-मह॒स्तस्मि॑न्नैन्द्रवाय॒वो गृ॑ह्यते॒ तस्मा॑दैन्द्रवाय॒वस्या॒ऽऽ*यत॑ने सप्त॒मेऽह॑ञ्छु॒क्रो गृ॑ह्यत आग्रय॒णस्य॒ वा ए॒तदा॒यत॑नं ॅयथ् ष॒ष्ठमह॒स्तस्मि॑ञ्छु॒क्रो गृ॑ह्यते॒ तस्मा᳚च्छु॒क्रस्या॒ ऽऽ*यत॑नेऽष्ट॒मेऽह॑न्नाग्रय॒णो गृ॑ह्यते॒ छन्दाꣳ॑स्ये॒व तद्वि वा॑हयति॒ प्र वस्य॑सो विवा॒हमा᳚प्नोति॒ य ए॒वं ॅवेदाथो॑ दे॒वता᳚भ्य ए॒व य॒ज्ञे सं॒ॅविदं॑ दधाति॒ तस्मा॑दि॒द-म॒न्यो᳚ऽन्यस्मै॑ ( ) ददाति ॥
पदपाठः (Word-by-word)
अहः॑ । तस्मिन्न्॑ । ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र - वा॒य॒वः । गृ॒ह्य॒ते॒ । तस्मा᳚त् । ऐ॒न्द्र॒वा॒य॒वस्येत्यै᳚न्द्र - वा॒य॒वस्य॑ । आ॒यत॑न॒ इत्या᳚-यत॑ने । स॒प्त॒मे । अहन्न्॑ । शु॒क्रः । गृ॒ह्य॒ते॒ । आ॒ग्र॒य॒णस्य॑ । वै । ए॒तत् । आ॒यत॑न॒मित्या᳚ - यत॑नम् । यत् । ष॒ष्ठम् । अहः॑ । तस्मिन्न्॑ । शु॒क्रः । गृ॒ह्य॒ते॒ । तस्मा᳚त् । शु॒क्रस्य॑ । आ॒यत॑न॒ इत्या᳚ - यत॑ने । अ॒ष्ट॒मे । अहन्न्॑ । आ॒ग्र॒य॒णः । गृ॒ह्य॒ते॒ । छन्दाꣳ॑सि । ए॒व । तत् । वीति॑ । वा॒ह॒य॒ति॒ । प्रेति॑ । वस्य॑सः । वि॒वा॒हमिति॑ वि-वा॒हम् । आ॒प्नो॒ति॒ । यः । ए॒वम् । वेद॑ । अथो॒ इति॑ । दे॒वता᳚भ्यः । ए॒व । य॒ज्ञे । सं॒ॅविद॒मिति॑ सं - विद᳚म् । द॒धा॒ति॒ । तस्मा᳚त् । इ॒दम् । अ॒न्यः । अ॒न्यस्मै᳚ ( ) । द॒दा॒ति॒ ॥