शु॒क्रो यथ् स॑प्त॒मेऽह॑ञ्छु॒क्रो गृ॒ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णा॒त्यथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते॒ वाग्वा आ᳚ग्रय॒णो वाग॑ष्ट॒ममह॒-स्तस्मा॑दष्ट॒मेऽह॑न्नाग्रय॒णो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति प्रा॒णो वा ऐ᳚न्द्रवाय॒वः प्रा॒णो न॑व॒म-मह॒स्तस्मा᳚न्नव॒मे ऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णात्ये॒त - [ ]
पदपाठः (Word-by-word)
शु॒क्रः । यत् । स॒प्त॒मे । अहन्न्॑ । शु॒क्रः । गृ॒ह्यते᳚ । स्वे । ए॒व । ए॒न॒म् । आ॒यत॑न॒ इत्या᳚ - यत॑ने । गृ॒ह्णा॒ति॒ । अथो॒ इति॑ । स्वम् । ए॒व । छन्दः॑ । अन्विति॑ । प॒र्याव॑र्तन्त॒ इति॑ परि - आव॑र्तन्ते । वाक् । वै । आ॒ग्र॒य॒णः । वाक् । अ॒ष्ट॒मम् । अहः॑ । तस्मा᳚त् । अ॒ष्ट॒मे । अहन्न्॑ । आ॒ग्र॒य॒णः । गृ॒ह्य॒ते॒ । स्वे । ए॒व । ए॒न॒म् । आ॒यत॑न॒ इत्या᳚ - यत॑ने । गृ॒ह्णा॒ति॒ । प्रा॒ण इति॑ प्र - अ॒नः । वै । ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र - वा॒य॒वः । प्रा॒ण इति॑ प्र - अ॒नः । न॒व॒मम् । अहः॑ । तस्मा᳚त् । न॒व॒मे । अहन्न्॑ । ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र - वा॒य॒वः । गृ॒ह्य॒ते॒ । स्वे । ए॒व । ए॒न॒म् । आ॒यत॑न॒ इत्या᳚ - यत॑ने । गृ॒ह्णा॒ति॒ । ए॒तत् ।