दे॑वपु॒रा अ॑पश्य॒न्॒ यद्-द॑शरा॒त्रस्ताः पर्यौ॑हन्त॒ तेषां॒ न कुत॑श्च॒नोपा᳚व्या॒धो॑ ऽभव॒त् ततो॑ दे॒वा अभ॑व॒न् पराऽसु॑रा॒ यो भ्रातृ॑व्यवा॒न्थ् स्याथ् स द॑शरा॒त्रेण॑ यजेत देवपु॒रा ए॒व पर्यू॑हते॒ तस्य॒ न कुत॑श्च॒नोपा᳚व्या॒धो भ॑वति॒ भव॑त्या॒त्मना॒ परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति॒ स्तोमः॒ स्तोम॒स्योप॑स्तिर्भवति॒ भ्रातृ॑व्यमे॒वोप॑स्तिं कुरुते जा॒मि वा - [ ]
पदपाठः (Word-by-word)
दे॒व॒पु॒रा इति॑ देव-पु॒राः । अ॒प॒श्य॒न्न् । यत् । द॒श॒रा॒त्र इति॑ दश-रा॒त्रः । ताः । परीति॑ । औ॒ह॒न्त॒ । तेषा᳚म् । न । कुतः॑ । च॒न । उ॒पा॒व्या॒ध इत्यु॑प - आ॒व्या॒धः । अ॒भ॒व॒त् । ततः॑ । दे॒वाः । अभ॑वन्न् । परेति॑ । असु॑राः । यः । भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् । स्यात् । सः । द॒श॒रा॒त्रेणेति॑ दश - रा॒त्रेण॑ । य॒जे॒त॒ । दे॒व॒पु॒रा इति॑ देव - पु॒राः । ए॒व । परीति॑ । ऊ॒ह॒ते॒ । तस्य॑ । न । कुतः॑ । च॒न । उ॒पा॒व्या॒ध इत्यु॑प- आ॒व्या॒धः । भ॒व॒ति॒ । भव॑ति । आ॒त्मना᳚ । परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ । स्तोमः॑ । स्तोम॑स्य । उप॑स्तिः । भ॒व॒ति॒ । भ्रातृ॑व्यम् । ए॒व । उप॑स्तिम् । कु॒रु॒ते॒ । जा॒मि । वै ।