-वान्तं॑ ग॒त्वा ऽप॑था॒त् पन्था॒मपि॑ य॒न्त्यथो॒ यथा॒ वही॑यसा प्रति॒सारं॒ ॅवह॑न्ति ता॒दृगे॒व तच्छन्दाꣳ॑स्य॒न्यो᳚ऽन्यस्य॑ लो॒कम॒भ्य॑द्ध्याय॒न् तान्ये॒तेनै॒व दे॒वा व्य॑वाहयन्नैन्द्रवाय॒वस्य॒ वा ए॒तदा॒यत॑नं॒ ॅयच्च॑तु॒र्थमह॒स्तस्मि॑-न्नाग्रय॒णो गृ॑ह्यते॒ तस्मा॑दाग्रय॒णस्या॒ ऽऽ*यत॑ने नव॒मेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते शु॒क्रस्य॒ वा ए॒तदा॒यत॑नं॒ ॅयत् प॑ञ्च॒म - [ ]
पदपाठः (Word-by-word)
ए॒व । अन्त᳚म् । ग॒त्वा । अप॑थात् । पन्था᳚म् । अपीति॑ । य॒न्ति॒ । अथो॒ इति॑ । यथा᳚ । वही॑यसा । प्र॒ति॒सार॒मिति॑ प्रति-सार᳚म् । वह॑न्ति । ता॒दृक् । ए॒व । तत् । छन्दाꣳ॑सि । अ॒न्यः । अ॒न्यस्य॑ । लो॒कम् । अ॒भीति॑ । अ॒द्ध्या॒य॒न्न् । तानि॑ । ए॒तेन॑ । ए॒व । दे॒वाः । वीति॑ । अ॒वा॒ह॒य॒न्न् । ऐ॒न्द्र॒वा॒य॒वस्येत्यै᳚न्द्र - वा॒य॒वस्य॑ । वै । ए॒तत् । आ॒यत॑न॒मित्या᳚ - यत॑नम् । यत् । च॒तु॒र्थम् । अहः॑ । तस्मिन्न्॑ । आ॒ग्र॒य॒णः । गृ॒ह्य॒ते॒ । तस्मा᳚त् । आ॒ग्र॒य॒णस्य॑ । आ॒यत॑न॒ इत्या᳚-यत॑ने । न॒व॒मे । अहन्न्॑ । ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र - वा॒य॒वः । गृ॒ह्य॒ते॒ । शु॒क्रस्य॑ । वै । ए॒तत् । आ॒यत॑न॒मित्या᳚ - यत॑नम् । यत् । प॒ञ्च॒मम् ।