-द्वै तृ॒तीयं॑ ॅय॒ज्ञ्मा॑प॒द्-यच्छन्दाꣳ॑स्या॒प्नोति॒ यदै᳚न्द्रवाय॒वः श्वो गृ॒ह्यते॒ यत्रै॒व य॒ज्ञ्मदृ॑श॒न् तत॑ ए॒वैनं॒ पुनः॒ प्रयु॒ङ्क्ते ऽथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते प॒थो वा ए॒तेऽद्ध्यप॑थेन यन्ति॒ ये᳚ऽन्येनै᳚न्द्रवाय॒वात् प्र॑ति॒पद्य॒न्तेऽन्तः॒ खलु॒ वा ए॒ष य॒ज्ञ्स्य॒ यद्-द॑श॒म-मह॑र्दश॒मे ऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते य॒ज्ञ्स्यै॒-[ ]
पदपाठः (Word-by-word)
वै । तृ॒तीय᳚म् । य॒ज्ञ्म् । आ॒प॒त् । यत् । छन्दाꣳ॑सि । आ॒प्नोति॑ । यत् । ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र - वा॒य॒वः । श्वः । गृ॒ह्यते᳚ । यत्र॑ । ए॒व । य॒ज्ञ्म् । अदृ॑शन्न् । ततः॑ । ए॒व । ए॒न॒म् । पुनः॑ । प्रेति॑ । यु॒ङ्क्ते॒ । अथो॒ इति॑ । स्वम् । ए॒व । छन्दः॑ । अन्विति॑ । प॒र्याव॑र्तन्त॒ इति॑ परि - आव॑र्तन्ते । प॒थः । वै । ए॒ते । अधीति॑ । अप॑थेन । य॒न्ति॒ । ये । अ॒न्येन॑ । ऐ॒न्द्र॒वा॒य॒वादित्यै᳚न्द्र - वा॒य॒वात् । प्र॒ति॒पद्य॑न्त॒ इति॑ प्रति - पद्य॑न्ते । अन्तः॑ । खलु॑ । वै । ए॒षः । य॒ज्ञ्स्य॑ । यत् । द॒श॒मम् । अहः॑ । द॒श॒मे । अहन्न्॑ । ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र - वा॒य॒वः । गृ॒ह्य॒ते॒ । य॒ज्ञ्स्य॑ ।