प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.2.8.1 TS 7.2.8.1
गा॒य॒त्रो वा ऐ᳚न्द्रवाय॒वो गा॑य॒त्रं प्रा॑य॒णीय॒-मह॒स्तस्मा᳚त् प्राय॒णीये-ऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति॒ त्रैष्टु॑भो॒ वै शु॒क्रस्त्रैष्टु॑भं द्वि॒तीय॒-मह॒स्तस्मा᳚द् द्वि॒तीयेऽह॑ञ्छु॒क्रो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति॒ जाग॑तो॒ वा आ᳚ग्रय॒णो जाग॑तं तृ॒तीय॒-मह॒स्तस्मा᳚त् तृ॒तीयेऽह॑न्नाग्रय॒णो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णात्ये॒तद्वै - [ ]
पदपाठः (Word-by-word)
गा॒य॒त्रः । वै । ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र - वा॒य॒वः । गा॒य॒त्रम् । प्रा॒य॒णीय॒मिति॑ प्र - अ॒य॒नीय᳚म् । अहः॑ । तस्मा᳚त् । प्रा॒य॒णीय॒ इति॑ प्र - अ॒य॒नीये᳚ । अहन्न्॑ । ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र - वा॒य॒वः । गृ॒ह्य॒ते॒ । स्वे । ए॒व । ए॒न॒म् । आ॒यत॑न॒ इत्या᳚ - यत॑ने । गृ॒ह्णा॒ति॒ । त्रैष्टु॑भः । वै । शु॒क्रः । त्रैष्टु॑भम् । द्वि॒तीय᳚म् । अहः॑ । तस्मा᳚त् । द्वि॒तीये᳚ । अहन्न्॑ । शु॒क्रः । गृ॒ह्य॒ते॒ । स्वे । ए॒व । ए॒न॒म् । आ॒यत॑न॒ इत्या᳚ - यत॑ने । गृ॒ह्णा॒ति॒ । जाग॑तः । वै । आ॒ग्र॒य॒णः । जाग॑तम् । तृ॒तीय᳚म् । अहः॑ । तस्मा᳚त् । तृ॒तीये᳚ । अहन्न्॑ । आ॒ग्र॒य॒णः । गृ॒ह्य॒ते॒ । स्वे । ए॒व । ए॒न॒म् । आ॒यत॑न॒ इत्या᳚ - यत॑ने । गृ॒ह्णा॒ति॒ । ए॒तत् । वै ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अधुना द्वादशाहस्य नित्यग्रहाग्रताकॢप्तिः प्रदर्श्यते । तत्र द्विविधो द्वादशाहः - अव्यूढो व्यूढश्च तद्विकार इति । तत्र प्रथमो यथा - ऐन्द्रवायवाग्रौ प्रायणीयोदयनीयौ दशमं चाहः । अथेतरेषां नवानामैन्द्रवायवाग्रं प्रथममहः, अथ शुक्राग्रम्, अथाग्रयणाग्रम्, एवं विहित ... निका ... इति । अथ व्यूढो यथा - ऐन्द्रवायवाग्रौ प्रायणीयोदयनीयौ । अथेतरेषां दशानामैन्द्रवायवाग्रं प्रथममहः, अथ शुक्राग्रम्, अथ द्वे आग्रयाणाग्रे अथ ऐन्द्रवायवाग्रम्, अथ द्वे शुक्राग्रे, अथ आग्रयणाग्रम्, अथ द्वे ऐन्द्रवायवाग्रे इति । विवहनक्रमश्चैषामनुवाकान्ते दर्शयिष्यते ॥

आदौ तु व्यूढान्यहानि क्रमेण दर्शयति - गायत्रो वा इत्यादि ॥ ऐन्द्रवायवो ग्रहो गायत्रं गायत्रभक्तं, प्राथम्यात् । तथा प्रायणीयमहः प्राथम्यादेव गायत्रम् । तस्मात्प्रयणीये दशरात्रस्य प्रथमेऽहनि प्राथम्यादेव प्रायणीयव्यपदेशभाजित्वात्, द्वादशाहस्य द्वितीयेऽहनि । यद्वा - प्रथमस्यातिरात्रस्य प्रथमत्वात्प्रायणीयेऽहनि ऐन्द्रवायवो गृह्यते प्रथममिति भावः, अन्यथा वचनानर्थक्यात्, यत्र क्वचन ग्रहणस्य वचनमन्तरेणापि सिद्धत्वात् । एवं सर्वत्र द्रष्टव्यम् । प्रायणं प्रारम्भः, तत्र भवः प्रायणीयः । दिगादित्वाच्छः । यद्वा - प्रायणं स्वर्गगमनादिकर्म, तत्प्रयोजनमस्येति । अनुप्रवचनादित्वाच्छः । स्व एवायतने स्थाने एनं गृह्णाति गायत्रं गायत्रेण, गायत्रत्वात् द्वयोः ॥

2 त्रैष्टुभः शुक्रः त्रिष्टुब्भक्तित्वात् । त्रैष्टुभं द्वितीयमहः, गायत्र्या अनन्तरत्वात् । तस्माद्वितीयेऽहनि दशरात्रस्य शुक्रः प्रथमं गृह्यते इति पूर्ववत् तद्द्रष्टव्यम् ॥
3 जागत आग्रयणः । उभयोस्तृतीयसवने साहचर्यात् तृतीयत्वसाम्यात् जागतं तृतीयमहः । तस्मादित्यादि । गतम् ॥
4 एतद्वा इत्यादि ॥ एतदाग्रयणग्रहाग्रतावत्तृतीयमर्हज्ञं त्रिरात्रमापत् अवाप्नोत् । यस्माद्वा एतच्छन्दांसि जगत्यन्तानि सर्वाण्याप्नोति - छन्दस्समाप्तौ हि यागसमाप्तिः, तत्राग्रयणे यज्ञावाप्तिरभूदिति - ततश्चतुर्थेऽह्नि द्वितीयस्य यज्ञस्य प्रथमे आग्रयणं प्रथमं गृह्यते । यस्मादेवमाग्रयणः श्वो गृह्यते तद्यज्ञे यत्रादृशन् उदपादयत् छन्दांस्यपश्यन् तत एवाग्रयणादारभ्य एनं यज्ञं पुनः प्रयुङ्क्ते, आग्रयणाग्रता पुनरावर्तते इति यावत् । यज्ञदर्शनाधारत्वेन तस्य प्रशस्तत्वात् । दृशेर्लुङि इरित्त्वाच्च्लेरङादेशः, 'ऋदृशोऽङि गुणः' इति व्यत्ययेन न प्रवर्तते ॥
5 जगन्मुख । इत्यादि ॥ जागतराथन्तरबार्हतत्वाद्द्वितीयः त्रिरात्रः जगन्मुखः । जगत्सामप्रधानत्वात् जागतत्वमाग्रयणस्योक्तम् । स्व एव जागते आयतने एनमाग्रयणं गृह्णाति । अथो अपि च स्वयमेव छन्दो जगतमिनुपर्यावर्तते द्वितीयत्रिरात्रसंवन्धीन्यहानि स्वेन छन्दसा अनुपर्यावर्तन्त इत्यर्थः । पूर्ववद्गतिनिघातसमासौ, तृतीयार्थे अनोः कर्मप्रवचनीयत्वम् । यद्वा - स्वयमेव पर्यावर्तन्ते ॥
6 राथन्तरो वा ऐन्द्रवायवः, द्वयोरपि प्राथम्यात्, साहचर्या- च्च । राथन्तरं पञ्चममहः रथन्तरप्रधानत्वात् । तस्मादित्यादि । गतम् ॥
7 बार्हतः शुक्रः, बृहद्भक्तित्वात् । बार्हतं षष्ठमहः, क्रमात् । तस्मादित्यादि । स्व एव बार्हते एनं गृह्णाति ॥
8 एतद्वा इत्यादि ॥ द्वितीयं त्रिरात्रं यज्ञं शुक्राग्रतावत् अहरापत् छन्दांसि बृहत्यन्तानि । यच्छुक्र इत्यादि । गतम् ॥
9 त्रिष्टुङ्मुख इति ॥ त्रिष्टुग्वाक्प्राणसंबन्धित्वात् तृतीयत्रिरात्र संबन्धिनामह्नाम् । त्रैष्टुभः शुक्रः, द्वितीयत्वाद्द्वयोः । यत्सप्तमेऽहन्नित्यादि । तृतीयं त्रिरात्रं यज्ञम् । छन्दांसीत्यादि । गतम् ॥
10 वाग्वा इति ॥
11 प्राण ऐन्द्रवायवः, तत्संबन्धात्प्राणो नवममहः, नवमत्वान्वयात्, प्राणानां च नवत्वान्वयात् ॥
12 एतद्वा इत्यादि ॥ तृतीयं त्रिरात्रम् । छन्दांसीत्यादि । गतम् ॥
13 पथो वा इत्यादि ॥ एते खलु पथः मार्गादपेत्य अपथेन गच्छन्ति ये अन्येन ऐन्द्रवायवात् प्रतिपद्यन्ते, अस्य प्रकृतौ प्रज्ञातत्वात् । अन्त इत्यादि । यज्ञान्ते ऐन्द्रवायवान्वये यज्ञस्य सम्यक् निर्वृत्त्या अपथात् पन्थानमेव प्रतिपद्यन्ते । द्वितीयायामपि व्यत्ययेनात्वम् । अथो अपिच यथा वहीयसा वोढृतरणे अनडुहा प्रतिसारं वरिष्ठद्रव्यं वहन्ति तादृक् तद्दशमं वरिष्ठतमं वोढृतरेण ऐन्द्रवायवेन वहन्ति । वोढृशब्दात् 'तुश्छन्दसि' इतीयसुन्, 'तुरिष्ठेमेयस्सु' इति तृशब्दलोपः ॥
14 इदानीं तेषां विवहनक्रमं दर्शयति - छन्द्रांसीत्यादि ॥ अन्यः अन्यस्य लोकं स्थान अभ्यध्यायन् कथं नामेनं गछेमेति । कर्मव्यतिहारे सर्वनाम्नो द्वे भवतः । असमासपक्षे प्रथमैकवचनं च पूर्वपदस्य । अन्योन्यस्येत्यर्थः । तानि छन्दांसि देवाः एतेन वक्ष्यमाणेन क्रमेण व्यवाहयन् व्यत्यासेन प्रापयत् स्थानानि । कथमित्याह - ऐन्द्रवायवस्येत्यादि । ऐन्द्रवायवस्य चतुर्थमहः आयतनं स्थानं अव्यूढे ऐन्द्रवायवशुक्राग्रयणानां पुनःपुनः प्रवृत्तेः । तस्मिन् चतुर्थेऽहनि आग्रयणो गृह्यते । व्यूढे तच्च प्रदर्शितम् । तस्मात् स्वस्थानापहारिणः आग्रयणस्य स्थाने नवमे अहनि ऐन्द्रवायवो गृह्यते । एतेनैव शुक्रस्य वा एतदित्यादि व्याख्यातम् । तत्र प्रथमं शुक्रैन्द्रवायवयोः, तत आग्रयणशुक्रयोः ॥
15 छन्दांस्येवेत्यादि ॥ तत् तथा कुर्वन् छन्दांस्येव विवाहयति परस्परेणाभिसंबन्धीनि करोति, तत्प्रधानत्वादह्नाम् । एवं छन्दसां विवहनस्य वेदिता वस्यसः प्रकृष्टात्कुलात् विवाहं प्राप्तोति दारिकां परिणयति । वसुमच्छब्दादीयसुनि 'विन्मतोर्लुक्' इति लुक् । टिलोपं छान्दसः प्रत्ययादेर्लोपः । अथो अपिच देवार्थं यज्ञे यज्ञनिर्वृत्तये संविदं दधाति संधारयति व्यूढं यज्ञं निर्वर्तयिष्यामीति । तस्मादिदं अनेन क्रमेण छन्दांसि अन्योन्यस्मै ददाति अन्यच्छन्दसः स्थानमन्यस्मै ददाति, अन्यदपि चान्यस्मै । पूर्ववद्द्विर्वचनादि । यद्वा - तस्मादन्यः पुरुषः अन्यस्मै अन्यगोत्राय स्वदारिकां करोति यस्मादेवं छन्दांसि अन्योन्यस्मै स्वस्थानं प्रादुरिति । इदमिति सामान्येन लोकप्रसिद्धिं दर्शयति । इदमेव विवहन प्रतिपादनं लिङ्गं समू[अव्यू]ढो व्यूढस्य प्रकृतिरिति । असत्यां हि तस्यां ऐन्द्रवायवस्य वा इत्याद्यघटमानं स्यात्, न हि कस्य चित् किञ्चित्स्थानं नियतं स्यात् ॥
इति सप्तमे द्वितीये अष्टमोऽनुवाकः ॥