गा॑य॒त्रं ब्र॑ह्मवर्च॒सं गा॑यत्रि॒यामे॒व ब्र॑ह्मवर्च॒से प्रति॑ तिष्ठन्ति चतुश्चत्वारिꣳ॒॒शो भ॑वति॒ चतु॑ष्चत्वारिꣳशदक्षरा त्रि॒ष्टुगि॑न्द्रि॒यं त्रि॒ष्टुप् त्रि॒ष्टुभ्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्त्यष्टाचत्वारिꣳ॒॒शो भ॑वत्य॒ष्टाच॑त्वारिꣳशदक्षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒ जग॑त्यामे॒व प॒शुषु॒ प्रति॑ तिष्ठन्त्ये-कादशरा॒त्रो भ॑वति॒ पञ्च॒ वा ऋ॒तव॑ आर्त॒वाः पञ्च॒र्तुष्वे॒वाऽऽ*र्त॒वेषु॑ संॅवथ्स॒रे प्र॑ति॒ष्ठाय॑ प्र॒जामव॑ रुन्धते ऽतिरा॒त्राव॒भितो॑ भवतः प्र॒जायै॒ परि॑गृहीत्यै ॥
पदपाठः (Word-by-word)
गा॒य॒त्रम् । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । गा॒य॒त्रि॒याम् । ए॒व । ब्र॒ह्म॒व॒र्च॒स इति॑ ब्रह्म - व॒र्च॒से । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । च॒तु॒श्च॒त्वा॒रिꣳ॒॒श इति॑ चतुः - च॒त्वा॒रिꣳ॒॒शः । भ॒व॒ति॒ । चतु॑श्चत्वारिꣳशदक्ष॒रेति॒ चतु॑श्चत्वारिꣳशत् - अ॒क्ष॒रा॒ । त्रि॒ष्टुक् । इ॒न्द्रि॒यम् । त्रि॒ष्टुप् । त्रि॒ष्टुभि॑ । ए॒व । इ॒न्द्रि॒ये । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अ॒ष्टा॒च॒त्वा॒रिꣳ॒॒श इत्य॑ष्टा - च॒त्वा॒रिꣳ॒॒शः । भ॒व॒ति॒ । अ॒ष्टाच॑त्वारिꣳशदक्ष॒रेत्य॒ष्टाच॑त्वारिꣳशत् - अ॒क्ष॒रा॒ । जग॑ती । जाग॑ताः । प॒शवः॑ । जग॑त्याम् । ए॒व । प॒शुषु॑ । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । ए॒का॒द॒श॒रा॒त्र इत्ये॑कादश-रा॒त्रः । भ॒व॒ति॒ । पञ्च॑ । वै । ऋ॒तवः॑ । आ॒र्त॒वाः । पञ्च॑ । ऋ॒तुषु॑ । ए॒व । आ॒र्त॒वेषु॑ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । प्र॒ति॒ष्ठायेति॑ प्रति - स्थाय॑ । प्र॒जामिति॑ प्र - जाम् । अवेति॑ । रु॒न्ध॒ते॒ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । प्र॒जाया॒ इति॑ प्र - जायै᳚ । परि॑गृहीत्या॒ इति॒ परि॑-गृ॒ही॒त्यै॒ ॥