प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.2.8.3 TS 7.2.8.3
-न्नैन्द्रवाय॒वो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति॒ बार्.ह॑तो॒ वै शु॒क्रो बार्.ह॑तꣳ ष॒ष्ठमह॒स्तस्मा᳚थ् ष॒ष्ठेऽह॑ञ्छु॒क्रो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णात्ये॒तद्वै द्वि॒तीयं॑ ॅय॒ज्ञ्मा॑प॒द्-यच्छन्दाꣳ॑स्या॒प्नोति॒ यच्छु॒क्रः श्वो गृ॒ह्यते॒ यत्रै॒व य॒ज्ञ्मदृ॑श॒न् तत॑ ए॒वैनं॒ पुनः॒ प्रयु॑ङ्क्ते त्रि॒ष्टुङ्मु॑खो॒ वै तृ॒तीय॑स्त्रिरा॒त्रस्त्रैष्टु॑भः - [ ]
पदपाठः (Word-by-word)
ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र - वा॒य॒वः । गृ॒ह्य॒ते॒ । स्वे । ए॒व । ए॒न॒म् । आ॒यत॑न॒ इत्या᳚ - यत॑ने । गृ॒ह्णा॒ति॒ । बार्.ह॑तः । वै । शु॒क्रः । बार्.ह॑तम् । ष॒ष्ठम् । अहः॑ । तस्मा᳚त् । ष॒ष्ठे । अहन्न्॑ । शु॒क्रः । गृ॒ह्य॒ते॒ । स्वे । ए॒व । ए॒न॒म् । आ॒यत॑न॒ इत्या᳚ - यत॑ने । गृ॒ह्णा॒ति॒ । ए॒तत् । वै । द्वि॒तीय᳚म् । य॒ज्ञ्म् । आ॒प॒त् । यत् । छन्दाꣳ॑सि । आ॒प्नोति॑ । यत् । शु॒क्रः । श्वः । गृ॒ह्यते᳚ । यत्र॑ । ए॒व । य॒ज्ञ्म् । अदृ॑शन्न् । ततः॑ । ए॒व । ए॒न॒म् । पुनः॑ । प्रेति॑ । यु॒ङ्क्ते॒ । त्रि॒ष्टुङ्मु॑ख॒ इति॑ त्रि॒ष्टुक् - मु॒खः॒ । वै । तृ॒तीयः॑ । त्रि॒रा॒त्र इति॑ त्रि - रा॒त्रः । त्रैष्टु॑भः ।
पदसंख्या: 50