इ॒तासु॒रिती॒त - अ॒सुः॒ । भव॑ति । जीव॑ति । ए॒व ॥